________________ मग्गणट्ठाण 52 - अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण सासणो कुणई। उवसमसम्मदिट्ठी, चउण्हमिक्क पि नो कुणइ // 1 // " उपशमश्रेणेम॒त्वाऽनुत्तरसुरेषूत्पन्नस्यापर्याप्तकस्यैतल्लभ्यत इति चेन्नन्चेतदपि न बहु मन्यामहे, तस्य प्रथमसमय एव सम्यक्त्वपुद्गलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम्। उक्तं च शतकवृहचूर्णी "जो उवसमसम्मदिट्ठी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलियाए छोदूण सम्मत्तपुग्गले वेएइ, तेण न उवसमसम्मट्ठिी अपज्जत्तगो लब्भइ।" इत्यादि। तस्मात्पर्याप्तसंज्ञिलक्षणमेकमेव जीवस्थानकमत्र प्राप्यते इति स्थितम्।अपरे पुनराहुः-"भवत्येवापर्याप्तावस्थायामप्यौपशमिकं सम्यक्त्वं, सप्ततिचूादिषु तथाऽभिधानात्। सप्ततिचूर्णी हि गुणस्थानकेषु नामकर्मणी बन्धोदयाऽऽदिमार्गणाऽवसरे अविरतसम्यग्दृष्टरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनरकानधिकृत्योक्तः, तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयो, देवास्तु त्रिविधसम्यग्दृष्टयोऽपि / तथा च तद्ग्रन्थःपणवीसमतवीसोदया देवनेरइए पडुच नेरइगो"खयगवेयगसम्मदिट्ठी, देवो तिविहसम्मदिट्ठी वि // 1 // " पञ्चविंशत्युदयश्च शरीरपर्याप्ति निर्वर्तयतः। तथाहि-निर्माणस्थिरास्थिरगुरुलघुशुभाशुभतैजसकार्मणवर्णगन्धरसस्पर्शकचतुष्कदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातित्रसबादरपर्याप्तकं सुभगदुर्भगयोरेकतरमादेयानादेययोरेकतरं यशः कीर्त्ययशकीोरेकतरमित्येकविंशतिः, ततः शरीरपर्याप्तया पर्याप्तस्य शेषपर्याप्तिभिरपर्याप्तस्य वैक्रियद्विकोपघातप्रत्येकसमचतुरसलक्षणप्रकृतिपञ्चकक्षेपे देवाऽनुपूर्व्यपनयने च पञ्चविंशतिर्भवति। ततः शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे सप्तविंशतिर्भवति। ततोऽपर्याप्तावस्थायामपीह देवस्यौपशमिकं सम्यक्त्वमुक्तम्।तथापञ्चसंग्रहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे "उवसमसमम्मि दो सन्नी' इत्यनेन ग्रन्थेन साझातिकमुक्तम्।ततः सप्ततिचूण्यभिप्रायेण पञ्चसंग्रहाभिप्रायेण चास्माभिरपि औपशमिकसम्यक्त्वे संज्ञिद्विकमुक्तं, तत्त्वं तु केवलिनो विशिष्टबहुश्रुता वा विदन्तीति॥१४॥ तमसनिअपज्जजुयं, नरे सवायर अपज्ज तेऊए। थावर इगिदि पढमा, चउ बार असनि दुदु विगले ||1|| तत्पूर्वोक्तं संज्ञिद्विकमपर्याप्ताऽसंज्ञियुतं नरे-नरेषु लभ्यतेजातावेकवचनम्। अयमर्थः-इय द्वये मनुष्याः-गर्भव्युत्कान्तिका, सम्मूर्छिमाश्च / तत्र ये गर्भव्युत्क्रान्तिकास्तेषु यथोक्तं संज्ञिद्विकं लभ्यते ये : समुद्देसुपन्नस्ससुकम्मभूमीसुतीसाएअकम्मभूमीसुछप्पन्नाए अंतरदीवेसु गटभवक्वंतियमणुस्साणं चेव उचारेसुवापासवणेसुवा खेलेसुवा सिंघाणेसु वा यंतेसुवा पित्तेसुवासुक्केसु वा सोणिएसुवा सुक्कपुग्गलपरिसाडे सुवा विगयजीवकलेवरेसुका थीपुरिससंजोगसु वा नगरनिद्धमणेसुवा सव्वेसु चेव असुइट्ठाणेसु इत्थ णं समुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखभागमित्ताए ओगाहणाए असन्नी मिच्छट्ठिी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्ता अंतोमुहत्तउया चेव कालं करंति त्ति।" तान् सम्मूछिममनुष्यानाश्रित्य तृतीयमप्यसंज्ञयपर्याप्तलक्षणं जीवस्थान प्राप्यत इति / "सवायरअपज्जत्ताउए'' इति तदेवेत्यनुवर्तते, तदेव पूर्वोक्तं संज्ञिद्विकं सह बादरापर्याप्तन वर्तत इति सबादरापर्याप्त तेजोलेश्यायां लभ्यते। एतदुक्तं भवति-तेजोलेश्ययां त्रीणि जीवस्थानकानि भवन्ति, संज्ञयपर्याप्तः, संज्ञिपर्याप्तः, यादरैकेन्द्रियपर्याप्तश्च / बादरोऽपर्याप्तः कथमवाप्यत इति चेत् ? उच्यते-इह भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाः पृथिवीजलवनस्पतिषुमध्ये उत्पद्यन्ते। यदाह दुःषमान्धकारनिमग्रजिनप्रवचनप्रदीपो भगवान् जिनभद्रगणिक्षमाश्रमणः - "पुढवीआउवणस्सइ-गब्भे पज्जत्त संखजीवेसु। सग्गचुयाण वासो, सेसा पडिसेहिया ठाणा / / 1 / / " तेच तेजोलेश्यावन्तः, यदभाणि"किण्हा नीला काऊ, तेऊ लेसा य भवणवंतरिया। जोइससोहम्मीसा-ण तेउलेसा मुणेयव्वा // 1 // " यल्लेश्यश्च म्रियते तल्लेश्य एव अग्रेऽपि समुत्पद्यते। "यल्लेसे मरइ तल्लेसे उववज्जइ'' इति वचनात्। अतो बादरापर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यत इति सिद्धं जीवस्थानकत्रयं, तेजोलेश्यायामिति कायद्वारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिलक्षणेषुः इन्द्रियद्वारे एकेन्द्रिये च प्रथमानि चत्वारि जीवस्थानानि सूक्ष्मैकेन्द्रियापर्याप्तसूक्ष्मैकेन्द्रिय-पर्याप्तबादरैकेन्द्रियाऽपप्तिबादरैकेन्द्रियपर्याप्तलक्षणानि भवन्ति / असंज्ञिनि संज्ञिव्यतिरिक्त कोलिकनलिकन्यायेन प्रथमशब्दस्य सम्बन्धात्प्रथमानि आदिमानि द्वादश जीवस्थानानि पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियलक्षणानि भवन्ति। सर्वेषामपि विशिष्टमनोविकलतया संज्ञिप्रतिपक्षत्वाविशेषात्, संज्ञिप्रतिपक्षस्य चाऽसंज्ञित्वेन व्यवहारात्। 'दुदु विगल त्ति विकलेषु दीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु द्वे द्वे जीवनस्थानके भवतः। तत्र द्वीन्द्रियेषु दीन्द्रियोऽपर्याप्तः इति द्वे, त्रीन्द्रियेषु त्रीन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे, चतुरिन्द्रियेषु चतुरिन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे // 15 // दस चरम तसे अजया-हारगतिरितणुकसायअनाणे। तथा आहारके (तिरित्ति) तिर्यगतौ, तनुयोगे काययोगे कषायचतुष्टये, द्वयोरज्ञानयोर्मत्यज्ञानश्रुताज्ञानरूपयोः प्रथमत्रिलेश्यासु कृष्णनीललेश्याकापोतलेश्यालक्षणासु, भव्ये, इतरस्मिन् अभव्ये, (अचक्खु त्ति) अचक्षुर्दर्शने (नपु त्ति) नपुंसकवेदे (मिच्छ ति) मिथ्यात्वे सर्वाण्यपि चतुर्दशापि जीवस्थनकानि भवन्ति, सर्वजीवस्थान ....... ' 55 (मच्छ त्ति) मिथ्यात्वे ....... ... . innागसुवा नगरानद्धमणेसुवा सव्वेसु | सर्वाण्यपि चतुर्दशापि जीवस्थनकानि भवन्ति, सर्वजीवस्थान