________________ वंदण 770 - अभिधानराजेन्द्रः - भाग 6 वंदण वस्त्रादि मे दास्यतीति 15, अयं गाथार्थः / / 1208 // तेणियं पडिणियं चेव, रुष्टुं तजियमेव य। सढंच हीलियं चेव, तहा विपलिउंचियं // 1209 / / स्तैन्यमिति-परेभ्यः खल्वात्मानं गृहयन स्तेनक इव वन्दते,मा (ममैवं). लाघवं भविष्यति 16, प्रत्यनीकम्-आहारादिकाले वन्दते 17, रुष्टक्रोधाध्मातंवन्दते क्रोधाध्मातोवा 18, तर्जितंन कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादितर्जयन्-निर्भसयन्वन्दते, अडल्यादिभिर्वा तर्जयन् 16, शठं-शाठ्येन विश्रम्भार्थवन्दते, ग्लानादिव्यपदेशं वा कृत्वान सम्यग् वन्दते 20, हीलितं हे गणिन् ! वाचक ! किं भवतो वन्दितेनेत्यादि हीलयित्वा वन्दते 21, तथा विपरिकुञ्चितम्-अर्द्धवन्दित एव देशादिकथाः करोति 22, इति गाथार्थः / / 1206 // दिट्ठमदिटुं च तहा, सिंगं च करमोअणं / आलिट्ठमणालिटुं,ऊणं उत्तरचूलियं // 1210 // दृष्टाऽदृष्ट तमसि व्यवहितो वा न वन्दते 23, शृङ्गम्-उत्तमाङ्गैकदेशेन वन्दते 24, करमोचनं-करं मन्यमानो वन्दते न निर्जराम्, 'तहा मोयणं नाम न अन्नहा मुक्खो , एएण पुण दिनेण मुच्चेमि त्ति वंदणगं देइ 25-26' आश्लिष्टाऽनाश्लिष्ट' मित्यत्र चतुर्भगकम्-रजोहरणं कराभ्यामाश्लिष्यात शिरश्च 1, रजोहरणं न शिरः 2, शिरो न रजोहरणम् 3, न रजोहरणं नाऽपि शिरः 4, अत्र प्रथम-भङ्गः-शोभनः, शेषेषु प्रकृतवन्दनावतारः 27, ऊनंव्यञ्जनाभि-लापावश्यकैरसम्पूर्ण वन्दते 28, उत्तरचूडं-वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्दे इति भणति 26, इति गाथार्थः / / 1210 // मूयं च ढङ्करं चेव, चुडुलिं च अपच्छिमं / बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजई / / 1211 // मूकम्-आलापकाननुचारयन् वन्दते 30, ढड्डरमहता शब्देनोच्चारयन् वन्दते 31, 'चुडुली' ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते 32, अपश्चिमम्-इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्मकार्यम्, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म-वन्दनं प्रयुञ्जीत-कुर्यादिति गाथार्थः // 1211 // यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह च - किइकम्म पि करितो, न होइ किइकम्मनिजराभागी। बत्तीसामन्नयरं, साहू ठाणं विराहिंतो॥ 1212 // कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः // 1212 / / दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाह - बत्तीसदोसपरिस्सुद्धं, किइकम्मं जो पउंजइ गुरूणं / सो पावइ निव्वाणं, अचिरेण विमाणवासं वा / / 1213 / / द्वात्रिंशद्दोषपरिशुद्ध कृतिकर्म यः प्रयुक्ते-करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विप्रानवासं वेति गाथाऽर्थः / / 1213 // आह-दोषपरिशुद्धाद्वन्दनात्को गुणः? येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यते - आवस्सएसु जह जह, कुणइ पयत्तं अहीणमइरित्तं / तिदिहकरणोवउत्तो, तह तह से निज्जरा होइ / / 1214 / / आवश्यकेषु-अवनतादिषु दोषत्यागलक्षणेषु च यथा यथा करोति प्रयत्नम्, अहीनातिरिक्तं-न हीनं नाप्यधिकम्, किम्भूतः सन् ? त्रिविधकरणोपयुक्तः, मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा तथा 'से' तस्यवन्दनकर्तुनिर्जरा भवति-कर्मक्षयो भवति, तस्माद्य निर्वाणप्राप्तिरिति, अतो दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः // 1214 // आव०३ अ०। साम्प्रतमेतेष्वेव प्रायश्चित्तमाह - थद्धे गारवतेणिय, हीलियरुह लहुगा सढे गुरुगो। दुट्ट पडिणीय तजित, गुरुगा सेसेसु लहुगो उ॥ स्तब्धगौरवस्तेनितहीलितरुष्टषु प्रत्येकं चतुर्लघवः / शठेमायादोषप्रत्यये मासगुरुकम्, दुष्टप्रत्यनीकतर्जितषु चत्वारो गुरुकाः, शेषेषु अनादृतप्रविद्धपरिपिण्डितादिषु त्रयोविंशतौ दोषेषु प्रत्येकं सामाचारी निष्पन्नं मासलघु। बृ०३ उ०। प्रव०। वन्दनफलम्वन्दणएणं भंते ! जीवे किं जणयइ?वन्दणएणं नीयागोयं कम्म खवेइ, उचागोयं निबन्धइ, सोहग्गं च अप्पडिहयं आणाफलं निव्वत्तेइ दाहिणभावं च णं जणयइ॥ 10 // हे भदन्त! पूज्य ! वन्दनकेन गुरूणां द्वादशावतविधिवन्दनेन जीवः किं जनयति, हे शिष्य ! श्रीगुरूणां वन्दनकेन नीचैर्गोत्रं कर्म क्षपयति गुरूणां वन्दनकारी नीचैर्गोत्रे न अवतरतीत्यर्थः, पूर्वबद्धं च क्षपयति उचैर्गोत्रकर्म बध्नाति उच्चैर्गोत्रे अवतरतीत्यर्थः / पुनरुचैर्गोत्रेऽवतीर्णः सन् सौभाग्य सर्वलोकेषु वल्लभत्वं पुनरप्रतिहतं केनापि निवारयितुमशक्यम् आज्ञाफलम्-आज्ञासारं प्रभुत्वं निवर्तयति-उत्पादयति, च-पुनर्दाक्षिण्यभावं सर्वलोकानामनुकूलत्वं जनयति / / 10 / / उत्त० 26 अ०। स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनकपूर्विकैव तत्प्रतिपत्तिरिति, तदाह-वन्दनकेनाचार्याधुतिप्रति-पत्तिरूपेण नीचैर्गोत्रम् अधमकुलोत्पत्तिनिबन्धनम् कर्म क्षपयति, उच्चैर्गोत्रं-तद्विपरीतरूपं निबध्नाति, सौभाग्यं च सर्वजनस्पृहणीय-तारूपमप्रतिहतं सर्वत्राप्रतिस्खलितमत एवाज्ञा-जनेन यथोदित-वचनप्रतिपत्तिरूपा फलम्-निवर्तयति-जनयति, तद्वतो हि प्राय आदेयकर्मणोऽप्युदयसम्भवादादेयवाक्यताऽपि संभवतीति, दक्षिणभावं च अनुकूलभावं जनयति लोकस्येति गम्यते, तन्माहात्म्यतोऽपि सर्वः सर्वावस्थास्वनुकूल एव भवति / / 10 / / उत्त० पाई० 26 अ०। या च सुरासुराधिपत्तिचक्रवर्तिबलदेववासुदेवादि-वन्दना तां नयाचेत। सूत्र०१ श्रु०६ अ०। (वन्दमानंन याचेत-इत्थियं पुरिसंवा" (26) इत्यादि / दश०५ अ०२ उ० गाथा 'गोयरचरिया' शब्दे तृतीयभागे 660 पृष्ठे गता।) (कारणे धिग्जातीयानामपि वन्दनं क्रियते, इति 'पडिसेवणा' शब्दे पञ्चमभागे 367 पृष्ठे उक्तम्।) पार्श्वस्थादिविषयवन्दनादिषूत्सर्गापवादौ प्रदर्येते, तत्र पार्श्वस्थादीनां वन्दननिषेधः प्रागुरुवन्दनाधिकारे- "पासत्थाइवंदमाणस्स" इत्यादिना प्रदर्शित एव, एतेषामभ्युत्थानादौ च प्रायश्चित्तमप्युक्तम्, तद्यथा"अहछंदब्भुट्ठाणं, अंजलिकरणं यहुंति चउगुरुआ। अण्णेसुं चउलहुआ, एवं दाणाइसु विणेयं // 1 // " व्याख्या-एतेषामभ्युत्थानादौ प्रायश्चित्तमाह यथाच्छन्दस्याभ्युत्थानाञ्जलिक रणयोर्भवन्ति प्रत्येक चत्वारो गु