SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ वंदण 766 - अभिधानराजेन्द्रः - भाग 6 वंदण मसिदिके वन्दनकमददतां चतुर्लघु, सांवत्सरिके वन्दनकाऽदाने चतुर्गुरु। चशब्दाद्वि-परीतं न्यूनाधिकं च कुर्वतां लघुमासः / योऽभिवन्दनके व्यवनतः यथा जातादीनि पदानि तेषामप्यकरणे असमाचारीनिष्पन्नं मासलघु। अथैतदेव प्रायश्चित्तं विशेषयन्नाह - आयरियाइचउण्हं, तवकालविसेसियं भवे एयं। अहवा पडिलोमे यं, तवकालविसेसिओ होइ।। 776 / / आचार्यादीनां चतुण्णामप्येतदनन्तरोक्तं प्रायश्चित्तं तपःकालवि-शेषितं भवति, तत्राचार्यस्य द्वाभ्यामपि तयःकालाभ्यां गुरुकम्, वृषभस्य तपोगुरुकम्, भिक्षोः कालगुरुकम्, क्षुल्लकस्य तपसा कालेन चतुर्लघुकम् / अथवा तपःकालविशेषत एतदेव प्रतिलोमं पश्चादनुपूर्व्या वक्तव्यम्। आचार्यस्य द्वाभ्यामपि लघुकम, वृषभस्य कालगुरुकम्, भिक्षोस्तपोगुरुकम्, क्षुल्लकस्य द्वाभ्यामपि गुरुकम्। अथ 'देसियराइय' तिपदद्वयं विशेषतो भावयतिदुगसत्तगकिइकम्म-स्स अकरणे होइ मासियं लहुगं / आवासगविवरीए, ऊणहिए चेव लहुओ उ।।७८०।। 'दुगसत्तग' त्ति द्वे सप्तके चतुर्दशभवन्तीति कृत्या पूर्वालपरालयोश्चतुर्दश वन्दनकानि भवन्ति। कथमिति चेद् ? उच्यते-इह रात्रिप्रतिक्रमणे चत्वारि वन्दनकानि / तत्रैकमालोचनायाम्, द्वितीयं क्षामणके, तृतीयं पाण्मासिकम्-तपश्चिन्तनकायोत्सर्गार्थं च, चतुर्थं प्रत्याख्यानग्रहणार्थमिति / यथास्वाध्यायं त्रीणि वन्दनकानि, तत्र च वृद्धसंप्रदायः"सज्झाए वंदित्ता पढवेइ एयं पढम पावय तस्स बिइयं पच्छा उद्दिट्ट, समुद्दिढ़ पढइ उद्देससमुद्देसवंदणाणमिहेवं तब्भा वो / तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइजइन पडिलेहिउकामो तो वंदा, अह पडिलेहिउकामो ताहे पडिलेहेइ, अवंदित्ता पाए पडिलेहेइ पाए पडिलेहित्ता तत्थ पढइ कालवेलाएव ठिओ पडिकम्मइ एयं तइयं''। एवं पूर्वाह्न सप्त वन्दनानि, अपराहेऽप्येवमेव सप्त भवन्ति।तत्र-चत्वारि दैवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये, अनुज्ञावन्दनानां स्वाध्यायवन्दनायामेवान्तर्भावादिति सर्वसंख्यया चतुर्दश वन्दनकानि भवन्ति। एतचाभक्तार्थिकमङ्गीकृत्योक्तम् / यस्तु भक्तार्थिकस्तस्य भोजनानन्तरभावप्रत्याख्यानवन्दनकसहितानिपञ्चदश भवन्ति, तेषां मध्यादेकतरस्यापि कृतकर्मणोऽकरणे मासिकं लघुकं प्रायश्चित्तं भवति, तथा आवश्यकं कुर्वन् विपरीतमालापकोचारणं करोति / तद्यथा-दैवसिके आवश्यिके क्षमयामि क्षमाश्रमण ! रात्रिकं व्यतिक्रममित्युच्चरति, रात्रिके वा दैवसिकमालापं करोति / एवं पाक्षिकचातुर्मासिकसांवत्सरिकेष्वपि प्रतिक्रमणेषु वक्तव्यम्, अत्र सर्वत्राप्यसमाचारीनिष्पन्नं मासलघु, 'ऊणहिए चेव त्ति ऊनानि वा एकट्यादिभिर्वन्दनकैहीनानि अधिकानि च यथोक्तप्रमाणादतिरिक्तानि दैवसिकादिप्रतिक्रमणेषु वन्दनकानि प्रयच्छतो मासलघु। अथ 'वंदणए जाणि य पयाणि' त्ति पदेन यानि व्यवनतादीनि पञ्चविंशतिवन्दनकस्यावश्य कपदानि सुचितानि तानि दर्शयति दओणय अहाजायं, किइकम्मं वारसावयं होइ। चऊसिरंति गुत्तं च, दुपवेसं एगणिक्खमणं / / 781 / / अवनौ अवगतम् उत्तमाङ्गप्रधानं प्रणमता-द्वे अवनते यस्मिन् तद् व्यवनतम्, एकम्-यदा प्रथममेव"इच्छामि खमासमणो वंदिउं० जाव णिज्जाए निसीहियाए" इत्यभिधाय छन्दोऽनुज्ञापनायावनतमिति / द्वितीयं पुनरेवमेव द्वितीयप्रवेशे इति / यथाजातं नाम यथा प्रथमतो जननीजठरान्निर्गतो यथा च श्रमणोजातस्तथैव वन्दनकं दातव्यम्, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टकमात्रया श्रवणः संजातो रचितकरसंपुटस्तुयोन्या विनिर्गतः एवंभूत एव वन्दनकं दते 3, कृतिकर्मवन्दनकं 'वारसावयं' ति द्वादशावर्त भवति / इह प्रथमतः प्रविष्टस्य "आहो काय कायं जुत्ता भेजवविजं च भे" इति सूत्राभिधानगर्भागुरुचरणन्यस्तहस्तशिरःस्थापनरूपाः षडावर्ता भवन्ति। अवग्रहानिर्गत्यापुनःप्रविष्टस्याप्येवमेव षडिति द्वादशावर्त्तवन्दनकमुच्यते 15, चत्वारि शिरांसि उपचाराच्छिरोनमनानि यस्मिन् तच्चतुःशिरः तत्र "संफासनमणेगं खामणा नमणे सीसस्स बीयं एवं बीए पवेसे विदोन्नित्ति॥ 16 // यथा त्रयो वा-मनोवाकाययोगा गुप्ताः-सुप्रणिहिता यस्मिन् तत्त्रिगुप्तम् / इयमत्र भावनामनसा सम्यक् प्रणिहितो, वाचा अस्खलितानितत्र पदानि विकथादिनिरोधेनोचारयन, कायेनावर्तान् सम्यक् प्रयुञ्जानोव-न्दनकं ददाति 22, द्वौ प्रवेशौ गुरोरवग्रहेऽनुज्ञाप्य प्रविशतो यस्मिन् तद्विप्रवेशम् 23. एकं निष्क्रमणं गुरोरवग्रहादावश्यकान्निर्गच्छतोयत्रतत्रैकनिष्क्रमणम् 25, एतेषां पञ्चविंशतेरावश्यकानामकरणे प्रत्येकं मासलघुप्रायश्चित्तम्, अथवा-वन्दनके यानि पदानीत्यत्र नोद्भूतादीनि द्वात्रिंशत् संख्याकानि दोषपदानि मन्तव्यानि। बृ०३ उ०। तानि चामूनि - अणाढियं च थद्धं च, पविद्धं परिपिंडियं / टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं // 1207 // अनादृतम्-अनादरं सम्भ्रमरहितं वन्दते १,स्तब्धंजात्यादिमदस्तब्धो वन्दते 2, प्रविद्धं-वन्दनकं दददेव नश्यति 3, परिपिण्डितंप्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् 4, 'टोलगति' त्ति तिडवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दते 5, अडशंरजोहरणमडशवत्करणद्वयेन गृहीत्वा वन्दते 6, कच्छभरिंगियं-कच्छपवत् रिङ्गितं कच्छपवत् रिङ्गन्वन्दत इतिगाथार्थः // 1207 // मच्छुय्वत्तं मणसा, पउटुं तह य वेइयाबद्धं / भयसा चेव भयंतं, मित्ती गारवकारणा।। 1208 // मत्स्योवृत्तम्-एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुं द्वितीयपार्श्वेन रेचकावर्तेन परावर्तते 8, मनसा प्रदुष्टम्, वन्द्यो हीनः केनचिदगुणेन, तमेव चमनसि कृत्वा सासूयो वन्दते, तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकंवाजानुंकरद्वयान्तः कृत्वा वन्दते 10, 'भयसा चेव' त्ति भयेन वन्दते, मा भूद्रच्छादिभ्यो निर्धाटनमिति 11, 'भयंत' ति भजभानं वन्दते 'भजत्ययं भामतो भक्तं भजस्वेति तदार्यवृत्तम्' इति 12, 'मेत्ति त्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते १३.'गारव' त्ति गौरवनिमित्तं वन्दते, विदन्तु माम्, यथा-सामाचारीकुशलोडयम् १४,'कारण' त्ति ज्ञानादिव्यतिरिक्त कारणमाश्रित्य वदन्ते,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy