________________ वक्खाण 753 - अभिधानराजेन्द्रः - भाग 6 वक्खारपव्वय क्रियत एवै- तद्यः पूर्वमादौ स्थितश्चारित्रे आदी प्रव्रजित इतिगाथार्थः / युक्तं चैतदित्याह - ववहारो विहु बलवं, जं छउमत्थं पि वंदई अरहा। जा होई अणामिन्नो, जाणतो धम्मयं एयं / / 1016 / / व्यवहारोऽपि निश्चयेन बलवान् वर्त्तते यत् छद्मस्थमपि सन्तं चिरप्रव्रजितं वन्दते अर्हन् केवली, यावद्भवत्यनभिज्ञः स चिरप्रव्रजितः, जानानो धर्मतामेनाम् व्यवहारगोचरामिति गाथार्थः। यद्येवं कः प्रकृतोपयोग इत्याहएत्थ उ जिणवयणाओ, सुत्तासायणबहुत्तदोसाओ। भासंति जिट्ठगस्स उ, कायव्वं होइ किइकम्मं / / 1017 / / अत्र तु 'जिनवचनाद्' 'भासन्तो' 'होती त्यादेः सूत्रात् सूत्राशातनायां दोषबहुलत्वात्कारणाद्भाषमाणज्येष्ठस्यैव कर्त्तव्यं भवति- 'कृतिकर्म' वन्दनं नेतरस्येति गाथार्थः। व्याख्येयमाह - वक्खाणेअव्वं पुण, जिणवयणं णंदिमाइसुपसत्थं / जं जम्मि जम्मि काले, जावइ भावसंजुत्तं / / 1016 / / व्याख्यानयितव्यं पुनस्तेन जिनवचनं, नान्यत्। नन्द्यादि, सुप्रशस्तंसंवेगकारि, यत् यस्मिन् यस्मिन् काले यावत्प्रचरति 'भावसंयुक्त' भावार्थसारमिति गाथार्थः। सिस्से वा णाऊणं, जोम्गयरे केइ दिद्विवायाई। तत्तो वा निजूढं, सेसं ते चेव विअरंति // 1016 / / शिष्यान् वा ज्ञात्वा योग्येतरान् काश्चन दृष्टिवादादिव्याख्यानयितव्यम्, ततो वा दृष्टिवादादेः निर्मूढमाकृष्टं शेष नन्द्यादि, तएव योग्याः वितरन्ति तदन्येभ्यो ददतीति गाथार्थः। नियूँढलक्षणमाह - सम्मं धम्मविसेसो, जहिय कसच्छेअतावपरिसुद्धो। वण्णिज्जइ निजूढं, एवंविहमुत्तमसुआइ॥ 1020 // सम्यग् धर्मविशेषः-पारमार्थिकः यत्र-ग्रन्थरूपे कषच्छेदतापपरिशुद्धः त्रिकोटीदोषवर्जितः वर्ण्यते-सम्यक् नियूढमेवंविधं भवति, ग्रन्थरूपं तमोत्तमश्रुतादि, उत्तमश्रुतं स्तवपरिज्ञा इत्येवमादीति गाथार्थः / / पं० व० 4 द्वार / ( श्रोतृणामभावेऽपि व्याख्यानं दातव्यमिति 'अणुओग' शब्दे प्रथमभागे 351 पृष्ठे गतम्।) व्याख्यानानं च व्याख्यानविधिःअनुयोगेऽन्तर्भवति। विशे०।। वक्खाणविहि-पुं०(व्याख्यानविधि) व्याख्यानस्य विधिः व्याख्यानविधिः / शिष्याचार्यपरीक्षाभिधाने, आ० म०१ अ०। वक्खाणेयव्व-न०(व्याख्यानयितव्य) कर्त्तव्ये व्याख्याने,पं०व०४ द्वार। वक्खायरय-पुं०(व्याख्यातरत) विविधम्-अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन आख्यातो व्याख्यातो मोक्षः अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः / आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेते, "वट्टमग्गंवक्खायरते सव्वे सरा णियट्टति तक्का जत्थण विज्जति''| आचा०१ श्रु०५ अ०६ उ०। वक्खार-पुं०(वक्षार) अपवरके, व्य०६ उ०। वक्खारपव्वय-पुं० [व(क्षार)क्षस्कारपर्वत] वक्षसि मध्ये गोप्यं क्षेत्रं द्वौ संभूय कुर्वन्तीति वक्षस्काराः / तज्जातीयोऽयमिति वक्षस्कारपर्वतः / गजदन्तापरपर्याय पर्वते, जं० 4 वक्ष०। चं० प्र०। मेरोदक्षिणे द्वौ वक्षस्कारौ - जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए पुटदावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पन्नत्ता, तं जहा-बहुसमा० जाव सोमणसे चेव, विजुप्पभे चेव / जंबूमंदरस्स उत्तरेणं उत्तरकुराए पुष्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पण्णत्ता, तं जहा-बहुसमतुल्ला० जाव गंधमायणे चेव मालवंते चेव। (सू०-८७४) 'जंबू' इत्यादि 'पुव्वावरे पासे त्ति पार्श्वशब्दस्य प्रत्येकं सम्बन्धात् पूर्वपार्श्व च, किंभूते?- 'एत्थ' ति प्रज्ञापकेनोपदर्यमानेनक्रमेण सौमनसविद्युत्प्रभौ प्रज्ञप्तौ, किं भूतौ ? अश्वस्कन्धसदृशावादौ निम्नौ पर्यवसाने उन्नतौ, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपेतु पञ्चशतोच्छ्रिताविति। आह च - वासहर गिरि तेणं, रुंदा पञ्चेव जोयणसयाई। चत्तारि सउव्विद्धा, ओगाढा जोयणाण सयं // 1 // पञ्चसए उव्विद्धा, ओगाढा पंच गाउयसयाई। अंगुलअसंखभागा, वित्थिन्ना मंदरतेणं / / 2 // वक्खारपव्वयाणं, आयामो तीसजोयणसहस्सा। दोन्नि सया य नवहिया, छच्च कलाओ चउण्हं पि॥ 3 // इति, 'अवद्धचंद' त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानम् आकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचित्पाठः, तत्रार्द्धशब्देन विभागमात्रं विवक्ष्यते, न तु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारा देवकुरवःकृताः, अतएव वक्षाराकारक्षेत्रकारिणौ पर्वती वक्षारपर्वताविति 'जम्बू' इत्यादि तथैव नवरमपरपावें गन्धमादनः पूर्वपार्श्वे माल्यवानिति। स्था०२ ठा०३ उ०। (एकशैलवक्षस्कारकूटवक्तव्यता 'एगसेलकूड' शब्दे तृतीयभागे 31 पृष्ठे गता।) जम्बूद्वीपे सीताया उभयकूलेजम्बुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीआए महाणईए उत्तरकूले चत्तारिवक्खारपव्वया पण्णत्ता,तंजहा-चित्तकूडे पम्हकूडे णलिणकूडे एगसेले / जम्बूदीवे दीवे मंदरपुरस्थिमेणं सीआए महाणईए दाहिणकूले चत्तारि वक्खारपव्वया पण्णत्ता।तं जहा-तिकूडे वेसमणकूडे अंजणे मायंजणे / (सू०३०२४)