________________ लोगुत्तरतत्त० 751 - अभिधानराजेन्द्रः - भाग 6 लोगुत्तरतत्त० कुतः पुनर्हेतोश्चरमपुद्गलावतॊ भवतीत्याशङ्कायामिदमाह - स भवति कालादेव, प्राधान्येन सुकृतादिभावेऽपि / ज्वरशमनौषधसमय-वदिति समयविदो विदुनिपुणम् / / 3 / / सः-चरमपुद्गलावर्तो भवति स्वरूपतः कालादेव प्राधान्येन हेतुविवक्षायां कालप्राधान्यमाश्रित्य शेषकर्मादिहेत्वन्तरोपसर्जनीभावप्रतिपादनेन सुकृतादिभावेऽपि-सुकृतदुष्कृतकर्मपुरुषकारनियत्यादिभावेऽपि / "कर्मादिभावेऽपी" ति पाठान्तरम्, ना-श्रितं छन्दोभङ्गभयात्। निदर्शनमाह-ज्वरशमनौषधसमयवत, ज्वरं शमयति इति ज्वरशमनं तच्च तदौषधं च तस्य समयः-प्रस्तावो देशकालस्तद्वद्ववति चरमः / ज्वरशमनीयमप्यौषधं प्रथमापाते दीयमानं न कञ्चनगुणं पुष्णाति प्रत्युतदोषानुदीरयति, तदेव चाव-सरे जीर्णज्वरादौ वितीर्यमाणं स्वकीर्य निवर्तयति। एवमयमप्यव-सरकल्पो वर्त्तते चरमइति भावः। इत्येवं समयविदः-सिद्धान्तज्ञाः विदुः-जानन्ति क्रियाविशेषणं निपुणमिति // 3 // कस्मात् पुनश्चरमपुद्गलावतः प्राधान्येन लोकोत्तरतत्त्वसंप्राप्ते - हेतुराश्रीयत इत्याहनागमवचनं तदधः, सम्यक् परिणमति नियम एषोऽत्र। शमनीयमिवामिनवे, ज्वरोदये काल इति कृत्वा // 4 // नेति-प्रतिषेधे, आगमवचनमार्षवचनं तदधस्तस्याधस्ताद् पुद्गलपरावादभ्यधिकसंसारस्य सम्यग विषयविभागेन परिणमति न परिणमत्येवेत्यर्थः / नियम एष प्रस्तुतोऽत्र प्रक्रमे शमनीयमिवौषधम्, अभिनवे ज्वरोदये प्रत्यग्रेज्वरप्रादुर्भाव किमित्यकाल इति कृत्वा अप्रस्ताव इति कृत्वा / / 4 / / नागमवचनं तस्याधस्तात्परिणमतीत्युक्तं तदेव दर्शयतिआगमदीपेऽध्यारो-पमण्डलं तत्त्वतोऽसदेव तथा। पश्यन्त्यपवादात्मक-मविषय इह मन्दधीनयनाः॥५॥ आगमप्रदीपे अध्यारोपमण्डलम्-भ्रान्तिमण्डलम् अध्यारोपोभ्रान्तिस्तया मण्डलं मण्डलाकारं दीपे, अपरे तु-भ्रान्तिसमूहम्, तत्त्वतःपरमार्थेन, वस्तुवृत्त्या असदेवा-विद्यमानमेव, तथा तेन रूपेण तैमिरिकं दृश्येन प्रदीपस्योपवर्तितया पश्यन्ति दृष्टिदोषात् अपवादात्मकम् अपवादस्वरूपम् अविषये योऽपवादस्य कथंचिन्न विषयस्तस्मिन्नविद्यमानमेवपश्यन्ति इह लोके मन्दधीनयनाः-मन्दबुद्धिचक्षुषः। यथोक्तम्"मयूरचन्द्रकाकारं, नीललोहितभा-सुरम्। प्रपश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः / / 1 // // 5 // यत एवागमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव पश्यन्तितत एवाविधिसेवा, दानादौ तत्प्रसिद्धफल एव। तत्तत्त्वदृशामेषा, पापा कथमन्यथा भवति // 6 // ततएव-अध्यारोपादेवभ्रान्तेरेवेत्यर्थः। अध्यारोपमण्डलदर्शनादेव या अविधिसेवा-अविधेर्विधिविपर्ययस्य सेवा-सेवनं दानादौ विषये / आदिशब्दाच्छीलतपोभावनापरिग्रहः। तत्प्रसिद्धफल एव-तस्मिन्नागमे प्रसिद्धं फलं वस्य दानादेस्तस्मिन् / तस्यागमस्य तत्त्वंपरमार्थस्तं पश्यन्तीतितत्तत्त्वदृशस्तेषामेषा अविधिसेवा पापा स्वरूपेण कथमन्यथा भवति, न भवतीत्यर्थः // 6 // अविधिसेवागतमेवाह - येषामेषा तेषा-मागमवचनं न परिणतं सम्यक् / अमृतरसास्वादज्ञः, को नाम विषे प्रवर्त्तत॥७॥ येषां जीवानामेषा-अविधिसेवा तेषामागमवचनं-सर्वज्ञ-वचनं न परिणतं सम्यग्-ज्ञेयविषयविभागेन चेतसि न व्यवस्थितम् / आगमवचनापरिणतौ कारणमाह-अमृतरसास्वादज्ञः पुमान् को नाम न कश्चिद्विषे-मारणात्मके प्रवर्तेतभक्षयितुं प्रवृत्तिं विदधीत, विषप्रवृत्तिकल्पा अविधिसेवा ततो विज्ञायते नागमवचनं सम्य-क्परिणतमिति // 7 // प्रतिषेधेमुखेनोक्तमर्थ विधिमुखेन नानागमवचनपरि णामाश्रयमाहतस्माचरमे नियमा-दागमवचनमिह पुद्रलावतें। परिणमति तत्त्वतः खलु, स चाधिकारी भवत्यस्याः / / 8 / / तस्माचरमे-अवसानवृत्तौ नियमात्-नियमेनागमवचनं पूर्वोक्त-मिह पुद्गलावर्ते प्रागुक्ते परिणमति-उत्तरोत्तरपरिणामविशेषमासा-दयति, स्वरूपेण परिस्फुरतीत्यर्थः। तत्त्वतः खलु तत्वतएव यस्यै-तदागमवचनं परिणमति स चाधिकारी-अधिकारवान् भवत्यस्या-लोकोत्तरतत्त्वसंप्राप्तेः, शेषस्त्वनधिकारीति॥ 8 // (षो०)('आगम० (6) श्लोकः 'आगमवयणपरिणइ' शब्दे द्वितीयभागे 82 पृष्ठे गतः।) कथं पुनः सदोधादनुष्ठानं परिपूर्ण भवतीत्याह - दशसंज्ञाविष्कम्भण-योगे सत्यविकलं ह्यदो भवति। परहितनिरतस्य सदा, गम्भीरोदारभावस्य / / 10 / / दश च ताः संज्ञाश्च तासां विष्कम्भणं-यथाशक्तिनिरोधस्तद्योगेतत्संबन्धेसतितन्निरोधोत्साहे वा, अविकलंह्यखण्डम्, अदः एतत्सदनुष्ठानं भवति परहितनिरतस्य परोपकाराभिरतस्य, सदा-सर्वकालम्, गम्भीरोदारभावस्य गाम्भीर्यांदार्ययुक्तमनसः // 10 // (षो०)। ("सर्वज्ञवचन०" (11) इत्यादिश्लोक: 'आगम-वयण' शब्दे द्वितीयभागे 52 पृष्ठे गतः।) अध्यारोपादविधिसेवा दानादावित्युक्तं तद्विपर्ययेणाह - विधिसेवादानादौ, सूत्रानुगता तु सा नियोगेन। गुरुपारतन्त्र्ययोगा-दौचित्याचैव सर्वत्र॥ 12 // विधिसेवा-आगमाभिमतन्यायसेवा, दानादौ विषये, ज्ञेया सूत्रानुगता तु आगमानुगतातु विधिसेवा, नियोगेन-नियमेन गुरुपारतन्त्र्ययोगाद्गुरुपरतन्त्रसंबन्धात्, औचित्याचैव अनौचित्यपरिहारेण सर्वत्रदीनादावविशेषेण॥ 12 // (षो०)("न्यायात्तं०(१३)" इत्यादिश्लोकः 'दाण' शब्दे चतुर्थभागे 2560 पृष्ठे गतः!) एवं महादानं दानं चाभिधाय देवार्चनमाह - देवगुणपरिज्ञाना-त्तावानुगतमुत्तमं विधिना। स्यादादरादियुक्तं, यत्तद्देवार्चनं चेष्टम् / / 14 / / देवगुणपरिज्ञानात्-देवगुणानां वीतरागत्वादीनां परिज्ञानम् -