________________ लोगसार ७४६-अभिधानराजेन्द्रः - भाग 6 लोगसार प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धः, दुरधिगमस्त्वनिपुणस्य, अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति। तस्मिन् धर्माधकिाशादौ या विचिकित्सेति, यदिवा- 'विइगिच्छत्ति विद्वज्जुगुप्सा, विद्वांसः-साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सानिन्दा अस्नानात् प्रस्वेदजलक्लिन्नमलत्वामुर्गन्धिवपुषस्तानिन्दतिको दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादिजुगुप्सा तां विचिकित्सां विद्वजुगुप्सां वा सम्यगापन्नः-प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्नेनात्मना नोपलभ्यते समाधिम्चित्तस्यास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विधिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधिं नावाप्नोति। यश्चावाप्नोति स गृहस्थो वा स्याद्यतिति दर्शयितुमाहसिताः-पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह-एके लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्तिआचार्योक्तं प्रतिपद्यन्ते, तथा असिता वा गृहवासविमुक्ता वा एकेविचिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति। तेषां च मध्ये यदि कश्चित् कङ्कटकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविरतः प्रतिपद्येतापीति दर्शयितुमाह-आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्अप्रतिपद्यमानः कथन निर्वेदंगच्छेद् ? असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याऽऽचार्योक्तं सम्यक्त्वमेव प्रतिपद्येतेत्यर्थः, यदि वा-सितासितैराचार्योक्तमनुगच्छभिरवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रवजितोऽप्यननुगच्छन्-अनवधारयन्कर्थन निर्विद्येत् ? न निर्वेदतपःसंयमयोर्गच्छेत् ? निर्विण्णश्चेदमपि भावयेत् , यथा-नाहं भव्यः स्यांनच मे संयतभावोऽप्यस्तीति, यतः-स्फुटविकटमपि कथितनावगच्छामि,एवं च निर्विष्णस्याचार्याः समाधिमाहुः-यथा-भोः साधो! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यक्त्वमभ्युपगतम् , तच न ग्रन्थिभेदमृते, तद्भदश्च न भव्यत्वमृत, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः। किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्मितम् , तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह - तमेव सचंनीसंकं,जंजिणेहिं पवेइयं / (सू० 162) यत्र क्वचित्स्वसमयपरसमयज्ञाऽऽचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूमयसिद्धदृष्टान्तसम्यग्हेत्वभावाञ्चज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावेयत्, यथा - तदेवैकं सत्यम्-अवितथम, निःशङ्कमिति-अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वती न्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात्, एष वा इत्येवमाकारा संशीतिःशङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्कम्, यत्किमपि धम्माधाकाशपुद्गलादिप्रवेदितम् , कैः ?-जिनैः-तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति / किं यतेरपि विचिकित्सा स्याद्येनेदमभिधीयते? संसारान्तर्वर्तिनो मोहोदयात्तत्किं ? यन्न स्यादिति, तथा चागमः"अत्थिणं भंते ! समणा वि निगंथा कंखामोहणिज्ज कम्मवेदेति!, हंता अत्थि, कहनं समणा वि णिग्गंथा कंखामोहणिज्जं कम्मवेयंति!, गोयमा ! तेसु तेसु नाणन्तरेसु चरितंतरेसु संकिया कंखिया विइगिच्छासमावन्ना भेयसमावन्ना कलुससमावन्ना, एवं खलु गोयमा ! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति, तत्थालंबणं तमेव सच्चं णीसकं जंजिणेहिं पवेइयं,' से पूर्ण भंते! एवं मणं धारेमाणे आणाए आराहए भवति ? हंता गोयमा ! एवं मणं धारेमाणे आणाए आराहए भवति'' किं चान्यत् ?." वीतरागा हि सर्वज्ञा, मिथ्या न बुवते क्वचित् / यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् // 1 // " इत्यादि। सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह - सडिस्स णं समणुनस्स संपव्वयमाणस्स समियं तिमन्नमाणस्स एगया समिया होइ 1, समियं ति मन्नमाणस्स एगया असमिया होइ २,(सू०१६३+) श्रद्धा-धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य समनुज्ञस्यसंविनविहारिभिर्भावितस्य संविनादिभिर्वा गुणैः प्रव्रज्याहस्य संप्रव्रजतःसम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्साशङ्का भवेत्, तत्रैतस्य सम्यम्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्टव्यम् , यथा-तदेव सत्यं निःशङ्क यजिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव सत्यं निःशङ्कं यजिनैः प्रवेदितमित्येवं यथोपदेशं प्रवर्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्न्यूनता तदभावो वा स्यादित्येवंरूपां विचित्रपरिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुझस्य संप्रव्रजतस्तदेव सत्यं निःशः यज्जिनः प्रवेदितमित्येतत्सम्यगित्येव मन्यमान एकदा-इति उत्तरकालमपि शङ्काकाङ्क्षाविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शङ्काद्युत्पद्यत इति 1 / कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुतरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमतेः 'एकदे' ति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि-असौसर्वनयसमूहाभिप्रायतया अनन्तधर्माध्यासितवस्तु-प्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथ नित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात् , तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यत्प्रतिक्षणविशरारुरूप मनित्यमित्येवमादिकमसम्यग्भावमुपयाति, न पुनर्विवेचयति,