________________ मग्गणट्ठाण 55 - अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण द्वा चेप्शया एवाप्रवृत्तेः / उक्तं च - "केइ भणंति सव्वे वेउब्विया वाया वायंति, अवउवियाणं विट्ठा चेव न पवत्तइति। तदयुक्तं सम्यकसिद्धान्ताऽपरिज्ञानात्, अदैक्रियाहामपि तेषां स्वभावत एव चेष्टोपप ते / / यदाह भगवान् श्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम् -''वाउक्काइया चाउन्विहा सुहमा पजता अपजता वायरा पज्जता अपजत्ता, तत्थ तिन्नि रसी पत्तेयं असंखेजलोगप्पमाणप्पएसरासिपमाणं मित्ता, जे पुण यादरा राजना ते पवरा संखेज्जइभागमित्ता, तत्थ ताव तिण्हं रासीण वेउवियलद्धी चव नत्थि बायरपज्जत्ताण पि असंखिज्जइभागमित्ताणं अत्थिजेसिं पिलद्धी अत्थितओ वि पलिओवमासंखेज्जभागसमयमित्ता संपयं पुच्छा समए येउव्वियवत्तिणो, तथा-जेण सव्येसु चेव उड्डलोगाइसु चला वायवो विजति तम्हा अवेउब्विया वि वाया वायंति त्ति घितव्वं सभावेण तेसिं वाइयव्वं ति।" वाताद्वायुरिति कृत्वा (तिण्हं रासीणं ति) त्रयाणां राशीनां याप्ताऽपर्याप्तसूक्ष्माऽपर्याप्तबादरवायुकायिकानाम्। तथा त एव पूर्वोक्ताः पर कार्मणौदारिकद्विकवैक्रियद्विकलक्षणयोगाश्चरमा चतुर्थः असत्यामृषारूप' वाग् वचनयोगश्चरमवागतया युक्ताः षड् योगा भवन्ति / कल्याह-असंज्ञिनि संज्ञिव्यतिरिक्त जीवे। तत्र कार्मणमपान्तरालगतातुत्पत्तिप्रथमसमये च औदारिकमिश्रमपर्याप्तावस्थायां, पर्याप्तावस्थायानादारिकम् बादरपर्याप्तवायुकायिकाना वैक्रियद्विकं, चरमभाषा शङ्गाऽऽदिद्वीन्द्रियाऽऽदीनामिति ने एव पूर्वोक्ताः षड्योगा वैक्रियद्विकेन वैक्रियचैक्रियमिश्रलक्षणेनोना हीनाश्चत्वारो भवन्ति / क्वेत्याह-विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु। कोऽर्थः ? तत्र कार्मणौदारिकद्विकभावना प्राग्वत् / चरमभषा च असत्यामृषारूपा शङ्खाऽऽदीनां भवात, शेषास्तु भाषा न भवन्त्येव, "विगलेसु असचमोस त्ति' वचनादिति // 27 // कम्मुरलमीस विणु मण, वइ समइय छेय चक्खुमणनाणे। उरलदुगकम्म पढम-तिम-मणवइ केवलदुगम्मि // 28 // कार्मणमौदारिकमिश्र विना शेषास्त्रयोदश योगा भवन्ति, केत्याहमनोयोगे, वाग्योगे, सामायिकसंयमे, छेदोपस्थापनसंयमे, चतुर्दर्शने, मन पर्यायज्ञाने च। भावना सुकरैव।यौ तु कार्मणौदारिकमिश्रौ तौ तेषु सर्वथा न संभवत एव, तयोरपर्याप्तावस्थायां भावात्, मनोयोगवाग्योगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमनः पर्यायज्ञानानां च तस्यामवस्थायामसम्भसवात् / तथा (उरलदुग त्ति) औदारिकद्विकमौदारिकौदारिकमिश्रकार्मणकाययोगौ सयोयवस्थायामेव समुद्धातगतस्य | वेदितव्यौ "मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु / कार्मणशरीरयोगी, चतुर्थक पञ्चमेतृतीये च / / 1 / / " इति। प्रथमान्तिममनोयागौ तुअविकलरकलविमलकेवलज्ञानकेवलदर्शनबलाबलोकितनिखिललोकालोकस्य भगवतो, मनः पर्यायज्ञानिभिरनुत्तरसुराऽऽदिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनः पर्यायज्ञानेनावधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाऽऽकारान्यथाऽनुपपत्त्या लोकस्वरूपाऽऽदिक बाह्यमर्थ पृष्टमवगच्छन्ति, प्रथमान्तिमवाग्योगौ तु देशनाऽऽदिषु व्यापृतस्य तस्यैव भगवतो द्रष्टव्याविति // 28 // मणवइउरला परिहा-री सुहुमि नव ते उ मीसि सविउव्वा। देसे सविउव्विदुगा, सकम्मुरलमिस्स अहखाए।।२६।। परिहारविशुद्धिक सूक्ष्मसम्पराये च नव योगाः / के ते इत्याहमनोयोगश्चतुर्दा वागयोगश्चतुर्द्धा औदारिक चेति / यत्त्वाहारकद्विकं वैक्रियद्विक कार्मणमौदारिकमिश्रं च तन्न सम्भवत्येव / तथाहिआहारकद्विक चतुर्दशपूर्ववदिन एव भवति, "आहार चउदसपुग्विणो' इति वचनात् / परिहारविशुद्धिकसंयमप्रतिपत्तिः पुनरुत्कर्षतोऽप्यधीतकिञ्चिन्यूनदशपूर्वस्यैव तथैव सिद्धान्ते भयानुज्ञानात् तत्कथं परिहारविशुद्धिकस्याहारकद्विकसभवः ? नाऽपि तस्य वैक्रियद्विकसम्भवः, तस्यामवस्थायां तत्करणाननुज्ञानाजिनकल्पिकस्यैव तस्याप्यत्यन्तविशुद्धाप्रमादमूलसंयमघोरानुष्ठानपरायणत्वात्, वैक्रियाऽऽरम्भे च लब्ध्युपजीवनेनौत्सुक्यभावात् प्रमादसम्भवात्, अत एव सूक्ष्मसम्परायसंयमेऽप्याहारकद्विकवैक्रियद्विकलक्षणानां चतुर्णा योगानामसंभवः / सूक्ष्मसम्परायसयमोपेतस्याप्यत्यन्तविशुद्धतया निस्तरङ्ग महोदधिकल्पत्वेन वैक्रियाऽऽदिप्रारम्भासम्भवात्, कार्मणमौदारिकमिश्रं चापर्याताऽऽद्यवस्थायामेवेति संयमद्वयेऽपि तस्याभावः / ते पुनः पूर्वोक्ता नव योगाः सवैक्रियाः सह वैक्रियेण वर्तन्त इति.सवैक्रिया वैक्रियसहिताः सन्तो दश योगा मिचे सम्यग्मिथ्यादृष्टौ भवन्ति। वैक्रियं देवनारकापेक्षया, यत्तु वैक्रियमिश्रं तन्नवाप्यते, तस्यापर्याप्तावस्थाभावित्वात्, मिश्रमावस्य च"नसम्ममिच्छो कुणइ कालं।'' इति वचनप्रामाण्यादपर्याप्तावस्थायामसम्भवात्। स्यादेतद्वैक्रियलब्धिमतां मनुष्यतिरश्चां सम्यगमिथ्यादृशां सता वैक्रियाऽऽरम्भसंभवेन कथ वैक्रियमिथ नावाप्यते ? इति, उच्यते-तेषां वैक्रियाऽऽरभासम्भवात्, अन्यतो वा कुतश्चित्कारणात्पूवाऽऽचार्यरतन्नाभ्युपगम्यत इति न सम्यगवगच्छामस्तथाविधसम्प्रदायाभावात, अतोऽस्माभिरपि तन्नेष्टमिति / देशे-देशविरते त एव नव पूर्वोक्ता सवैक्रियाद्वकाः वैक्रियतन्मिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामम्बडाऽऽदीनां वैक्रियलब्धिमतां वैक्रियद्विकसम्भवात् / तथा त एव नव पूर्वोक्ताः सकार्मणौदारिकमिश्राः सह कार्मणौदारिकमिश्राभ्यां वर्तन्ते इति सकार्मणौदारिकमिश्राः सन्त एकादश योगा यथाख्यातसंयमे भवन्ति / अयमर्थः-मनोयोगचतुष्टयवाग्योगचतुष्टय - कार्मणोदारिकद्विकलक्षणा एकादश योगा यथाख्याते भवन्ति / तत्र मनेवागचतुष्कौदारिकयोगाः सुज्ञाता एवं, कार्मणमौदारिकमिश्रं तु यथाख्यातसंयमश्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणं ''कार्मणशरीरयोगी, चतुर्थे पञ्चमे तृतीये च।" इति वचनात्, द्वितीयषष्ठसप्तमसमयेष्वौदारिकमिश्रम् - "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु'' इति वचनादवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् / कर्म०४ कर्म० / अभिहिता मार्गणास्थानेषु योगाः। साम्प्रतमेतेष्वेवोपयोगस्वरूपनिरूपणपूर्वक मुपयोगानभिधित्सुराहतिअनाण नाण पण चउ, दंसणबार जिय लक्खणुवओगा।