________________ लोगसार 747 - अभिधानराजेन्द्रः - भाग 6 लोगसार यथा-अनन्तधमाध्यासितं वस्तु सर्वनयसमूहात्मकं च दर्शनमति-गहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति / उक्तं च- "सर्वनयैर्नियतनैगमसंग्रहाद्यैरेकै कशी विहिततोर्थिकशासनैर्यत् / निष्ठां गतं बहुविधैर्गमपर्ययैस्तैः, श्रद्धेयमेव वचनं न तु हेतुगम्यम्॥ 1 // ' इत्यादि, यतो हेतुः प्रवर्तमानः एकनयाभिप्रायेण प्रवर्त्तते, एकं च धर्मं साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति २।('असमिय' शब्दे प्रथमभागे 844 पृष्ठे सूत्रं गतम्।) व्याख्या चेयम् यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्स न स्याताम्, अमूर्त्तत्वादाकाशवदित्यादिक सम्यग् भवति 3 / कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेतिकुहेतुवितर्काविभावावसरे नितरामसम्यगेव भवति, तथाहि- चतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात् , प्रदेशयोलॊकान्तद्वयगतयोर्वेक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद् भावयति, यथा-विरसा परिणामेन शीघ्रगति-त्वात् परमाणोरेकसमयेनासंख्येयप्रदेशातिक्रमणम्, यथाहि-अङ्गुलिद्रव्यमेकसमयेनासंख्येयानप्याकाशप्रदेशानतिचयति, एतदेव कुत इति चेत् , न हि दृष्टऽनुपपन्नं नाम, नच सकलप्रमाणप्रत्यक्षसिद्धे अर्थऽनुमानमन्वेष्टव्यम्, तथाहि-यद्यनेकप्रदेशातिक्रमणं सामायिकं न भवेत् ततोऽङ्गुलमात्रमपि क्षेत्रमसंख्येयसमया-तिक्रमणीयं स्यात्, तथा च सति दृष्टष्टबाधाऽऽपद्येतेति, यत्किश्चिदेतत् / / साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह - समियं ति मन्नमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए 5, असमियं ति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए 6, उवेहमाणो अणुवेहमाणं बूयाउवेहाहिं समियाए, इच्चेवं तत्थ संधीझोसिओ भवइ, से उट्ठियस्स ठियस्स गई समणुपासह, इत्थं वि बालभावे अप्पाणं नो उवदंसिना / (सू०१६३+) सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षयापर्यालोचनया सम्यगेव भवति, ईपिथोपयुक्तस्य क्वचित्प्राण्युपमर्दवत् 5 / साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किश्यिद्वस्तु मन्यमानस्य शङ्का स्यादग्दिर्शितया छास्थस्य सतस्तद्वस्तु सम्यग्वास्यादसम्यग्वा, तस्य तदसम्यगेवोत्प्रेक्षया असम्यकपर्यालोचन-- तयाऽशुद्धाध्यवसायतयेतियावत्'यद्यथा शङ्कयेत्तत्तथैव समापद्येते ति वचनादिति 6 // यदि वा- "समियं ति मन्नमाणस्स'' इत्याद्यन्यथा व्याख्यायतेशमिनो भावः शमिता इतिः-उपप्रदर्शने, तामेतां शमितां मन्यमानस्य शुभाध्यवसायिनः 'एकदे त्युत्तरकालमपि शमितैव भवतिउपशमवत्तैवोपजायते, अन्वस्य तु शमितामपि मन्यमानस्यकषा योदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्याऽऽयोज्यमिति / तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणःपर्यालोचयन्नपरमनुत्प्रेक्षमाणं गड्डुरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्रूयात्, यथा-उत्प्रेक्षस्वपर्यालोचय सम्यग्भावेन माध्यस्थ्यमवलम्ब्य किमेतदर्हदुक्त जीवादितत्त्वं घटामियाहोश्विन्नेत्यक्षिणी निमील्य चिन्त-येति भावः, यदिवा-उत्प्रेक्षमाणः संयमम् उत्-प्रावल्येनेक्षमाणः-संयमे उद्यच्छन्ननुत्प्रेक्षमाणं ब्रूयात् , यथा-सम्यग्भावापन्नः सन् संयममुत्प्रेक्षस्वसंयमे उद्योगं कुरु। किमवलम्ब्येत्याह-इत्येवं-पूर्वोक्तेन प्रकारेण तत्र-तस्मिन् संयमे सन्धिःकर्मसन्ततिरूपो झोषित:-क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात्, नान्यथेति। सम्यगुत्प्रेक्षमाणस्य च यत्स्यात्तदाह-(से) तस्यसम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवतियापदवी भवति तां सम्यगनुपश्यत यूयम्, तद्यथा-सकललोकश्लाघ्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता चस्यादिति, यदिवास्वर्गापवर्गादिका गतिःस्यात् , तां पश्यतेति सम्बन्धः, अथवा-उत्थितस्यसंयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेगतिम् सकलजनोपहास्यरूपामधमस्थानगतिं वा पश्यतेति। तदेवमुद्युत्केतरयोर्गतिमुपलभ्य पञ्चविधाचारसारे प्रक्रमितव्यम्, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याहअत्रापि-असंयमेबालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत्, बालानुष्ठानविधायी मा भूदिति यावत्, तथाहिबालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्तिच-नित्यत्वादमूर्तत्वाचात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदाप्लोषो वा स्यात् एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् / उक्तं च-"न जायते म्रियते वा कदाचिन्नायं भूत्वा भवितेति // " "नैनं छिन्दन्ति शस्त्राणि, नैनं दहित पावकः / न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च / नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः // 2 // " इत्यादि। ____ अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह - तुमंसिनाम सचेवजं हंतव्वं ति मनसि, तुमंसि नाम सबेवजं अजावेयव्वं ति मनसि, तुमंसि नाम सचेव जं परियावेयव्वं ति मन्नसि, एवं जं परिचित्तव्वं ति मनसि ,जं उद्दवेयं ति मनसि, अंजू चेयपडिबुद्धजीवी,(सू० 1644) योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायाम् , यथा-भवान् शिरःपाणिपादपार्श्वपृष्ठोरूदरवान् एव-मसावपि यं हन्तव्यमिति मन्यसे, यथा च भक्तो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि, तद्दुःखापादनाच किल्विषानुषङ्गः। इदमुक्तं भवति