________________ वइगुत्तया 756 - अमिधानराजेन्द्रः - भाग 6 वइदिस वइगुत्तया-स्त्री०(वाग्गुप्तता) वचसोऽशुभपदार्थत्वात् गोपने, उत्त० 26 अ० / वाग्गुप्तिमत्तायाम्, उत्त०। अथ वचोगुप्तिफलमाह - वइगुत्तयाए णं भंते ! जीवे किं जणयइ वइगुत्तयाए णं निस्विकारत्तं जणयइ निस्विकारेणं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते आऽवि भवइ // 4 // हे भदन्त ! वचोगुप्ततया जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! वचोगुप्ततया निर्विकारित्वं-विरागभावम् उत्पादयति, निर्विकारो जीवः वाम्गुप्तः-गुप्तवचनश्च सर्वविकथात्यागात्, वाड्-निरोधे वागगुप्तिमान् सन् अध्यात्मयोगसाधनयुक्तश्चापि भवति / आत्मनि अधितिष्ठतीति अध्यात्ममनस्तस्ययोगाः-शुभव्यापाराधर्मध्यानादयः तेषां साधनम्ऐकायम अध्यात्मयोगसाधनं तेन युक्तः अध्यात्मयोगयुक्तस्तादृशश्यापि स्थादित्यर्थः / / 54 / / उत्त० 26 अ०। वइगुत्ति-स्त्री०(वाग्गुप्ति) गुप्तिभेदे, वाग्गुप्तिर्द्विधा-मुखनयनभूविकारानुल्याच्छोटनलेष्टुक्षेपहुंकृतादिसंज्ञावर्जनेन मौनावलम्बम्, संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका 1, वाचनप्रच्छनपरपृष्टव्याकरणादिषु लोकाऽऽगमाऽविरोधेन मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वागनियन्त्रणं द्वितीया 2, तदुक्तम्-"संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम्। वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते।। 1 // " आभ्यां भेदाभ्यां वामुगुप्तेः सर्वथा वागनिरोधः सम्यग्भाषणंच स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग् वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमि-त्योर्भेदः, यदाह- "समिओ नियमागुत्तो, गुत्तो समिअत्त णम्मि भयणिजो। कुसलवयमुईरतो, जं वइगुत्तो वि समिओ वि।। 1 // " इति / ध०३ अधि०। उदाहरणं वाग्गुप्तौ - "साधु संज्ञातिकान् द्रष्टुं गच्छन् पल्लीं मलिम्लुचैः। गृहीतोऽमोचि चेत्युक्त्वा, मा ख्यः कस्यापि नोऽत्रगान्॥१॥ तस्याग्रे मिलिता माता-पितृभ्रात्रादयोऽखिलाः। आयान्तो जन्ययात्रायां, ववले सोऽपि तैः सह / / 2 / / तस्करैमुषितः सार्थो, दृष्ट्वा ते मुनिमूचिरे। साधुः सैष गृहीत्वेहा-स्माभिर्मुक्तोऽधुनैव यः / / 3 / / तच्छुत्वाऽम्बाऽवदचौरान, समर्पयत ते क्षुरीम्। स्तनौ छिनद्मि येनाऽसौ, किमित्यूचेऽथ चौरपः // 4 // दुष्पुत्रोऽपात् ययोः क्षीरं, नाख्यधुष्मान् सतोऽपि यः। चौरोऽवक्तं कथं नाऽख्यः, पित्रोराख्यादथो मुनिः५ / / स्वधर्म चौरपो बुद्धः, सर्वं तन्मुष्टमार्पयत्॥" आ० क० 4 अ० वइच्छल-न०(वाक्छल) असाधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थान्तरकल्पनया तन्निषेधे, स्या० ।('छल' शब्दे तृतीयभागे 1353 पृष्ठे वाक्छलं व्याख्यातम्। वइजोग-पुं०(वाग्योग) वाग्विषये योगो वाग्योगः। वाग्निसर्गविषयेव्याप्रियमाणे योगे, विशे० / वाक्परिस्पन्दे, वाग्वीर्ये, विशे०। औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारे, स्था०१ ठा०। दर्श01 नं0। दश० / कर्म०1 जीत०'वइ' त्ति / वाग्योगोऽपिचतुर्द्धाद्रष्टव्यः। तथा हि-सत्यवाग्-योगः 1, असत्यवाग्योगः 2, सत्यासत्यवागयोगः 3, असत्याऽमृषवाग्योगः 4, तत्र सतां हिता सत्या,सत्या चासौ वाक्च सत्यवाक्तया सहकारिकारणभूतया योगोसत्यवाग्योगः / अथवा-वचनगतं सत्यत्वंतत्कार्यत्वा-द्योगेऽप्युपचर्यते, ततश्च सत्यश्चासौ वाग्योगश्च सत्यवाग्योगः। भावार्थः सत्यमनोयोगवद्वाच्यः। असत्या-सत्यादिपरीता सा चासौ वाक् च असत्यवाक् : तया योगोऽसत्यवाग्योगः। तथा-सत्या चासावसत्या चेत्यादि पूर्ववत्कर्मधारयो बहुब्रीहिर्वा, सा चासौ वाक्च सत्यासत्यवाक्, तत्प्रत्ययो योगः सत्यासत्यवाग्योगः। न विद्यते सत्यं यत्र सोऽसत्यः,न विद्यते मृषा यत्र सोऽमृषः, असत्यश्चासावमृषश्च असत्यामृषः, स चासौ वाग्योगश्च असत्याऽमृषवाग्योगः, शेषं मनोयोगवत्सर्वं वाच्यम् / अत्र तृतीयचतुर्थी मनोयोगौ वाग्योगौ च-परिस्थूलव्यवहारनयमतेन द्रष्टव्यौ। निश्चयनयमतेन तुमनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यम्, आज्ञानादिदूषिताशयपूर्वकं। त्वसत्यम्, उभयानुभयरूपं तुनास्त्येव सत्यासत्यराशिद्वयेऽन्तर्भावादिति भावनीयम् // कर्म० 4 कर्म०। वइणभीरु-पुं०(वृजिनभीरु) वृजिनम्-पापं तस्माद् भीरुजनिभीरुः। पापभीरौ, यो निरनुबन्धदोषाच्छ्राद्धो नाभोगवान् वृजिनभीरुः / षो० 12 विव०॥ वइणी-स्त्री०(व्रतिनि) साध्व्याम्, पं०व०४ द्वार! *वक्तृ-त्रि० / कथयितरि, "मुसं वइता भवइ" स्था० 3 ठा० १उ०। वइतुलिय-पुं०(वैतुलिक) विगतास्तुल्यभावे वैतुलिकाः। नास्तित्वादिषु, नि० चू०११ उ०। वइतेण-पुं०(वास्तेन) धर्मकथिकादितुल्यरूपे वाक्चौरे, दश०५ अ०। वइत्ता-अव्य(उदित्वा/उक्त्वा) कथयित्वेत्यर्थे, स्था० 3 ठा० 1 उ०। भ०। वइदंड-पुं०(वाग्दण्ड) सावद्यभाषायाम, आ० चू०। तत्रोदाहरण-म्-साधू सण्णाभूमिओ आगतो॥ अविधीए आलोएति। जधा सूयरवंदं दिलु ति, पुरिसेहिं सुतं, गंतुं मा रितं / अहवा-कोट्टिओ सामि दटुं भणति / जदि दिवसो होतो। सव्वे समणगा हलं वाहावेन्तो। आ० चू० 4 अ०। वइदंभ-त्रि०(वैदर्भ)"अइदैत्यादौ च"||८1१।१५१॥ इति ऐतोऽइः / विदर्भदेशादिभवे, प्रा०१पाद! वइदिस-न०(वैदिश) विदिशाया अदूरभवे नगरे, "वइदिसगोचरगामे, खल्लाडगधुत्तकोलियोथेरो"वैदिशनगरासन्ने गोचरग्रामेधूर्तः कोलिकः / बृ०६ उ०1आ०म०। ('खिंसियवयण' शब्देतृतीयभागे७४० पृष्ठविस्तरतो व्याख्या गता।)