________________ मग्गणट्ठाण 57 - अमिधानराजेन्द्रः - भाग 6 मम्गदूसग अन्ये तु आचार्याः (मणि त्ति) मनोयोगे द्वे जीवस्थानके त्रयोदश गुणस्थानकानि, त्रयोदश योगाः, द्वादशोपयोगा इति इत्थ क्रमेण यथासंख्यमित्यर्थः / अत्रायमभिप्रायः प्रागयोगान्तरसहितोऽसहितो वा स्वरूपमात्रेणैव काययोगाऽऽदिर्विवक्षितस्तेन तत्र यथोक्तगुणस्थानकाऽऽदिवक्तव्यता सर्वाऽव्युपपद्यते। इह तु काययोगाऽऽदिर्योगान्तरविरहित एव विवक्ष्यते / यथा मनोयोगवाग्योगविरहितः काययोगः, मनोयोगविरहितो वाग्योगः। ततो मनोयोग द्वे अन्तिमे जीवस्थानके, अयोगिकेवलिवर्जितानि त्रयोदश गुणस्थानानि, कार्मणौदारिकमिश्रवर्जितास्त्रयोदश योगाः, कार्मणौदारिकमिश्री हि काययोगावपर्याप्तावथाया केवलिसमुद्धातावस्थायां वा। न च तदानी मनोयोगः, अपर्याप्तावस्थाया मनस एवाभावात, केवलिसमुद्धातावस्थायां तु प्रयोजनाभावात्। उक्त च-'मनोवचसीतुतदा सर्वथा नव्यापारयति, प्रयोजनाभावात्" तथावचने मनोयोगविरहिते वाग्योगे क्रमादष्टौ जीवस्थानानि पर्याप्तापर्याप्तद्वीन्द्रिय त्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियरूपाणि, द्वे गुणस्थाने मिथ्यात्वसास्वादनलक्षणे, चत्वारो योगाः कार्मणौदारिकमिश्रौदारिकासत्यामृषावाग्योगरूपाः चत्यार उपयोगा मत्यज्ञानश्रुताऽज्ञानचक्षुदर्शनाऽचक्षुर्दर्शनलक्षणः / वाग्योगो हि मनोयोगविरहितस्वभावो द्वीन्द्रियाऽऽदिष्वेयाऽसंज्ञिपञ्चेन्द्रिय-पर्यनतेषु सम्भवति नान्येषु / ततो यथोक्तान्येव जीवस्थानकाऽऽदीनि तत्र सम्भवन्ति न ऊनाधिकानि / तथा केवलकाययोगे चत्वारि पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणानि जीवस्थानकानि, द्वे आद्ये गुणस्थानके मिथ्यादृष्टिसास्वादनलक्षणे, पञ्च योगा वैक्रियद्विकौदारिकद्विककार्मणरूपाः, त्रय उपयोगा मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनस्वरूपाः। केवलकाययोगो हि एकेन्द्रियेष्वेवावाप्यते. तत्र जीवस्थानकाऽऽदीनि यथोक्तान्येव घटन्त इति // 35|| अभिहितं योगेष्वेकीयमतम्। साम्प्रतं मार्गणास्थानेषु लेश्या अभिधित्सुराहछसु लेसासु सठाणं, एगिदि असंनिभूदगवणेसु / पढमा चउरो तिन्नि उ, नारयविगलग्गि पवणेसु // 36|| षड्लेश्यासुस्वस्थानम् स्वाः स्वाः लेश्या भवन्ति, यथा कृष्णलेश्यायां कृष्णलेश्या इत्यादि। सामान्यत एकेन्द्रियेषु असंज्ञिभूदकवनेषु पृथिव्यम्बुवनस्पतिषु प्रथमाः कृष्णनीलकापोततेजोलेश्याश्चतस्रो भवन्ति, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवा हि स्वस्वभवच्युता एतेषु मध्ये समुत्पद्यन्ते, तेचतेजोलेश्यावन्तः, जीवश्च यल्लेश्च एव म्रियते अग्रेऽपि तल्लेश्य एवोत्पद्यते, "जल्लेसे भरइतल्लेसे उववजइ।" इति वचनात्। तत एतेषामपर्याप्तावस्थायां कियत्कालं तेजोलेश्या भवति; नारकेषु विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु, अग्निषु तेजस्कायेषु, पवनेषु वायुकायिकेषु, प्रथमास्तिस्रः कृष्णनीलकापोतलेश्या भवन्ति नान्याः, प्रायोऽमीषामप्रशस्ताध्यवसायस्थानोपेतत्वात् // 36 // अहखायसुहुमकेवल-दुगि सुक्का छावि सेसठाणेसुं। नरनिरयदेवतिरिया, थोवा दु असंखऽणंतगुणा।।३७।। यथाख्यातसयमे, सूक्ष्मसम्परायसंयमे च, केवलद्विके-केवलज्ञानकेवलदर्शनरूपे शुक्ललेश्यैव न शेषलेश्याः, यथाख्यातसंयमाऽऽदावेकान्तविशुद्धपरिणामभावात् तस्य च शुक्ललेश्याऽविनाभूतत्वात् / शेषस्थानेषु सुरगतौ तिर्यग्गतौ पञ्चेन्द्रियत्रसकाययोगत्रयवेदत्रयकषायचतुष्ट्यमतिज्ञानश्रुतज्ञानावधिज्ञानमनः पर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसमायिकच्छेदोपस्थापनपरिहारविशुद्धिकदेशविरताविरतचक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशभिकौपशमिकसास्वादनमिश्रमिथ्यात्वसंज्ञयाहारकाऽनाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः / उक्ता मार्गणास्थानेषु लेश्याः / कर्म०४ कर्म०। (अल्पबहुत्वविषयः' अप्पाबहुय' शब्दे प्रथमभागे 636 पृष्ठे गतः।) मग्गणा स्त्री० (मार्गणा) 'मृग' अन्वेषणे / अशेषसत्त्वापीडयाऽन्वेषणे, ओघ० / पिं० / निपुणवुद्ध्याऽन्वेषणे, पिं० / मार्गणं जीवाऽऽदीनां पदार्थानामन्वेषणं सैव मार्गणा / प्रव० 225 द्वार / अन्वयधर्मान्वेषणे, न०। आ०म०।"चउव्विधा मग्गणा, तीए इमो दिटुंतो ताव भण्णतिचउव्विहं पुण मग्गणं भणितं, तत्थ दिट्ठतो घडो, णो घडो, अघडो, संपुण्णो घड़ो। तस्सेव देसो णो घडो घडवतिरित्तं दव्वं, अघडोणो अघडोघडदेसो न व्यतिरिक्तं च अण्णं दव्यं, एवं णमोकारस्स वि चतुविधा मग्गणा।'' आ० चू०१ अ०। विशे०। नं०। याचने, आव०४ अ०। मग्गणास पुं०(मार्गनाश) ज्ञानाऽऽदेर्मोक्षमार्गस्य नाशे, दर्श०३ तत्त्व। मग्गणुसारि पुं० (मार्गानुसारिन्) ज्ञानाऽऽदित्रयानुसारिणि, पञ्चा०११ विव०। षो। मग्गत्थ पुं० (मार्गस्थ) सद्भिराचीर्णमार्गव्यवस्थिते. सूत्र०२ श्रु०१ अ०। मरगद (य) पुं० (मार्गद) मार्गो विशिष्टगुणस्थानावाप्तिप्रवणस्वर-सवाही क्षयोपशमविशेषस्तं ददातीति मार्गदः। रा०! इह मार्गो भुजङ्गमनलिकाऽऽयामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषः, हेतुस्वरूपफलशुद्धासुखेत्यन्ये, अस्मिन्नसतिन यथोचितगुणस्थानावाप्तिः, मार्गविषमयता चेतः स्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्भ्य एवेति, मार्ग ददतीति मार्गदाः / ध०२ अधि०। मार्गदय पुं० मार्ग सम्यग्दर्शनज्ञानचारित्राऽऽत्मकं परमपदपुरपथं दयत इति मार्गदयः / स०१ सम० भ०। औ०। जी०। मोक्षमार्गस्य दायके जिने, कल्प०१ अधि०१ क्षण। मग्गदूसग पुं० (मार्गदूषक) ज्ञानाऽऽदिमार्गविराधके, पं०व०। मार्गदूषकमाहणाणाइविविहमग्गं, दूसइ जो जे अ मग्गपडिवण्णे। अबुहो जाईए खलु, भण्णइ सो मग्गदूसो त्ति / / 1657 / / ज्ञानाऽऽदित्रिविधमार्ग पारमार्थिक दूषयति यः कश्चित् ये च मार्गप्रतिपन्नाः साधवस्ताँश्च दूषयति अबुधः-अविद्वान् जात्यैव परमार्थेन भण्यते, स चैवंभूते मार्गदूषकः पाप इति। पं० व०४ द्वार।