SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ वक्खाण 782- अभिधानराजेन्द्रः - भाग 6 वक्खाण णहि एअम्मि वि काले, विसाइ सुहयं अमंतजुअं||६|| कालोऽपि वितथकरणे-विपरीतकरणे नैकान्तेन इह-प्रक्रमे भवति शरणमेव, कुत इत्याह-न होतस्मिन्नपि काले दुःषमालक्षणे विषादि प्रकृतिदुष्टं तत्सुखदममन्त्रयुतं तु भवतीति गाथार्थः। एत्थं च वितहकरणं, नेअं आउट्टिआ उसवं पि। पायं विसायतुल्लं,आणाजोगो अमंतसमो || EEET अत्र च प्रक्रमे वितथकरणं ज्ञेयमाकुट्टिकयोपेत्यकरणेन सर्वमपि पापं निध्नं विषादितुल्यं विपाकदारुणत्वादाज्ञायोगश्व-सूत्रव्यापारश्य अत्र | मन्त्रसमः तदोषापनयनादीति सूत्रार्थः। उपसंहरन्नाह - ता एअम्मि वि काले,आणाकरणे अमूढलक्खेहि। सत्तीए जहअव्वं, एत्थ विही हंदि एसो अ॥ 1000 / / यस्मादेवं तस्मादेतस्मिन्नपि काले-दुःषमारूपे आज्ञाकरणे सौत्रविधिसंपादने अमूढलक्षः सद्भिः शक्त्या यतितव्यमुपसंपदादौ, अत्र विधिरेष व्याख्यानकरणे, हंदीत्युपप्रदर्शने एष च-वक्ष्यमाणलक्षण इति गाथार्थः। मजणनिसिज्जअक्खा, किइकम्मुस्सग्गवंदणं जिहे। भासंतों होइ जिट्ठो, न उपरिआएण तो वंदे // 1001 // मार्जनं व्याख्यास्थानस्य, निषद्या-गुर्वादः, अक्षाः-वन्दनका उपनीयन्ते / कृतिकर्मवन्दनमाचार्याय कायोत्सर्गोऽनुयोगार्थं वन्दनंज्येष्ठविषयमिह भाषमाणो भवति, ज्येष्ठः न तु पर्यायेण ततो वन्देत तमेवेति गाथार्थः। व्यासार्थं त्याह - ठाणं पमजिऊणं, दोन्नि निसिजाउ हॉति कायव्वा। एका गुरुणो भणिआ, बीआ पुण होइ अक्खाणं / / 1002 // स्थानं प्रमृज्य व्याख्यास्थानं द्वे निषद्ये भवतः कर्तव्ये सम्यगुचितकल्पैस्तत्रैका गुरोमणिता निषीदननिमित्तम्, द्वितीया पुनर्भवति मनागुचतरा अक्षाणां समवसरणोपलक्षणमेतदिति गाथार्थः / विधिशेषमाह - दो चेव मत्तगाई,खेले काइअसदोसगस्सुचिए। एवंविहो वि णिचं, वक्खाणिज्ज ति भावत्थो।।१००३ // द्वे एव मात्रके भवतः, श्लेष्ममात्रकं कायिकमात्रकं च / सदोषकस्य गुरोर्न सर्वस्य, उचिते भूभागे भवतः। ऐदंपर्यमाह-एवंविधोऽपि सदोषः सन्नित्यं स व्याख्यानयेदिति प्रस्तुतभावार्थ इति गाथार्थः / भावावो उसुणंती, सव्वे विहु ते तओ अउवउत्ता। पडिलेहिऊण पोत्तिं, जुगवं वंदंति भावणया / / 1001 / / भावतः शृण्वन्ति व्याख्यानं सर्वेऽपि साधवः सर्वेऽपि ते ततश्च तदनन्तरमुपयुक्ताः सन्तः प्रत्युपेक्ष्य पोत्तिं तथा कायं च युगपद्वन्दन्ते गुरुं न विषमं भावनताः सन्त इति गाथार्थः / सव्वे वि उ उस्सग्गं, करिति सम्वे पुणो वि वंदंति। नासन्ने नाइदूरे, गुरुवयणपडिच्छगा होति // 1005 / / सर्वेऽपि च भूयः कायोत्सर्ग कुर्वन्ति अनुयोगप्रारम्भार्थ तत्समाप्तौ च सर्वे पुनरपि वन्दन्ते गुरुमेव ज्येष्ठार्यमिति। अन्ये तदनु नासन्ने नातिदूरे गुर्ववग्रहं विहाय गुरुवचनप्रतीच्छका भवन्त्युपयुक्ता इति गाथार्थः / पं० व०४ द्वार। (श्रवणविधिम् 'सवण' शब्दे वक्ष्यामि) वक्खाणसमत्तीए, जोगं काऊण काइआईणं / वंदंति तओ जि8, अण्णे पुटवचिअ भणंति / / 1006 / / व्याख्यानसमाप्तौ सत्यां किमित्याह-योगं कृत्वा कायिकादीनामादिशब्दाद्-गुरुविश्रमणादिपरिग्रहः, वन्दन्ते ततो ज्येष्ठ-प्रत्युचारकं श्रवणाय अन्ये पूर्वमेव भणन्ति; यदुतादावेव ज्येष्ठ वन्दन्त इतिगाथार्थः / चोएइ जइ उ, जिट्ठो, कहिं, वि सुत्तत्थधारणाविकलो। वक्खाणलद्धिहीणो, निरत्थयं वंदणं तम्मि / / 1010 // चोदयति कश्चिद्-यदि तु ज्येष्ठः पर्यायवृद्धः कथंचित्सूत्रार्थधारणाविकलो जडतया कर्मदोषात्ततश्च व्याख्यानलब्धिहीनोऽसौ वर्तते, एवं च निरर्थकं वन्दनं तस्मिन्निति गाथार्थः। अह वयपरिआएहिं, लहुगो विहु भासगो इह जिहो। रायणियवंदणे पुण, तस्स वि आसायणा भंते ! / / 1011 // अथ वयःपर्यायाभ्यां लघुः यदि कश्चिद्भाषक इह ज्येष्ठो गृह्यते, रत्नाधिकं वन्दते पुनस्तस्यापि लघोः आशातना भदन्त ! भवतीति गाथार्थः। अत्राहजइ वि वयमाइएहिं, लहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमं जो, सो चिअं इह धिप्पई जिट्ठो। 1012 / / यद्यपि क्यआदिभिः-वयसा पर्यायेण च लघुकः सन् सूत्रार्थ-धारणापटुर्दक्षः व्याख्यानलब्धिमान् यः कश्चित्स एवेह प्रक्रमे गृह्यतेज्येष्ठः, नतु वयसा पर्यायण वेति गाथार्थः। आसायणाऽवि नेवं, पडुच जिणवयणमासगं जम्हा। वंदणगं रायणिओ, तेण गुणेणं पि सो चेव / / 1013 / / आशातनाऽपि नैवं भवति प्रतीत्य जिनवचनभाषकं यस्माद्वन्दनकं तद्रत्नाधिकस्तेन गुणेनापि भाषणलक्षणेन स एवेति गाथार्थः / एतदेव भावयतिण वओ एत्थ पमाणं,ण य परिआओ उनिच्छयणएणं / ववहारओ उजुज्जइ, उभयणयमयं पुण पमाणं / / 1015 // न वयोऽत्र प्रक्रमे सामान्यगुणचिन्तायां वा प्रमाणम्, न च पर्यायोऽपि प्रव्रज्यालक्षणः निश्चयनयमतेन व्यवहारतस्तुयुज्यते। वयः पर्यायश्च। उभयनयमतं पुनः प्रमाणं सर्वत्रैवेतिगाथार्थः / यतःनिच्छयओ दुग्नेअं, को भावे कम्भि वट्टई समणो। ववहारओ उ कीरइ, जो पुटवठिओ चरित्तम्मि॥ 1015 // निश्चयतो दुर्विज्ञेयमेतत्को भावे कस्मिन् शुभाशुभतरादौ वर्तते श्रमणस्ततश्चाकर्तध्यमे वैतत्प्राप्नोति, व्यवहारतस्तु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy