________________ वक्खाण 781 - अभिधानराजेन्द्रः - भाग 6 वक्खाण तनामस्थापनाद्रव्य-निक्षेपैरनुवर्त्तितः। द्रव्यार्थिकनयो भाव-निक्षेपादितरः पुनः // 6 // तथा च महामतिःतित्थयरवयणसंगह-विवेगपत्थारमुलवागरणी। दव्वढिओ विपज्जव-नओय सेसा वियप्पासिं॥१०॥ तथानाम ठवणा दविय-त्ति एस दव्वट्ठियस्स निक्खेवो। भाव त्ति पज्जवडिय-परूवणा एस परमत्थो॥११॥ यद्वा किन्नः किलैताभ्यां, किंत्वेष विधिराश्रितः। यद्व्याख्या वस्तुतत्त्वस्य, बोधायैव विधीयते।।१२।। तच नामादिरूपेण, चतूरूपं व्यवस्थितम्। नामाद्येकान्तवादाना-मयुक्तत्वेन संस्थितेः // 13 // उत्त० पाई०१ अ०।नयाः व्याख्यानाङ्गानि-"ऐन्दवीव विमला कलाऽनिशं, भव्यकरवविकाशनोद्यता / तन्वती नयविवेकभारती भारती जयति विश्ववेदिनः // 1 // नयो०। (अत्र विशेषः ‘णय 'शब्दे चतुर्थभागे 1853 पृष्ठे गतः।) सूत्रे विगृहीतेऽर्थो व्याख्येयःसंबंधो दरिसिज्जइ, उस्सुत्तो खलु न विज्जते अत्थो। उच्चारितछिण्णपदे, विग्गहिए चेव अत्थो उ॥१४|| सूत्रे उच्चारिते सति सम्बन्धोऽनन्तरसूत्रादिभिः सह दर्श्यते, यतःसंबन्धोऽर्थतो भवति वर्णानां स्वतः संबन्धाभावात् / स चार्थः खलु उत्सूत्रः-सूत्ररहितो न विद्यते, संबन्धे चोपदर्शिते, उच्चारितसूत्रस्य छिन्नानि पदानि कर्त्तव्यानि, पदच्छेदो विधातव्य इत्यर्थः / ततो यानि पदानि विग्रहभाजि तेषु विग्रह उपदर्शनीयः / विगृहीते च सूत्रतोऽर्थी व्याख्येयः। व्य०५ उ०। गुरुणा यथा व्याख्यातव्यं तदाह - सुत्तत्थो खलु पढमो,बीओ निझुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही होइ अणुओगे॥५६६ // सूत्रस्याऽर्थो यत्रासौ सूत्रार्थः / खलुखधारणे / ततश्च सूत्रार्थ एवसूत्रार्थमात्रप्रतिपादनपर एव प्रथमः-प्रथमवारायामनुयोगो गुरुणा कर्तव्यः, द्वितीयस्तु-द्वितीयवारायां सूत्रस्पर्शकनियुक्तिमिश्रक कर्तव्यतया भणितस्तीर्थकरगणधरैः। तृतीयस्तु-तृतीयवारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः / एष उक्तलक्षणो विधान-विधिर्भवति। व? इत्याह, सूत्रस्य निजेनाभिधेयेन सार्द्धमनुकूलो योगोऽनुयोगेः सूत्रस्यार्थान्वाख्यानमित्यर्थः तस्मिन्ननुयोग-अनुयोगविषये इति नियुक्तिगा-थार्थः / विशे० / उक्तलक्षणो विधिर्भवत्यनुयोगव्याख्यायाम, आह परिनिष्ठा सप्तमे इत्युक्तम्, त्रयश्चानुयोगप्रकारास्तदेव कथम् ? उच्यते-त्रयाणामनुयोगप्रकाराणामन्यतमेन केनचित् प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं श्रवणं कार्यते ततो न कश्चिद्दोषः, अथवा-कंचिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यम्,न पुनरेष एव सर्वश्रवणविधिनियमः, उद्घटिततज्ज्ञविनेयानांसकृच्श्रवणत एवा-शेषग्रहणदर्शनादिति कृतं प्रसङ्गेन। आ० म०१ अ०। यथा व्याख्यानयितव्यं तथाह - अह वक्खाणेअव्वं,जहा जहा तस्स अवगमो होइ। आगमिअमागमेणं, जुत्तीगम्मं तु जुत्तीए।। 661 // अथ व्याख्यानयितव्यं किमपि श्रुतं कथमित्याह-यथा यथा श्रोतुरवगमो भवति परिक्षेत्यर्थः, तत्रापि स्थितिमाह-आगमिकं वस्त्वागमेन, यथा-स्वर्गेऽप्सरसः, उत्तराः कुरव इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव, यथा-देहमात्रपरिणाम्यात्मेत्यादीति गाथार्थः / किंमित्येतदेवमित्याह - जम्हा उ दोण्ह वि इहं, मणि पन्नवगकहणभावाणं / लक्खणमणघमएहिं, पुवायरिएहिआगमतो ||62|| यस्माद् द्वयोरप्यत्र-प्रवचने भणितं प्रज्ञापककथनभावयोः पदार्थयोरित्यर्थः, लक्षणं-स्वरूपम्, कैरित्याह-अनधमतैः-अवदातबुद्धिभिः पूर्वाचाथैः, कुत इत्याह-आगमान तुस्वमनीषिकयैवेति गाथार्थः। किं भूतं तदित्याह - जो हेउँवाओ पक्ख-म्मि हेउओ आगमे अ आगमिओ। सो समयपण्णवओ, सिद्धंत विराहओ अन्नो || 163|| यो हेतुवादः पक्षे युक्तिगम्ये वस्तुनि हेतुको-हेतुना चरति, आगमे चागमिको नतत्रापि मतिमोहनी युक्तिमाह। 'स' एवंभूतः स्वसमयप्रज्ञापका भगवदनुमतः, सिद्धान्तविरोधकोऽन्यः तल्लाघवापादनादिति गाथार्थः। आणागिज्झो अत्थो, आणाए चेव सो कहेयय्वो। दिट्ठति अदिटुंता, कहणविहिविराहणा इहरा | EEY || आज्ञाग्राह्योऽर्थः -आगमग्राह्यः आज्ञयैवासौ कथयितव्यः आगमेनैवेत्यर्थः / दान्तिको 'दृष्टान्तात्' दृष्टान्तेन कथनविधिरेष सूत्रार्थे / विराधनेतरथा कथनेनास्येति गाथार्थः / तो आगमहेउगयं, सुअम्मि मह गोरवं जणंतेणं / उत्तमनिदसणजुअं, विचित्तणयगम्भसारं च ||5|| तत्तस्मादागमहेतुगतं-यथाविषयमुभयोपयोगेन व्याख्यानं कर्त्तव्यमिति योगः श्रुते, तथागौरवं जनयता-नयथातथाभिधानंन हेयबुद्धिं कुर्वता, तथा उत्तमनिदर्शनयुतम् अहीनोदाहरणवत्, तथा विचित्रनयगर्भसारंच निश्चयाद्यने कनयार्थप्रधानमिति गाथार्थः। भगवंते सव्वण्णे, तप्पचय-कारिगंभीरसारभणिईहिं। संवेगकरं निअमा, वक्खाणं होइ कायव्वं || 616 // भगवति-सर्वज्ञे तत्प्रत्ययकारिता-सर्वज्ञ एवमाहेत्येवगम्भीरसारभणितिभिः न तुच्छग्राम्योक्तिभिरिति संवेगकर नियमाच्छ्रोतृणामौचित्येन व्याख्यानं भवति कर्त्तव्यंनान्यथेति गाथार्थः। एतदेवाहहॉति उ विपयजम्मि, दोसा एत्थं विपज्जयादेव। ता उवसंपन्नाणं, एवं चिअबुद्धिमं कुजा ||17 // भवन्तितु विपर्यये-अन्यथाकरणे दोषाः अत्र, कुत इत्याह-एत-द्विपर्ययादेव कारणात्तत्तस्मादुपसंपन्नानां सतां शिष्याणामेव यथोक्तबुद्धिमान् कुर्याद्व्याख्यानमिति गाथार्थः। कालादन्यथाकरणे अदोषाशङ्कां परिहरन्नाह - कालो वि वितह करणे,णेगंतेणेह होइ सरणं तु /