SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ वइवाय 763 - अभिधानराजेन्द्रः - भाग 6 वइवाय ठन्ति, ते मुहूर्तराशौ प्रक्षिप्यन्ते,तत आगतं-पूर्वाषाढानक्षत्रस्याष्टादश मुहूतनिकस्य मुहूर्तस्य च त्रयोदश चतुस्त्रिंशदधिकशत-भागानवगाह्य प्रथमो व्यतिपातो गत इति, तथा यदि द्वासप्तति-संख्यैर्व्यतिपातैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्तेततः पञ्चभिर्व्यतिपातैः किंलभामहे ? राशित्रयस्थापना -72-67-5, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातानि त्रीणि शतानि पञ्चत्रिंशदधिकानि 335, तेषां द्वासप्तत्या भागे हृते लब्धाश्चत्वारः पर्यायाः, न तैः प्रयोजनं, शेषास्तिष्ठन्ति सप्तचत्वारिंशत्, सा नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयितव्येति गुणकारच्छेदराश्योः षट्केनापवत्तनाज्जातो गुणकारराशिस्त्रीणि शतानि पञ्चोत्तराणि-३०५, छेदराशिदश, तत्र गुणकारराशिनापशोतरत्रिशतप्रमाणेन सप्तचत्वारिंशद् गुण्यते, जातानि चतुर्दश सह-स्त्राणि त्रीणि शतानि पञ्चत्रिंशदधिकानि 14335, छेदराशिना चद्वादशप्रमाणेन सप्तषष्टिगुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि, अभिजितोऽप्येकविंशतिः सप्तषष्टिभागा द्वादशभिर्गुणिता जाता द्वे शते द्विपञ्चाशदधिके 252, के प्राक्तनराशेः शोध्यन्ते, स्थितानि पश्चाचतुदश सहस्राणि त्र्यशीत्यधिकानि १४०८३,तेषामष्टभिः शतैश्चतुरुत्तरैर्भागहरणं, लब्धाः सप्तदश 17, शेष तिष्ठति चत्वारि शतानिपञ्चदशाधिकानि 415, एतानि च मुहूर्त्तानयनाय त्रिंशता गुणयितव्यानि, त्रिंशतश्च षट्केनापवर्तनायां जाताः पश, छेदराशेरपि षट्केनापवर्त्तनेजातं चतुस्त्रिंशदधिकं शतं, तत्र चतुर्णां शतानां पञ्चदशोत्तराणां पञ्चभिर्गुणने जातानि विंशतिशतानि पञ्चसप्तत्यधिकानि 2075, तेषां चतुस्त्रिंशदधिकशतेन भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः, शेषाः तिष्ठन्ति चतुस्त्रिंशदधिकशतभागाः पञ्चषष्टिः, तत्र ये पूर्वलब्धाः सप्तदश तेभ्यस्त्रयोदशभिः श्रवणादीनि पुनर्वसुपर्यन्तानि शुद्धानि, शेषास्तिष्ठन्ति चत्वारि, तैश्च पुष्यादीनि पूर्वफाल्गुनीपर्यन्तानि चत्वारि नक्षत्राणि शुद्धानि, परमश्लेषानक्षत्रमद्धक्षेत्रमिति तत्पञ्चदशभिर्मुहूर्तः शुद्ध्यतीति शेषास्तिष्ठन्ति पञ्चदश, ते मुहूर्तराशौ प्रक्षिप्यन्ते, जातास्त्रिंशन्मुहूर्ताः, आगतमुत्तरफाल्गुनीनक्षत्रस्य त्रिंशन्मुहूर्तान् एकस्य च मुहूर्तस्य पञ्चषष्टिं चतुस्त्रिंशदधिकशतभागानामवगाह्य पञ्चमो व्यतिपातोऽभूदिति, एवं सर्वेष्वपि व्यतिपातेषु भावनीयम्॥ सम्प्रति सूर्यनक्षत्रानयना-योपक्रम्यते-यदि द्वासप्ततिसंख्यैर्व्यतिपातैः पञ्च सूर्यनक्षत्रपर्याया भवन्ति तत एकस्मिन् व्यतिपाते किं भवति ? राशित्रयस्थापना 72-5-1, अत्रान्त्येन राशिना मध्यराशेर्गुणनं,जाताः पञ्चैव, तेषामाद्येन राशिना द्वासप्ततिलक्षणेन भागो हार्यः, ते च स्तोकत्वाद्भागं न प्रयच्छन्ति, ततो नक्षत्रानयनार्थमष्टादर्शभिः शतैत्रिशदधिकै सप्तषष्टिभागैर्गुणयितव्या इतिछेदराशिगुणराश्योः षट्के नापवर्तनाः, जातश्छेदराशिादश, गुणकारराशिस्त्रीणि शतानि पञ्चोत्तराणि 305, तथोपरितनो राशिः पञ्चकलक्षणो गुण्यते, जातानि पञ्चदश शतानि पञ्चविंशत्यधिकानि 1525, छेदराशिना च द्वादशकलक्षणेन सप्तषष्टिगुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि 804, पुष्यस्य चसप्तषष्टिभागाश्चतुश्चत्वारिंशद्वादशभिर्गुण्यन्ते,जातानिपञ्च शतानि अष्टाविंशत्यधिकानि 528, तानि पूर्वराशेःशोध्यन्ते, स्थितानिपश्चान्नव शतानि सप्तनवत्यधिकानि 667, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागो हियते, लब्धमेकं नक्षत्रम-श्लेषारूपं, स्थितं पश्चात्रिनवत्यधिकं शतम, एतच नक्षत्रभागं न प्रयच्छतीति सप्तषष्टिभागानयनाय छेदराशिौल एव द्वादशलक्षणः परं पञ्चभिः सप्तषष्टिभागैरहोरात्रो लभ्यत इति स पञ्चभिर्गुण्यते, जाता षष्टिः, तया भागो ह्रियते, लब्धास्त्रयोऽहोरात्राः, शेषास्तिष्ठन्ति त्रयोदश, ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि नवत्यधिकानि 360, तेषां षष्ट्या भागे हृते लब्धाः सार्धाः षड् मुहूर्ताः, अश्लेषानक्षत्रमिति तद्गता अहोरात्रा एकविंशतिश्च मुहूर्ता उद्धरन्ति, ते अत्र प्रक्षिप्यन्ते, आगतमश्लेषानक्षत्रमतिक्रम्य मघानक्षत्रस्य त्रिष्वहोरात्रेषु गतेषु चतुर्थस्य चाहोरात्रस्य साढेषु च सप्तविंशतिषु मुहूर्तेषु गतेषु प्रथमो व्यतिपातो गत इति, तथा यदि द्वासप्ततिसंख्यैर्व्यतिपातैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततः पञ्च-भिर्व्यतिपातैः किं लभ्यम् ? इति राशित्रयस्थापना-७२-५-५, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जाता पञ्चविंशतिः 25, तस्या आद्येन राशिना भागहरणं सा च स्तोकत्वाद् भागं न प्रयच्छति ततो नक्षत्रानयनार्थमेनामष्टादशभिः शतैत्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति छेदराशिगुणकारराश्योः षट्केनापवर्तना, जातो गुणकारराशिस्त्रीणि शतानि पञ्चोत्तराणि-३०५, छेदराशिर्वादशप्रमाणः-१२, गुणकारराशिना च पञ्चविंशतेर्गुणने जातानि षट्सप्ततिः शतानि पंचविंशत्यधिकानि 7625, छेदराशिनाऽपि च द्वादशलक्षणेन सप्तषष्टिगुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि 504, पुष्यस्य च सप्तषष्टिभागाश्चतुश्चत्वारिंशत्, सा द्वादशभिर्गुण्यते, जातानि पञ्च शतानि अष्टाविंशत्यधिकानि, तानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चात् सप्ततिशतानि सप्तनवत्यधिकानि 7067, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागहरणं, लब्धान्यष्टौ नक्षत्राणि, शेषाणि तिष्ठन्ति षट् शतानि पञ्चषष्ट्यधिकानि 665, एतानि नक्षत्रभागं न प्रयच्छन्ति ततः सप्तषष्टिभागानयनार्थ छेदराशिर्मूल एव द्वादशप्रमाणः परं पञ्चभिः सप्तषष्टिभागैरहोरात्रा लभ्यन्त इति पञ्चभिर्गुण्यते, जाता षष्टिस्तया भागो ह्रियते, लब्धा एकादशाहोरात्राः, शेषास्तिष्ठन्ति पञ्च, ते मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातं सार्द्धशतं, तस्य षष्ट्या भागे हृते लब्धौ द्वौ साडौं मुहूतौः,यानि च पूर्वलब्धान्यष्टौ नक्षत्राणि तान्यश्लेषादीनि विशाखापर्यन्तानि द्रष्टव्यानि, तत आगतमनुराधानक्षत्रप्रविष्टस्य सूर्यस्य एकादशसु दिवसेषु गतेषु द्वादशस्य च दिवसस्य द्रयोः सार्द्धयोमुहूर्तयोर्गतयोः पञ्चमो व्यतिपातो गत इति एवं सर्वेष्वपि व्यतिपातेषु सूर्यनक्षत्राणि परिभावनीयानि॥सम्प्रति लनपरिज्ञानार्थमुपक्रम्यते-यदि द्वास-पतिसंख्यैर्व्यतिपातैरष्टादशशतानि पञ्चत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्ते ततः प्रथमे व्यतिपाते किं लभ्यते ? राशित्रयस्थापना७२-१८३५-१, अत्रान्त्येन राशिना मध्यराशिगुण्यते, स च तावानेव भवति, तत आद्येन राशिना द्वासप्ततिलक्षणेन भागहरणं, लब्धाः पञ्चविंशतिः लग्रपर्यायाः शेषास्तिष्ठन्ति पञ्चत्रिंशत्, एनां नक्षत्रानयनार्थमष्टादशभिःशतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति छेदराशिगु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy