________________ मग्गणट्ठाण 53 - अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण कव्यापकत्वादयाताऽदीनामिति / / 16 / / पजसन्नी केवलदुगे, संजमणनाणदेसमणमीसे। पण चरम पज वयणे, तिय छ व पञ्जियर चक्खुम्मि / / 17 / / (पजसन्नि त्ति) पर्याप्तसंजिलक्षणमेव जीवस्थानं भवति। क्वेत्याहकेवलद्विके केवलज्ञानकेवलदर्शनलक्षणे, संयमेषु सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्परायय-थाख्यातरूपपञ्चप्रकारसंयमवत्सु (मणनाण ति) मनः पर्यायज्ञाने, (देस त्ति) देशयते देशविरते, श्रावके इत्यर्थः, (मणत्ति) मनोयोगे (मीस त्ति) मिश्रे सम्यमिथ्यादृष्टौ / तत्र केवलद्विके संयमेषु मनः पर्यायज्ञाने, देशविरते च संज्ञिपर्याप्तलक्षणं जीवस्थानक बिना नान्यजीवस्थानक संभवति, तत्र सर्वविरतिदेशविरत्योरभावात् / मनोयोगेऽप्येतदन्तरेणान्यजीवस्थानकं न घटते, तत्र मनःसद्भावाश्योगात्। मिश्रे पुनः पर्याप्तसंज्ञिव्यतिरेकेण शेष जीवस्थानक तथाविधपरिणामाभावादेव न सम्भवतीति / तथा पञ्च जीवस्थानानि चरम्पाण्यन्तिमानि पर्याप्तानि पर्याप्तद्वीन्द्रियपर्यापत-श्रीन्द्रियपर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रि-यलक्षणानि (वयणे त्ति) वचनयोगे वाग्यागे भवन्ति, न शेषाणि, तेषु वाग्योगासम्भवात्। (तिय एव पजियर चक्खुम्मि त्ति) चक्षुर्दर्शने त्रीणि जीवस्थायानि पर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियरूपाणि, नान्यानि, तेषु चक्षुष एवाभावात्। अत्रैव मतान्तरेण विकल्पमाह-षट्वा जीवस्थानानि चक्षुर्दर्शने भवन्ति / कथमित्याह-(पज्जियर त्ति) पूर्वप्रदर्शितपर्याप्तत्रिक सेतरमपर्याप्तसहित षड्भवन्ति / इदमुक्तं भवति-अपर्याप्तपर्याप्तचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसज्ञिपञ्चेन्द्रियरूपाणि षट् जीवस्थानानि चतुर्दर्शने भवन्ति, चतुरिन्द्रियाऽऽदीनामिन्द्रियपर्याप्त्या पर्याप्तानां शेषपर्याप्त्यपेक्षया अपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् / यदुक्त पश्चरांग्रहमूलटीकायाम्- "करणपर्याप्तषु चतुरिन्द्रियाऽऽदिषु इन्द्रियपयतिौ सत्यां चक्षुर्दर्शनं भवति।" इति // 17 // थीनरपणिंदि चरमा, चउ अणहारे दु सन्नि छ अपज्जा। ते सुहुम अपज विणा, सासणि इत्तो गुणे वुच्छं / / 18 / / स्त्रीयेदे नरवेदे पञ्चेन्द्रिये च चरमाण्यन्तिमानि पर्याप्ताऽपर्याप्तासंज्ञिसंझिपश्चेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति / यद्यपि च सिद्धान्ते असंज्ञिपर्याप्तोऽपर्याप्ती वा सर्वथा नपुंसक एवोक्तः। तथा चोक्त श्रीभगवत्या-''तेणं भंते ! असन्निपंचेन्दियतिरिक्खजोणिया कि इत्थिवेयगा, पुरिसवेयगा, नपुंसगवेयगा ? गोयमा ! नो इत्थिवेयगा, नोपुरिसवेगगा, नपुंसगवेयग त्ति।" तथाऽपीह स्त्रीपुंसलिङ्गाऽऽकारमात्रमङ्गीकृत्य स्त्रीवेदे नरवेदे चासंज्ञी निर्दिष्ट इत्यदोषः। उकं च पञ्चसंग्रहमूलटीकायाम- ''यद्यपि चासंज्ञिपर्याप्तापर्याप्ती नपुंसकौ तथापि स्त्रीपुंसलिङ्गाऽऽकारमात्रमङ्गीकृत्य स्त्रीपुंसावुक्ताविति।" अपर्याप्तकश्चेह करणापर्याप्तको गृह्यते, न लब्ध्यपर्याप्तकः, लब्ध्यपर्याप्त कस्य सर्वस्य नपुंसकत्वात् / अनाहारके-"दुसन्नि छ अपज्ज ति।" द्विविधः संज्ञी पर्याप्तापर्याप्तलक्षणः, षट् अपर्याप्ताश्चैत्यष्ठौ जीवस्थानानि भवन्ति / अयमर्थः-अपर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपवेन्द्रिय - लक्षणानि सप्त जीवस्थानानि, अनाहारके विग्रहगतावक द्वीत्री-वा समयान्यावदाहारासम्भवात् संभवन्ति "विग्गहगइमावन्ना यानालगा समुहया अजोगी / सिद्धाय अणाहारा, सेसा आहारगा जीवा।।१।।'' इतिवचनात्। संज्ञिपर्याप्तलक्षणं जीवस्थानकमनाहरके केवलिसमुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु लभ्यते। उक्तं च-"कार्मणशरीरयोगी, तृतीयके पञ्चमे चतुर्थे च / समयत्रये च तस्मिन्, भवत्यमाहाराको नियमात्॥१॥" (ते सुहमअपज विणासासणि त्ति) सास्वादने सम्यक्त्वे तान्येव पूर्वोक्तानि षट् अपर्याप्तपर्याप्तसंज्ञिद्विकलक्षणान्यष्टौ जीवस्था.. नानि सूक्ष्मापर्याप्तं विना सप्त भवन्ति। एतदुक्तं भवति अपर्याप्तबादरेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रियपर्यातापर्याप्तलक्षणानि सप्त जीवस्थानकानि सास्वादने सम्यक्त्वे भवन्तीति। यत्तु सूक्ष्मैकेन्द्रियापर्याप्तलक्षणं जीवस्थानं तत् सास्वादने सम्यक्त्वे न घटामियति / सास्वादनसम्यक्त्वस्य मनाक् शुभपरिणामरूपत्वात् / महासक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानात। सूत्रे च सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचार्यपि। यदाह पाणिनिः स्वप्राकृतलक्षणे- "लिङ्ग व्यभिचार्यपीते।" उहानि मार्गणास्थानकेषु जीवस्थानकानि / कर्म०४ कर्म०। गुणस्थानकानि 'गुणट्ठाण' शब्दे तृतीयभागे 624 पृष्ठे गतानि।) अधुना मार्गणास्थानेष्वेव योगानभिधित्सुः प्रथम विधागानेव स्वरूपत आहसचेयर मीस अस-चमोस मण वइ विउव्वियाऽहारा। उरलं मीसा कम्मण, इय जोगा कम्भमणहारे // 24|| कर्म०४ कम० / (योगव्याख्या 'जोग' शब्दे चतुर्थभाग 16.5 पृष्ठ गता) साम्प्रतमेतामेव मार्गणास्थानेषु निरूपयन्नाह (काममाहात) व्यवच्छेदफलं हि वाक्यमतोऽवश्यमवधारयितव्यम् / तचावधारणमिहैवम् - कार्मणमेवैकमनाहारके न शेषयोगा असम्भवादिति / न पुनरेव कामणमनाहारकेष्वेवेति, आहारकेष्वपि उत्पत्तिप्रथमसमये कार्मणयोगसम्भवात् / "जोएणं कम्मएणं, आहारेई अणंतर जीवो।" इति परममुनिवचनप्रामाण्यात् / नापि कार्मणमनाहारकेषु भवत्येवेत्यवधारणमाधेयम्, अयोगिकेवल्यवस्थायामनाहारकस्याऽपि कार्मणकाययोगाभावात् "गयजोगो उ अजोगी" इति वचनात् / एवमन्यत्रापि यथासम्भवमवधारणविधिरनुसरणीय इति / / 24 / / नरगइ पणिंदि तस तणु, अचक्खु नर नपु कसाय सम्मदुगे। सन्नि छलेसाहारग, भव मइसुओहिदुगे सवे // 25 // नरगतौ मनुष्यगतौ, पञ्चेन्द्रिये, से त्रसकाये, तनुयोगे, अचक्षुर्दर्शने, नरेनरवेदे पुंवेद इत्यर्थः, (नपुत्ति) नपुंसकवेदे कषायेषु क्रोधमानमायालोभेषु, सम्यक्त्वाद्विके क्षायोपशमिकक्षायिकलक्षणे, सज्ञिनि मनोविज्ञानभाजि, षट्स्वपिलेश्यासु, आहारकेभव्ये, मतौ मतिज्ञाने, श्रुते श्रुतज्ञाने,