________________ वइरोयण 762 - अमिधानराजेन्द्रः - भाग 6 वइवाय वइरोयण-पुं०(वैरोचन) विविधै रोचन्ते दीप्यन्ते इति विरोचनास्त एव वैरोचनाः / स्था० 4 ठा० 1 उ०। दाक्षिणात्यासुरकुमारेभ्यः सकाशाद् विशिष्टं रोचनं दीपनं येषामस्ति ते वैरोचनाः / औदीच्या-सुरकुमारेषु, भ०३ श०१ उ० / प्रज्ञा० / अग्नौ, सूत्र०१ श्रु०६ अ०। कृष्णराज्यवकाशान्तरगे वह्निनामकदेवावासभूते, स्था० 8 ठा० 3 उ०। भ०।बुद्धे, दे० ना० 7 वर्ग 51 गाथा। वइरोयणिंद-पुं०(वैरोचनेन्द्र) वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रःपरमेश्वरो वैरोचनेन्द्रः। बलौ, प्रा०। भ०। वैरोचनोऽग्निः स एव प्रज्वलितत्वात् इन्द्रः। विभावसौ, सूत्र०१श्रु०६अ। वइल्ल-पुं०(बलीवर्द)"गोणादयः" / / 8 / 2 / 174 / / इति निपातः। पुङ्गवे, प्रा०२ पाद / आ० म०। वइ(ई)वाय-पुं०(व्यतीपात) रविशशिगतिप्रयुक्तयोगभेदे, ज्यो०। सम्प्रति व्यतिपातं विवक्षुराह - अयणाणं संबंधे, रविसोमाणं तु बेहि य जुगम्मि। जं हवइ भागलद्धं वइवाया तत्तिया होति / / 261 / / बावत्तरीपमाणो,फलरासी..... इह सूर्याचन्द्रमसौ स्वकीयेऽयने वर्तमानौ यत्र परस्परं व्यतिपततः स कालो व्यतिपातः, तत्र'"रविसोमयोः “सूर्याचन्द्रमसोः 'युगे युगमध्येऽयनानि तेषां परस्परं 'सम्बन्धे' एकत्र मीलने कृते सति द्वाभ्यां भागो हियते, हृते च भागे यद् भवति भागलब्धं 'तावन्तः तावत्प्रमाणा एकस्मिन् युगे व्यतिपाता भवन्ति, स च भागलब्धकराशिसप्ततिप्रमाणः, तथाहि-सूर्यस्यायनानि दश चन्द्रस्यायनानां चतस्त्रिंशदधिकं शतं, तयोरेकत्र मीलने जातं चतुश्चत्वारि शदधिकं शतं 144, तस्य द्वाभ्यां भागो ह्रियते, लब्धा द्वासप्ततिरेव, तावत्प्रमाणाम युगमध्ये व्यतिपाताः॥ 261 // साम्प्रतमीप्सितव्यतिपाताऽऽनयनाय करणमाह - .................इच्छिते उजुगभेए। इच्छियवइवायं पि य, इच्छं काऊण आणेहि / / 292 // जं भवइ भागलद्धं, तं इच्छं निहिसाहि सव्वत्था। सेसेऽवितस्स भेए फलरासिस्साणए सिग्घं || 263|| 'ईप्सिते' विवक्षिते 'युगभेदे' युगविशेषे इच्छाम्-ईप्सितव्यतिपातविषयां कृत्वा ईप्सितं व्यतिपातमप्यानय / कथमित्याह तत्र यद्, भवति भागेन-द्वासप्तत्यादिभागहारेण लब्धं तंतत्संख्यम् 'इच्छं' ति ईप्सितं व्यतिपातं निर्दिशेत् / शेषानपि युगभेदान् मुहूर्तादिरूपान् 'फलरासिस्स' ति तृतीयार्थे षष्ठी फलराशिना द्वा-लप्ततिलक्षणेन शीघ्रमानय / एष करणगाथाक्षरार्थः, सम्प्रति भावना क्रियतेयदि द्वासप्ततिसङ्ख्यैर्व्यतिपातैश्चतुर्विंशत्यधिक पर्वशतं लभ्यते तत एकस्मिन् व्यतिपाते किं लभामहे ? राशित्रयस्थापना-७२-१२४-१ अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिश्चतुर्विशत्यधिकशतप्रमाणो गुण्यते, जातं तदेव चतुर्विंशत्यधिकं शतं 124, तस्यद्वासप्तत्या भागे हियते, लब्धमेकं पर्व, पश्चादवतिष्ठते द्विपञ्चाशत्, सा पञ्चदशर्भिगुण्यते, जातानि सप्त शतान्यशीत्यधिकानि, तेषां द्वासप्तत्याभागहारे लब्धा दश तिथयः, शेषा षष्टिः, सा मुहूर्तकरणार्थं त्रिंशता गुण्यते, जातान्यष्टादश शतानि 1800, तेषां द्वासप्तत्या भागहरणे लब्धाः परिपूर्णाः पञ्चविंशतिर्मुहूर्ताः, पश्चान्न किमपि तिष्ठति, आगतमेकस्मिन् पर्वणि दशसु च ति थिषु गतास्वेकादश्यां पञ्चविंशती मुहूर्तेषु प्रथमो व्यतीपातः समाप्त इति, तथा यदि द्वासप्ततिसङ्ख्यैर्व्यतिपातैश्चतुर्विशत्यधिकं पर्वशतं लभ्यते ततः पञ्चभिर्व्यतिपातैः किलभ्यम् ? इति, राशित्रयस्थापना 72-124-5, अत्रान्त्येन राशिना पञ्चकलक्षणेन मध्यराशेर्गुणनं, जातानि षट् शतानि विंशत्यधिकानि 620, तेषां द्वासप्तत्या भागो ह्रियते, लब्धान्यष्टौ पर्वाणि ८,शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् 44, सातिथ्यानयनाय पञ्चदशभिर्गुण्यते,जातानिषट्शतानि षष्ट्यधिकानि 660, तेषां द्वासप्तत्या भागहारे लब्धा नव६, शेषास्तिष्ठन्ति द्वादश 12, ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि 360, तेषां द्वा-सप्तत्या भागे हृते लब्धाः परिपूर्णाः पञ्च मुहूर्ताः पश्चान्न किमपि तिष्ठति, आगतमष्टसु पर्वसु गतेषु नवमस्य च पर्वणो नवसु तिथिषुगतासुदशम्यां तिथौ पञ्चसु मुहूर्तेषु पञ्चमो व्यतिपातः समाप्तः, एवं सर्वेऽपि व्यतीपाताः। (संप्रति चन्द्रनक्षत्रव्यतिपात) परिज्ञानार्थमुपक्रम्यन्ते-यदि द्वासप्ततिसङ्ख्यैर्व्यतीपातैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्तेतत एकस्मिन् व्यतिपाते किं लभेयमिति, राशित्रयस्थापना-७२-६७-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमराशेः सप्तषष्टिरूपस्य गुणनात्जातः सप्तषष्टिरेव, तस्या द्वासप्तत्या भागो ह्रियते, सा च स्तोकत्वाद्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिष्याम इत्यस्य गुणकारराशेश्छेदराशेश्च द्वासप्ततिरूपस्य षट्केनाप्रवर्त्तना, तत्र जातो गुणकारराशिस्त्रीणि शतानि पश्चोत्तराणि 305, छेदराशि-दश, गुणकारराशिना च सप्तषष्टिगुण्यते, जातानि विंशति-सहस्त्राणि चत्वारि शतानि पञ्चत्रिंशदधिकानि 20435, छेदराशि-रपि द्वादशलक्षणः सप्तषष्ट्या गुण्यते, जातान्यष्टौ शतानिचतुरुत्तराणि ८०४,ये चाभिजितः सप्तषष्टिभागाएकविंशतिस्तेऽपिद्वादश-भिर्गुण्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके 252, ते उपरितनराशेः शोध्यन्ते, स्थितानि पञ्चाविंशतिः सहस्त्राणि शतमेकं त्र्यशीत्यधिकं 20183, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागो हियते, लब्धा पञ्चविंशतिः, शेषास्तिष्ठन्ति त्र्यशीतिः संप्रति मुहूर्ता आनेतव्याः, मुहूर्ताश्च अहोरात्रे त्रिंशत्, तस्याः षट्केनापवर्तनाया जाताः पञ्च, छेदराशिरपि षट्केनापवर्तितो जातश्चतुस्त्रिंशदधिकं शतं 134, तत्रत्र्यशीतिः पञ्चभिर्गुणिता जातानि चत्वारि शतानि पञ्चदशोत्तराणि 415, तेषां चतुस्विंशदधिकेन शतेन भागहरणं, लब्धास्त्रयो मुहूर्ताः, शेषास्तिष्ठन्ति त्रयोदश, तत्र द्वाविंशत्या श्रवणादीनि विशाखापर्यन्तानिनक्षत्राणिशुद्धानि, शेषास्तिष्ठन्ति त्रयः, तैश्चानुराधाज्येष्ठामूलरूपाणि नक्षत्राणि शुद्धानि, परं ज्येष्ठानक्षत्रमर्द्ध-क्षेत्रमितितत्पञ्चदशभिर्मुहतैः शुद्ध्यति, शेषाः पञ्चदशति