________________ लोगसार 748 - अमिधानराजेन्द्रः - भाग 6 लोगसार नात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपितु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति। उक्तंच-"पञ्चेन्द्रियाणि त्रिविधं बलंच, उच्छ्वासनिःश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा / / १॥"नच संसारस्थस्य सर्वथा अमूर्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्ये-तदुत्तरसूत्रर्दर्शयितुमाहत्वमपि नाम स एव यंप्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिग्रहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे, असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा-यं कायं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्त्वमेवासौ, एवं मृषावादादावप्यायोज्यम्। यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह- 'अञ्जु रिति ऋजुः-प्रगुणः साधुरिति यावत्, चशब्दोऽवधारणे, एतस्य-हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येततत्प्रतिबुद्धजीवी साधुरेव तत्परिज्ञानेनजीवति नापर इत्युक्तं भवति। (आचा०) ('तम्हा' इत्यादिसूत्राणि,सव्याख्यानि'आता' शब्दे द्वितीयभागे 200 पृष्ठे गतानि।) अवधार्य च किं कुर्यादित्याह - निद्देसं नाइवट्टेजा मेहावी सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामो परिव्वए णिट्ठियही वीरे आगमेण सया परक्कमे / (सू० 168) निर्दिश्यत इति निर्देशः तीर्थकरायुपदशस्तं नातिवर्तेत मेधावीमर्यादावानिति। किं कृत्वा निर्देशं नातिवर्तेतेत्यत आह-सुष्टु प्रत्युपेक्ष्य हेयोपादेयतया तीर्थकवादान् सवज्ञवादंच सर्वतः सर्वैः प्रकारैर्द्रव्यक्षेत्र-- कालभावरूपैः सर्वात्मना सामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सह सन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थकप्रवादनिराकरणं कुर्यात् , किंचकृत्वेत्यत आह- सम्यगेव स्वपरतीर्थिकवादान् समभिज्ञायबुद्ध्वा ततो निराकरणं कुर्यात् / किं च-इह-अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च परिव्रजेत्- संयमानुष्ठाने विहरेत् , किंभूत इत्याहनिष्ठितोमोक्षस्तेनार्थी, यदि वा-निष्ठितः-परिसमाप्तः अर्थः-प्रयोजन यस्य स निष्ठितार्थः वीरः कर्मविदारणसहिष्णुः सन् आगमेन-सर्वज्ञप्रणीताचारादिना सदा-सर्वकालम् पराक्रमेथाः कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः / इतिः-अधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्। किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याह - उडं सोया अहे सोया, तिरियं सोया वियाहिया। एए सोया वि अक्खाया, जेहिं संगति पासह // 1 // श्रोतांसि-कस्रिवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयामुबन्धादीनि गृह्यन्ते, तत ऊर्ध्वं श्रोतांसिवैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधोभवनपतिसुखाभिलाषिता, तिर्यग्व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवा-प्रज्ञापकापेक्षयोक्-गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपिश्वभ्रनदीकूलगुहालयनादीनि, तिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविस्र-साभ्यां स्वकर्मपरिणत्या वा जनितानि व्याहितानि, एतानि च कमस्रिवद्वाराणीति कृत्वा श्रोतांसीव श्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैयः सङ्गम्-प्राणिनामासक्तिं कर्मानुषङ्ग वा पश्यत, इतिः-हेतौ, तस्मात्कर्मानुषङ्गात् कारणादेतानि श्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति। आवटें तुपेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्भ एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ इह आगई गई परिनाय / (सू०१६६) रागद्वेषकषायविषयावर्त कर्मबन्धावत वा तुशब्दः पुनःशब्दार्थे, भावावर्त पुनरुत्पेक्ष्य अत्र-अस्मिन् भावावर्ते विषयरूपे वेदविद्आगमविद् विरमेद्-आग्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा"विवेगं किट्टइ वेदवी' आस्रवद्वारनिरोधेन तजनितकर्मविवेकम्-अभाव कीर्त्तयति-प्रतिपादयति वेदविदिति। आस्रवद्वारनिरोधेन च यत्स्यात्तदाह-स्रोतः-आस्रवद्वारं तद्विनेतुम्-अपनेतुं निष्क्रम्यप्रव्रज्य एष इतिप्रत्यक्षः प्रस्तुतार्थस्य चावश्यंभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तो यः कश्चिदित्यर्थः महान-महापुरुषः अतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति-अकर्मानास्य कर्म विद्यत इत्यका , कर्मशब्देन चात्र धातिकर्मविवक्षितम् , तदभावाच जानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्वं जानाति पश्चाच पश्यति। अनेन च क्रमोपयोग आविष्कृतः; सचोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रकैपूज्यः संसारार्णवपारवर्ती विदितवेधः सन् किं कुर्यादित्याह-स हि-ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां च प्रत्युपेक्ष्यपर्यालोच्य हृषीकविजयजनित-सुखनिःस्पृहतया तां नाकाङ्क्षतिनाभिलषतीति। किंच-इह-अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति। तन्निराकरणे च यत्स्यात्तदाह - अचइ जाईमरणस्स वट्टमग्गं विक्खायरए, सवे सरा नियटुंति,तक्का जत्थ न विजइ, मई तत्थ न गाहिया, ओए, अप्पइट्ठाणस्सखेयन्ने, से नदीहे न हस्से न वट्टे न तसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुकिल्ले