________________ वक्खाण ७८०-अभिधानराजेन्द्रः - भाग 6 वक्खाण यो द्वयोर्बहूनां वा पदानां परः-अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेधाविनामर्थप्रदायी सन्निकर्षः-सम्पर्कः संहिता, एषा संहिता सा द्विधा-लौकिकी, लोकोत्तरा च ! तत्र लौकिकी-यथा धूमकेतुरिति, यथा इति पदम्, धूम इति पदम्, केतुरिति पदम्। तिपयं जह ओवम्मे, धूमऽभिभवें केउउस्सए अत्थो। कोऽसुत्ति अग्गि उत्ते, किंलक्खणो दहणपयणाई॥३०६॥ यथा धूमकेतुरिति संहिता / तत्र त्रिपदम्, सम्प्रति पदार्थ उच्यतेयथेत्यौपम्ये, धूम इति अभिभवे'धू' विधूनने इति वचनात्, केतुरित्युच्छ्रये एव पदार्थः / धूमः केतुरस्येतिधूमकेतुरितिपदविग्रहः / कोऽसाविति चेत्-अनिः, एवमुक्ते पुनराह-स किंलक्षणः ? सूरिराह-दहनपचनादिःदाहनपाचनप्रकाशनसमर्थोऽर्चिष्मान्। अत्र चालनां प्रत्यवस्थानं चाऽऽह - जइ एव सुत्तसोवी-रगाइवी हॉति अग्गिमक्खेवो। न वि ते अग्गि पइन्ना, कसिणग्गिगुणन्निओ हेऊ // 307 // दिद्रुतो घडगारो, न वि जे उक्खेवणाइतकारी। जम्हा जहुत्तहेउ-समनिओ निगमणं अग्गी // 30 // यदि नाम-दहनपचनादिस्तर्हि शुक्तिसौवीरकादयोऽपि दहन्ति, करीषादयोऽपि पचन्ति, खद्योतमणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽप्यग्निर्भवितुमर्हन्ति एष आक्षेपः-चालना। अत्र प्रत्यवस्था-नमाह-नैव शुक्त्यादयोऽग्निर्भवन्तीति प्रतिज्ञा, कृत्स्नगुणसमन्वितत्वादिति हेतुः, दृष्टान्तो घटकारः / यथाहि-घटकर्ता मृत्पिण्डदण्डचक्रसूत्रादेकप्रयत्नहेतुकस्य घटस्य कात्स्र्नेनाभिनिवर्तकाभिनिवृत्तस्य चोत्क्षेपणोद्वहनसमर्थो यथाऽन्ये पुरुषाः, न च ये घटस्योत्क्षेपणादयस्तत्कारीघटस्याभिनिर्वर्त्तक एवमत्राऽपि। यो दहति पचति प्रकाशयतिच; यथा-स्वगतेन लक्षणेन साधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽग्निर्न शुक्त्यादय इति निगमनम्। सम्प्रति लोकोत्तरे संहितादीनि दर्शयति - उत्तरिऍ जह दुमाई, तहत्थ हेऊ अविग्गहो चेव। को पुण दुम त्ति वुत्तो, भण्णइ पत्ताइउववेओ / / 306 // लोकोत्तरे.. 'जहादुमस्स पुप्फेसु भमरो आवियइरसं' इति। संहिता! अत्र पदानि-यथा इति, द्रुम इति, पुष्पेष्विति,भ्रमर इति, आपिबतीति, रसमिति। अधुना पदार्थ उच्यते-यथेति-औपम्ये, द्वगतौ, द्रवति गच्छति अथ उपरि चेति द्रुमः, औणादिको मक्- प्रत्ययः, तस्य द्रुमस्य, पुष्प विकसने, पुष्पन्ति-विकसन्तीतिपु-ष्पाणि अच् तेषु, भ्रम अनवस्थाने भ्राम्यति निरन्तरमिति भ्रमरः औणादिकोऽरः प्रत्ययः, पा पाने आङ् मर्यादायामभिविधौ वा, तस्य तिपि आपिबतीति रूपम्, रस आस्वादने, रस्यते आस्वाद्यते इति रसः कर्मण्यौणादिकोऽकारप्रत्ययस्तम्, अत्र व्यस्तपदत्वादि-ग्रहाभावः। तथा चाह-'तदत्थहेऊ अविग्गहोचेव' तेषां पदाना-मर्थस्य हेतुरविग्रह एव, न विग्रहद्वारेणात्र पदार्थ इत्यर्थः, अत्र चालना। नोदक आह-कः कीदृमूलक्षणो द्रुम उक्तः, सूरिराह भण्यतेपत्राद्युषतः-पत्रपुष्पफलादिसमन्वितः। उक्तं च- "पत्रपुष्पफलोपेतो, मूलस्कन्धसमन्वितः। एष वृक्ष इतिज्ञेयो, विपरीतस्ततोऽन्यथा।।१॥" / तदभावेन - तदभावे न दुम त्ति य, तदभावे वि स दुम त्ति य पन्ना। तग्गुणलद्धी हेऊ, दिलुतो होइ रहकारो॥३१०॥ यदि पत्राद्युपेतो द्रुमस्तर्हि तदा परिशटितपाण्डुपत्रादि मो भवति, तदा तस्याऽद्रुमत्वं प्राप्नोति, एषा चालना। अत्र प्रत्यवस्थानम्- तदभावेऽपि स द्रुम इति प्रतिज्ञा, तद्गुणलब्धित्वादिति हेतुः, दृष्टान्तो रथकारः, यथाहि-रथकारस्य रथकरणे प्रयत्नमकुर्वाणस्यापि रथकर्तृत्वं तद्गुणलब्धित्वात्; एवं परिशटितपाण्डुपत्रस्यापिट्ठमस्य तद्गुणलब्धेरनिवृत्तत्वादव्याहतं द्रुमत्वमिति। सम्प्रति मतान्तरेणान्यथा व्याख्यालक्षणमाह - सुत्तं पयं पयत्थो, पयनिक्खेवो य निन्नयपसिद्धी। पंच विगप्पा एए, दो सुत्ते तिन्नि अत्थम्मि॥३११॥ प्रथमतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, ततः पदम्-पदच्छेदो विधेयः, तदनन्तरं पदार्थः कथनीयः, ततः पदनिक्षेपः-पदार्थनोदना, तदनन्तरं निर्णयप्रसिद्धिः-निर्णयविधानम्, पदनिग्रहः पदार्थेऽन्तर्भूतः। एवमेते पञ्च विकल्पाः व्याख्यायां भवन्ति / अत्र-सूत्रम् पदमिति द्वौ विकल्पौ सूत्रे प्रविष्टौ, त्रयः-पदार्थाः तदाक्षेपनि-र्णयः प्रसिद्ध्यात्मकः अर्थ इति। बृ०१ उ०१ प्रक०। अथ पदस्य किं परिमाणमत आह - अत्थवसा हवइ पयं, अत्थो इच्छियवसेण विन्नेओ। इच्छा य पकरणवसा, पगरणओ निच्छओं समत्थे / / यत्रार्थोपलब्धिस्तत्पदमतोऽर्थवशाद्भवति पदम, अर्थस्य किं प्रमाणमत आह-अर्थ ईप्सितवशेन विज्ञेयः, इच्छायाः किं प्रमाण-मत आह-इच्छा च प्रकरणवशात्-प्रकारणानुरोधत इच्छायाः प्रमाणम्, प्रकरणस्य च निश्चयः शास्त्र-शास्त्रानुसारतः। गतं लक्षणद्वारम्। बृ०१उ०१प्रक०। नामस्थापनाद्रव्यभावैरपि व्याख्या भवति। तथा चाह - "संहितादिर्यती व्याख्या-विधिः सर्वत्र दृश्यते। नामादिविधिनाऽऽरब्धू, न व्याख्या युज्यते ततः // 1 // इत्याहुरपि भाव्यैव, स्याद्वादं वादिनोऽपरे। यत्तदत्र निराकार्य-माचक्षाणेन तद्विधिम् // 2 // स्यादस्तीत्यादिको वादः, स्यावाद इति गीयते। नयौ न च विमुच्याय, द्रव्यपर्यायवादिनौ॥३॥ अतश्चैतद्वयोपेतं, स्वंमतं समुदाहृतम्। सञ्जाततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः॥ 4 // ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम्। उत्पतिविगमध्रौव्य-ख्यापकं संप्रचक्षते // 5 // उत्पत्तिविगमावत्र, मतं पर्यायवादिनः। द्रव्यार्थिकस्य तु ध्रौव्यं, मातृकाख्यपदत्रये॥६॥ द्रव्यत्वमन्वयित्वेन, मृदो यद्बद्धटादिषु। तद्वद्देशान्वयित्वेन, नामस्थापनयोरपि।। 7 // अन्वयित्वं तु सर्वत्र, सङ्केतान्नम्न उच्यते। स्थापनायाश्च तद्रूप-क्रियातो बुद्धितोऽपि वा / / 8 //