SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ वंदण 771 - अभिधानराजेन्द्रः - भाग 6 वंदण रुका प्रायश्चित्तम्। तत्राभ्युत्थानं षोडा-अभिमुखोत्थानम् 1 आसनोपढौकनम् 2, किं करोमीति भणनम् 3, धर्मच्युतस्यपुनर्धर्मस्थापनारूपमभ्यासकरणम् 4, अभेदरूपाऽविभक्तिरेतत्पञ्चपदरूपः संयोगः 5-6 चेति / तत्राभिमुखोत्थानादिपञ्चके कृते अभ्यासकरण पुनः सामर्थ्य सत्यकृते प्रायश्चित्तम् / अञ्जलिकरणमपि षोढा, पञ्चविंशत्यावश्यकयुक्तवन्दनम् 1, शिरसा प्रमाणकरणम् 2, एकस्यद्वयोर्वा हस्तयोर्योजनम् 3, बहुमानरसभरेण सरमसम्-"नमो खमासमणाणं' इति भणनम् 4, निषद्याकरणम् 5, एतेषां पदानां योगश्च 6, एतेषु सर्वेष्यपि कृतेषु प्रायश्चित्तम्, अन्येषु पार्श्व स्थादिषु नवसु गृहस्थसहितेषु कृतिकर्माजलिकरणयोः प्रत्येकं चतुर्लघुकाः प्रायश्चित्तम्। ध०३ अधि०। मुद्धजणहिययसंथिय, दंसणवररयणलूडणं सजढा। अन्नायसाहुसावय-जोगा भणन्ते वं॥१॥ मुग्धः-स्वल्पमतियोंजनो-लोकस्तस्य हृदयम्-मानसंतत्रसं-स्थितमाश्रितं दर्शनंसम्यक्त्वं तदेव वररत्नं प्रधानमाणिक्यं तस्य लूडणं देशीभाषया प्रहरणम्, तत्र सदृढा-बद्धाग्रहाः अज्ञातसाधु-श्रावकयोगाःअविहितश्राद्धव्यापारा भणन्ति-जल्पन्ति एवं-वक्ष्यमाणनीत्या अयमाशयः-वक्ष्यमाणकथने हि मुग्धश्रावकाणां दर्शनपक्षपाताभावेन सम्यक्त्वध्वंशो भवतीति गाथार्थः। तदेवाह - पासत्थाई सावय-जणस्स नो हॉति वंदणिज्जा उ। तं नो जम्हा कुत्थ इ, नो दीसइ भणियमेवेत्ति // 2 // पावस्थादयस्समयप्रसिद्धाः श्रावकजनस्य-श्राद्धलोकस्य नो नैव भवन्ति-जायन्ते वन्दनीया-नमस्कर्त्तव्याः, तुःपूरणे। तद्वन्दनाकरणं, नो-नैव यस्मात् कुत्रापि कस्मिंश्चिदपि शास्त्रे नो दृश्यते, नावलोक्यते भणितमुक्तमेवं पूर्वोक्तप्रकारेण इतिः-वाक्यसमाप्तौ इति गाथार्थः। यद्भणितं तत्पूर्वपक्षगाथाद्वयेनाह - वद्दावद्दविभागो, संविग्गेयरजईण सव्वत्थ। जं पुण दंसणसत्तति-गे ण भणियं नमस्संति // 3 // अङ्गे सु अणंगेसु, छेयग्गंथेसु पयरणेसुं च / संवाओ ता कहं तं, भवे पमाणं पमाणीणं // 4 // वद्यावद्यविभागो-नमस्करणीयानमस्करणीयविशेषो भणितः संविग्रेतरयतीनां-सुविहितेतरसाधूनां सर्वत्र-सर्वस्मिन् सूत्रे इति शेषः, यत्पुनदर्शनसप्ततिकावचनम् एतन्नाम कारणगदितम्, "समणा-ण सावयाण य अवंदणिज्जा जिणमयम्मी" त्यादिलक्षणं न-नैव तस्यसप्ततिकाभणितस्यास्ति-विद्यते अङ्गेषु-आचाराङ्गादिषु अनङ्गेषुऔपपातिकादिषुःछेदग्रन्थेषु निशीथशास्त्रादिषु प्रकरणेषु-उपदेशमालादिषु चः-समुच्चये; संवादस्तत्तादृशभणनं तस्मात्कथं केन प्रकारेण तत्सप्ततिकाभणनं भवेत्-जायेत प्रमाणव्यवस्थापकम; प्रमाणिनां यथाऽवस्थितवस्तुवेदिनामिति गाथार्थः। किमित्यत आह - पयरण जम्हा संविइ-यं खलु भवे पमाणमिह। सिद्धतियवयणेहिं,नो इहरा अइपसङ्गाउ॥५॥ . प्रकरणवचनमर्वाचीनसाधुविरचितं शास्त्रं यस्मात्संविदितमेव अवितथम्, खलुः-अवधारणेः स च योजित एव भवेत्-जायेत प्रमाण व्यवस्थापकमिह-मौनीन्द्रप्रवचने। अनुस्वारः पूर्ववत्। सिद्धान्तवचनैरागमभणितेना॑नैव, इतरथा सर्वथाभावे कुतोऽतिप्रसङ्गात्, स्वाभिप्रायवशतोऽन्योऽन्यथा अन्यश्चान्यथाकरणतोऽनवस्थापात इति गाथार्थः / अथ यतिवत् श्रावकाणामपि दृश्यं तदित्याह - जइ जइकिचं सव्वं, पिसावयाणं पि हुज्ज करणीयं / तो इक्को पि य धम्मो, हवेज दुविहो विरुद्धेन // 6 // यदीत्यभ्युपगमे यतिकृत्यं-साध्वनुष्ठानं सवमपि निःशेषं श्रावकाणामपि-श्राद्धानां न केवलं यतीनामित्यपिशब्दार्थः, भवेत्-जायेत करणीयं-कृत्यं तत एक एव धर्मो भवेत् द्विविधो-द्विप्रकारो विरुध्येतविघटेतेति गाथार्थः। अत्रैवार्थे कारणान्तरमाह - तह संपुण्णगुणे वि हु, न वंदिओ वजपाणिणा भरहो। तो नज्जइ सवाणं, वेसो चिय होइ नमणीओ।।७।। तथा-अभ्युच्चयार्थः / सम्पूर्णगुणोऽपि-सुविशुद्धज्ञानादिरपिहुः-पूरणे, नवन्दितो- ननमस्कृतो वज्रपाणिना-इन्द्रेण भरतः-प्रथमचक्री, वेषरहित इति शेषः, तस्माज्ज्ञायते-बुध्यते श्रावकाणां वेष एव रजोहरणादिको भवति-जायते नमनीयोवन्द्य इति गाथार्थः / सूत्रकृत् सम्बद्धगाथाद्वयमाह - किं च जइ सावयाणं, नमणं नो सम्मयं भवे एयं / पासत्थाईणं तो, कह उवएसमालाए।।८।। सिरिधम्मदासगणिणा, न वारियं वारियं च अन्नेसिं। परतित्थियाण पणमण, इचाइवयणओ पयडं ||1| किं च-अभ्युचये, यदि-विकल्पार्थः, श्रावकाणाम्-श्राद्धानां नमन - नतिः नो-नैव सम्मतं भवेत्-जायते, एतत्पूर्वोक्तं केषामित्याह-पार्श्वस्थादीनां-प्रतीतानां ततः कथं-केन प्रकारेणोपदेशमालायां श्रीधर्मदासगणिना एतन्नाम्ना तत्कन वारितं, वारितं पुनर्निषिद्धम् अन्येषां शाक्यादीनां परतीथिकानां प्रणमनमित्यादिवचनतः, प्रकटम्-प्रसिद्धम्आदिग्रहणात्-"उहभावणथुणणभत्तिरागंच सक्कारसम्माणं दाणंविणयं च वजेइ'' इति दशावबोधं चेति गाथार्थः / पराभिप्रायमाशङ्क्याह - आलावो संवासो, इचाईयं तु मुणिजणस्सेव। एवं नो जइ तो वं, पुटवभणिया उपासत्थो // 10 // आलापः-स्तोकभणनं संवासस्तु-एकत्र निवसनमित्यादिकं पुनमुनिजनस्यैव साधुलोकस्यैव तेन हि तेषां निष्कारणं न कर्त्तव्यम्वन्दनादिकम्, कारणे तु कर्तव्यमिति प्रागेव चर्चितम्, आदिग्रहणेन"वीसंसोसंघवोपसङ्गो पहीणायारे हिंसमं सव्वा जिणिंदेहिं पडिकुट्ठो" इति दृश्यम्, तथा च तत्रोक्तं बलाद्यतिाकुलीमवतीति, किं च-इतः श्रावकधर्मवक्ष्ये इति भणता वृत्तिकृता भिन्नाधिकारिता दर्शिता, सच"वंदइ पडिपुच्छइ" इत्यादि गाथाभिरुक्तः सूत्रे एवमिच्छन्तो नैव यदि ततस्तेऽपिएवं प्रतिपादयन्ति पूर्वभणितान्- "सुत्तत्थं पोरिसिंनो करेइ'
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy