________________ लोभ 753- अभिधानराजेन्द्रः- भाग 6 लोभ तेण अइलोलयाए एत्तियस्स लाभस्स फिट्टोऽहंति पादाण दोसेण एकाए कुसीए दो वि पाया भग्गा, सयणो विलवइ / तओ रायपुरिसेहिं सावओ गंदो य घेतूण राउलं नीया, पुच्छिया, सावओ भणइमज्झ इच्छापरिमाणातिरित्तं, अविय कूडमाणं ति, तेण न गहिया, सावओ पूएऊण विसजिओ, नंदो सूलाए भिन्नो, सकुलो य उच्छाइओ, सावगो सिरिघरिओठवियओ। एरिसो दुरंतो लोभो॥ एवंविधं लोभ नाम-यन्त इत्यादि पूर्ववत् / आव०१ अ०। (दण्डकः 'कसाय' शब्दे तृतीयभागे 367 पृष्ठे गतः / ) मूस्विभावे, सूत्र० 1 श्रु०१६ अ० / विशे० (वस्त्रदृष्टान्तेन लोभचातुर्विध्यम् 'कषाय' शब्दे तृतीय- भागे 366 पृष्ठे दर्शितम्।) अतिलोभे उदाहरणम् - "जो जहा वट्टए कालो" इत्यादि श्लोकः / अस्य चार्थः कथानकादवसेयस्तचेदम्-कस्मिंश्चिदटवीप्रदेशे सरोवरमेकमासीत् / तच लौकिकेषु कामिकतीर्थमुच्यते। तस्य हि तीरे वञ्जुलनामा वृक्षोऽभूत्तच्छाखामारुह्य यदि तिर्यक्सरोवरजले निपतति तदा तीर्थमाहात्म्यात्किल मनुष्यो भवति। यस्तु मनुष्य एव संनिपतति असौ देवो जायते,। यस्तु लोभाधिक्या द्वितीयामपि वारां निपततिसयादृशः प्रागासीत्पुनरपि तादृश एव संपद्यते, एवं चान्यदा वानरमिथुनस्य पश्यतो नरमिथुनं वजुलवृक्षशाखातो निपतितं तत्सरोवरजले। संजातं स भास्वरशरीरं देवमिथुनम्। ततो वानर-मिथुनमपि तथैव तत्र पतितं जातंच प्रवररूपधरं नरमिथुनम् / ततो वानरेण प्रोक्तम्-पुनरपि तथैवेह निपतावः, येन देवरूपौ भवा-वः, ततोऽसौ निषिद्धो योषिता-"यद्न ज्ञायते, पुनरपीत्थं कृते किं संपद्यते? पर्याप्त चानेनैव प्रवरमानुषत्वेन, निषिद्धो ह्यतिलोभः सर्वशास्त्रेष्वपि" इति। इत्थं निवार्यमाणोऽपितयाऽसौ पुरुषो द्वितीयामपि वारां तथैव तत्र निपपात, जातश्च पुनरपि वानरः / ततो गृहीता सा प्रवररूपा योषित्तत्रायातेन केनापि राज्ञा, संजाता च तस्यं वल्लभा पत्नी। वानरस्तु गृहीतो मायेन्द्रजालिकैः, शिक्षितश्च नर्तयितुम् / नीतश्चासौ सकलत्रोपविष्टस्य राज्ञः पुरतः / प्रत्यभिज्ञाता च तेन सा राज्ञी, तयाऽप्युपलक्षितोऽसौ वानरोधावतिच पुनर्निगृह्यमाणोऽपि राज्ञः सन्मुखग्रहणार्थम्, अतो राज्ञा पठि-तम् - जो जहा वट्टए कालो, तंतहा सेव वानर!। मा वंजुलपरिभट्ठो, वानरा ! पडणं सर / / 663 // उत्तानार्थश्चायं श्लोकः / तदेवं यथा अधिको लोभाऽभि प्रायः कृतो वानरस्याऽनय जातस्तथा मात्राद्यधिकं सूत्रमपीति भावनीयमिति। विशे० आ० म०। अथ लोभे उदाहरणम्। "नगरं पाटलीपुत्रं, जितशत्रुर्नराधिपः। श्रावको जिनदत्तोऽभू-द्वणिनन्दश्च लोभनः॥१॥ भूभुजा खन्यमानेन, तडागे स्थानके क्वचित्। दृष्टाः कर्मकरैः फाला, मृल्लेपकलुषात्मकाः॥२॥ फालद्वयं गृहीत्वा तै-र्जिनदत्तस्य दौकितम् / विलोक्य तेन मुक्तं त-इत्तं नन्दस्य तैस्ततः॥३॥ ज्ञाततत्त्व स जग्राह, स्माह चाऽऽनयताऽपराम्। अयः कुशानां मूल्येन, तेनात्ता शतशोऽपि ते॥ 4 // नात्ताः फालाः सुतैस्तेऽथ, वलित्वाऽगुर्निजाश्रये। तान् घातेनाऽमुचद्भूमौ, लेपः स्तोकोऽपतत्ततः // 5 // राजपुंभिर्गृहीतास्ते, राज्ञः सर्वं निवेदितम्। इतश्चायातवान्नन्दः, पुत्रानाह स्म किं कृतम्॥६॥ ऊचुस्ते ग्रहिलाः स्मोन, कार्य किन्तुक्रयाणकैः। नन्दोऽथ कुपितः स्वाध्री, कुशामादाय भनवान्॥७॥ इयल्लोभो ममाद्यागा-देतयोरेव दोषतः। व्यलपन् स्वजनाश्चैवं, किमिदं नन्द ! निर्ममे॥८॥ राजपुंभिस्ततो नन्द-जिनदत्तौ नृपान्तिके। धृत्वा नीतौ नृपोऽप्राक्षीत्, श्राद्धानात्ताः कथं कुशाः / / 6 / / सोऽवदन्नियमो मेऽहं, कुर्वे कूटक्रयं न तत्। सोऽथ संमान्य संभूष्य, मुक्तो राज्ञाऽगमद् गृहम् / / 10 / / लोभनन्दः पुनः शूला-रोपदण्डेन दण्डितः। लोभो दुरन्त इत्येवं, नमोर्हाणामतो मतः॥ 11 // " आ० क०१०। विशे०। अथलोभद्वारमाहलग्भतं पिन गिण्हइ, अन्नं अमुगं ति अन घेच्छामि। भद्दरसं ति व काउं, गिण्हइ खद्धं सिणिद्धाई // 481 // अद्याहममुकं सिंहकेसरादिकं ग्रहीष्यामीति बुद्ध्याऽन्यदल्लचणकादिकं लभ्यमानमपियन्न गृह्णाति, किंतु-तदेवेप्सितम्सलोभपिण्डः / अथवा-पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानम् खलुप्रचुरम्। स्निग्धादिलपनश्रीप्रभृतिकं भद्रकरसमिति कृत्वा यद् गृह्णाति स लोभपिण्डः। तत्र प्रथमभेदमाश्रित्योदाहरणं गाथादयेनाह - चंपा छणम्मि घिच्छामि, मोयए ते विसीहकेसरए। पडिसेहधम्मलाभ, काऊणं सीहकेसरए.।। 452 // सङ्घहरत्तकेसर-मायण भरणं च पुच्छ पुरिमड्डे। उवओग संत चोयण, साहु त्ति विगिचंणे नाणं // 43 // चम्पा नाम पुरी, तत्र सुव्रतो नाम साधुः। अन्यदा च तत्र मोदकोत्सवः समजनि, तम्मिश्च दिने सुव्रतोऽचिन्तयत्-अद्य मया मोदका एव ग्रहीतव्याः तेऽपि सिंहकेसरकाः / तत इत्थं संप्रधार्य भिक्षां प्रविष्टो लोलुपतया अन्यत्प्रतिषेधेन सिंहके सरमोदकाँश्चालभमानस्तावत्परिभ्रमति स्म; यावत् सार्द्ध प्रहरद्वयम्, ततो न लब्धा मोदका इति प्रनष्टचित्तो बभूव, ततो, गृहद्वारे प्रविशन् वक्तव्यस्य धर्मलाभस्य स्थाने सिंहकेसरा इति वदति। एवं चसकलमपि दिनंभ्रान्त्वा रात्रौ तथैव परिभ्रमन् प्रहरद्वयसमये श्रावकस्य गृहे प्रविवेश। धर्मलाभभणनस्थाने सिंहकेसरा इत्युवाच, सोऽपि च श्रावकोऽतीव गीतार्थो दक्षश्च। ततस्तेन परिभावयामासेनूनमेतेन क्वापि न लब्धाः सिंहकेसरा मोदका इति चित्तभस्य प्रनष्टम् / ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भृतं भाजनमुपढौकितम्, भगवन्! प्रतिगृहाण सर्वानप्येतान् सिंहकेसरमोदकानि