________________ लोगसार 745 - अभिधानराजेन्द्रः - भाग 6 लोगसार य एव तीर्थकृद्भिर्द्धर्मोऽभिहितः स एव मोक्षमार्गो नाऽपर इत्येत-देवाहयथाऽत्र मया सन्धिोषितः एवमन्यत्र अन्यतीर्थिकप्रणीते मोक्षमार्गे / सन्धिः कर्मसन्ततिरूपः दुयॊष्यो भवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावात्, यदि नाम भगवताऽत्र कर्मस-न्धिझोषितस्ततः किमित्याह-यस्मादस्मिन्नेव मार्ग व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कम्मं क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य नो निहन्यात् नो निगृहयेद् अनिगूहितबलवीर्यों भूयाद् एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयपरहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याहः सुधर्मस्वामी स्वशिष्याणां कथयति स्म। (आचा०) (अगेतनसूत्राणि' धम्म' शब्दे चतुर्थ-भागे 2673 पृष्ठे गतानि।) सदाऽऽचार्यसेविना भवितव्यम्, आचार्येण च हृदोपमेन भव्यम्, तदन्तेवासिना च तपःसमयगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - से बेमि, तं जहा- अविहरए पडिपुण्णे समंसि भोमे चिट्ठ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति त्ति बेमि। (सू०१६०) 'से' शब्दस्तच्छब्दार्थे, यद्गुण आचार्यो भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भङ्गसमुच्चयार्थः, ते चामी भङ्गाः एको हृदोजलाशयः परिगलत्स्रोताः पर्यागलस्रोताश्च, सीतासीतोदाप्रवाहहदवत्, अपरस्तुपरिगलत्स्रोताः / नो पर्यागलस्रोताः, पद्महदवत्, तथा अपरो नो परिगलस्रोताः पर्यागलत्स्रोताश्च, लवणोदधिवत्, अपरस्तु नो परिगलत्स्रोता नो पर्यागलस्रोताश्च, मनुष्यलोकादहिः समुद्रवत्। तत्राऽऽचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात्, साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायो- | त्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः | आलोचनाया अप्रतिश्रावित्वात् कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा-धर्मिभेदेन भङ्गा योज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत्, तृतीयभङ्गस्थस्त्वहालन्दिकः, स च क्वचिदर्थापरिसमाप्तावाचायादेनिर्णयसद्भावात् , प्रत्येकबुद्धास्तूमयाभावाचतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः, तथा-भूतस्यैवायं ह्रददृष्टान्तः, स च हृदो निर्मलजलस्य प्रतिपूर्णो जलजैः सर्वतुजैरुपशोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम् - अपगतं राजः कालुष्यापादकंयस्य सतथा, नानाविधांश्चयादसांगणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन् प्रतिपालयन् सारक्षन तिष्ठतीत्येषा क्रिया प्रकृतेव / यथा चासौ हृदस्तथाऽऽचार्योऽपीति दर्शयतिसः-आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुयेतः, तद्यथा-" आ-यार सुअसरीरे, वयणेवायणंमईपओगमई। एएसुसंपया खलु, अट्ठमिआसङ्गहपरिन्ना // 1 // " षट्त्रिंशदगुणगणाधारो हृदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः, उपशान्तरजाः उपशान्तमोहनीय इति, किं कुर्वन् ? जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाता।ति,' स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह-तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम् , सच किंम्भूतः स्यादित्याह-सः-आचार्योऽक्षोभ्यह्रदकल्पः, सर्वतःसर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽष्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराहइहमनुष्यलोके पूर्वव्यावर्णितस्वरूपाः महर्षयो-महामुनयः सन्ति इत्येतत्पश्य, किंभूतास्तेमहर्षय इत्यत आह न केवलमाचार्या हृदकल्पा ये चान्ये साधवस्तेऽपि हृदकल्पाः, किम्भूताः? प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानम्- स्वपरावभासकत्वादागमस्तद्वन्तः-प्रज्ञानवन्तः आगमस्य वेत्तार इत्यर्थः, तज्ज्ञाअपि मोहोदयात्वचिद्धेतूदोहरणासम्भवे शेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि, प्रबुद्धाःप्रकर्षेण यथैव तीर्थकृदाह तथवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्यान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-आरम्भोपरताः आरम्भः-सावधो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपितु स्वत एव कुशाग्रीयया बुद्ध्या विचार्यमित्याहएतद्यन्भया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत। अपि चैतत्पश्यतकालः-समाधिमरणकालस्तदभिकाङ्क्षया साधवो मोक्षाध्वनिसंयमे परिः समन्ताद् व्रजन्ति परिव्रजन्ति-उपगच्छन्ति, इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति। आचार्याधिकारंपरिसमापय्य विनेयवक्तव्यतामाह - वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अणुगच्छंति, असिता देगे अणुगच्छंति, अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविजे ? (सू०१६१) विचिकित्सा या चित्तविप्लुतिः यथा-इदमप्यस्तीत्येवमाकारा, युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि-अस्य महतस्तपः-क्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति ? कृषीबलादिक्रियाया उभयाथाऽपयुपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च / तथाहि-अर्थस्विविधः सुखाधिगमो, दुरधिगमोऽनधिगमश्च, श्रोतारं प्र