________________ वंजणपरियाय 767 - अभिधानराजेन्द्रः - भाग 6 वंजणाऽवग्गह वंजण(पञ्जव)परियाय-पुं०(व्यञ्जनपर्याय) कालान्तरस्थायिशब्दानां संकेतविषयेषु, द्रव्या० 8 अध्या०। वंजणभेय-पुं०(व्यञ्जनभेद) व्यञ्जनमाश्रित्य भेदरूपे ज्ञानाचारे, ग०१ अधि० / दश० / व्य० / ध० / व्यञ्जयतीति व्यञ्जनं तं च अक्खरं अक्खरेहिं सुत्तं णिज्जुत्ति त्ति काउं सुत्तं वंजनं तमण्णहा करेंति। कहं ? सक्कयमत्ता बिंदू, अण्णभिधाणेण वा वितं अत्थं / वंजिजइत्ति सुत्तं, वंजणमिति भण्णते लहुगो।। 17 // पाइतं सुत्तं सक्कयं करेति, जहा- 'धर्मो मङ्गलमुत्कृष्टम् ' अभूतं वा मत्तं देति फेडेति वा, जहा-सव्वं सावजं जोगं पचक्खामि एव वत्तव्ये; सव्वे सावजे जोगे पचक्खामि त्ति भणति। एवं विंदुभूतं वा फेडेति अभूतं वादेति, जहा-णमो अरहंताणं ति वत्तव्वे पंचविसाणुस्सराणगारा क्त्तव्वा सो पुण-नमो अरहंताण भवति अभिधीयते जेण तमभिहाणं, जहा-घडो पड़ो वा, अण्णं अभिहाणं अण्णभिहाणं ततो तेण अण्णेण अभिहाणेण तम्मितंचेव अत्थं अभिलवति, जहा-"पुप्फकल्लाणमुक्कोसंदयासंवरणिज्जरा"। अभिसद्दो विकप्पत्थे पयत्थसंभावणे वा, किं पुण पदत्थं संभावयति-अक्खरपएहिं वा हीणातिरित्तं करेति अण्णहा वा सुत्तं करेति; एवं पयं पयत्थं संभावेति। सुत्तं कम्हा वंजणं भण्णत्ति ? उच्यते-वंजति त्ति-व्यक्तं करोति जहोदणरसो वंजणसंजोगा व्यक्तो भवति एवं सुत्ता अत्थो वत्तो भवति जेणं लि तम्हा कारणा वंजति त्ति अत्थो, एवं वजणसामत्थातो वंजणमिति वुचते सुत्तं / णिगमणवयणं, तं वंजणं सक्कयथयणादिभिः कप्पियं तस्स पच्छित्तं भवति ___ तदेव प्रायश्चित्तमाह - लहुगो वंजणभेदे, आणादी अत्थमेअचरणे य। चरणस्स य भेदेणं, अमोक्खदिक्खा य अफलातु // 18 // सक्कयमत्ताबिन्दूअक्खरपयभेएसु वट्टमाणस्स मासलहू, अण्णं सुत्तं करेति चउलहुं आणाअणवत्थं मिच्छत्तविराहणा य भवति / एवं सुत्तत्थभेओ, सुत्तत्थभेया अत्थभेओ, अत्थभेया चरणभेयो, चरणभेया अमोक्खो, मोक्खभावा दिक्खादयो किरिया भेदा अफला भवंति। तम्हा वंजणभेदोण कायव्यो। नि० चू०१ उ०। बंजणाऽवग्गह-पुं०(व्यञ्जनावग्रह) व्यज्यतेऽनेनार्थः। प्रदीपेनेवघट इति व्यञ्जनम् / तचोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यञ्जयितुं शक्यते, नान्यथा। ततः सम्बन्धो व्यञ्जनं च। तथा चाह भाष्यकृत्-"वजिज्जइजेणत्थो, घडोव्वदीवेण वंजणंतंच। उवगरणिंदियसद्दाइ परिणए दव्वसंबंधो॥१॥" व्यञ्जनेनसंबन्धेनावग्रहणं सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा-व्यज्यन्ते इतिव्यञ्जनानि'कृद्रहुल' मिति वचनात् कर्मण्यनट्, व्यञ्जनानां-शब्दादिरूपतया परिणतानां द्रव्याणाम्-उपकरणेन्द्रियसंप्राप्तानामवग्रहः-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्यशब्दादेरवग्रहणम्-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः / नं० / ततश्चव्यञ्जनेनोपकरणेनेन्द्रिये (आ० म०। ध०।) प्रतिज्ञानरूपे अवग्रहविशेषे, भ०५ श०२ उ०।०। उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात्प्राक् या सुप्तमत्तमूञ्छितादिपुरुषाणामिव शब्दादिद्रव्यसंबन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, सचान्तर्मुहूर्तप्रमाणः। अत्राह-ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते तत्कथमसौ ज्ञानरूपो गीयते ? उच्यते-अव्यक्त-त्वान्न संवेद्यते, ततोन कश्चिद्दोषः, तथाहियदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य संपृक्ती काचिदपि न ज्ञानमात्रा भवेत् ततो द्वितीयेऽपि समये न भवेत् ; विशेषाभावात्; एवं यावञ्चरमसमयेऽपि, अथ चरमसमये ज्ञानमर्थावग्रहरूपंजायमानमुपलभ्यते ततः प्रागपि क्वापि कियती ज्ञानमात्रा द्रष्टव्या। अथ मन्येथाः मा भूत् प्रथमसमयादिषु शब्दादिपरिणतद्रव्यसंबन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वाचरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात्, तदयुक्तम्, यतो-यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात्संपृक्ता वक्तव्याऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् तर्हि प्रभूतसमुदायसम्पर्केऽपि न भवेत्, न खलु सिकताकणेषु प्रत्येकमसति तैललेशे समुदायेऽपि तैलं समुद्भवदुपलभ्यते / अस्ति च चरमसमये प्रभूतशब्दादिद्रव्यसंपृक्ती ज्ञानम्, ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपिज्ञानानुपपत्तेः। तथा चोक्तम्-"जं सव्वहान वीसु, सव्वेसु वि तं न रेणुतेल्लं वा पत्तयमणिच्छतो, कहमिच्छसि समुदये नाणं? ॥३॥"ततः स्थितमेतत्-व्यञ्जनावग्रहोज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेवबोद्धव्यम्। चशब्दौस्वगतानेकभेद-संसूचकौ, ते च स्वगतानेकभेदाः अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते। आह-प्रथम व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहः, ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः? उच्यते-स्पष्टतयोपलभ्यमानत्वात्, तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किंचित् दृष्ट परं न परिभावितं सम्यगिति व्यवहारदर्शनात्, अपि च-अर्थावग्रहः सर्बेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः। संप्रति तुव्यञ्जनावग्रहादूर्वमर्थावग्रह इतिक्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं कारयति-"से किं तं वंजणुग्गहे" (सू०२८) (इत्यादिसूत्रम् 'उग्गह' शब्दे द्वितीयभागे 668 पृष्ठे गतम्।) व्याख्या चेयम्-अथ कोऽयं व्यञ्जनावग्रहः ? आचार्य आह-व्यञ्जनावग्रहः-चतुर्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रेन्द्रियव्यञ्जनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावर्ण्यते ? उच्यते-इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते संबन्धश्चतुमिव श्रोत्रेन्द्रियादीनाम्, न नयनमनसोः तयोरप्राप्यकारित्वात्। न० 1 व्यञ्जनावग्रहस्य मल्लकदृ Tool