________________ मग्गणट्ठाण 51 - अभिधानराजेन्द्रः - भाग 6 मग्गणट्ठाण योगः सत्यासत्यमनोयोगः, असत्यामृषामनोयोगः, सत्यवाग्यो गः, असत्यवाग्योगः, सत्यासत्यवाग्योगः, असत्यामृषावाग्योगः, वैक्रियकाययोगः, आहारककाययोगः, औदारिककाययोगः, वैक्रियमिश्रकाययोगः, आहारकमिश्रकाययोगः, औदारिकमिश्रकाययोगः, कार्मणकाययोग इति / वेदस्त्रिधा-स्त्रीवेदः पुरुषवेदो, नपुंसकवेदश्च / कषायाः क्रोधमानमायालोभाः ज्ञानं पञ्चधा-मतिज्ञानं, श्रुतज्ञान-मवधिज्ञान, मनः पर्यायज्ञानं, केवलज्ञानं च। ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तच त्रिविधम्- मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति। ज्ञानमार्गणास्थानमष्टधा। संयमश्चारित्रं तत्पञ्चधा-सामायिकं छेदोपस्थापनं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं च संयमग्रहणेन च तत्प्रतिपक्षभूतो देशसंयमोऽसंयमश्च सूच्यत इति संयमः सप्तधा। दर्शनं चतुर्विधम् चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च। लेश्या षोढाकृष्णलेश्या नीललेश्या कापोतलेश्या तेजालेश्या पद्मलेश्या शुक्ललेश्या। भव्यः तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यो, भव्यग्रहणेन च तत्प्रतिपक्षभूतोऽभव्योऽपि गृह्यते। सम्यक्त्वं त्रिधा-क्षायोपशमिकभौपशमिकं क्षायिकं च, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतं मिथ्यात्वं सासादनं मिश्रंच परिगृह्यते। संज्ञी विशिष्टस्मरणाऽऽदिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियाऽऽदिरसंज्ञी, सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः / आहारयति ओजोलोमप्रक्षेपाऽऽहाराणामन्यतममाहारमित्याहारकः / ननुज्ञानाऽऽदिषु किमर्थमज्ञानाऽऽदिप्रतिपक्षग्रहणं कृतम् ? उच्यते-चतुर्दशस्वपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसङ्ग्रहार्थमिति। कर्म०३ कर्म०। उत्तरभेदानाह - सुरनरतिरिनिरयगई,इगवियतियचउपणिंदिछकाया। भूजलजलणानिलवण-तसा य मणवयणतणुजोगा / / 10 / / इह गतिशब्दः प्रत्येकं संबध्यते। ततःसुरगतिः, नरगतिः, तिर्थग्गतिः, / नरकगतिः। (कर्म०) इहापीन्द्रियशब्दस्य प्रत्येकं संबन्धात् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया इति / षट्कायाः-भूः पृथ्वी, जलमापः,ज्यलनं-तेजः, अनिलो वायुः(वण त्ति) वनस्पतिः, त्रसाद्वीन्द्रियाऽऽदयः, ततः प्रत्येकं कायशब्दस्य योगात् पृथिव्येव कायः शरीरं यस्य सः पृथ्वीकायः, एवमप्कायः, तेजस्कायः, वायुकायः वनस्पतिकायः, सकाय इति। चः समुचये। योगशब्दस्य प्रत्येकं सम्बन्धात् त्रयो योगाः। तथाहि-मनोयोगः, वचनयोगः तनुयोगः / कर्म०४ कर्म०। वेयनरित्थिनपुंसा, कसाय कोहमयमायलोभ त्ति। मइसुयवहिमणकेवल-विहंगमइसुअनाणसागारा||११|| वेदशबदस्य प्रत्येकं सम्बन्धात् त्रयो वेदाः, नरवेदः, स्त्रीवेदः, नपुंसक वेदः / (कर्म०) मानकषायः, मायाकषायः, लोभकषायः, इति शब्दः कषायाणामनन्तानुबन्ध्यादिबहुभेदसूचनार्थः, सूत्रे च "मायालोभत्ति" ह्रस्वत्वं प्राकृतत्वात् "मइसुयवहीत्यादि'' इहावधीत्यत्र अकारलोपात् ज्ञानशब्दस्य च प्रत्येकंसंबन्धात् एवं प्रयोगः-मतिज्ञानं, श्रुताज्ञानम्, अवधिज्ञानं, मनः पर्यवज्ञानं, केवलज्ञानं, तथा विभङ्गमत्यज्ञान, श्रुतऽज्ञानानि एतानि पञ्च ज्ञानानि त्रीण्यज्ञानानि साकाराणि वर्तन्त इति वाक्यार्थः / कर्म०४ कर्म०। (सन्नि त्ति) विशिष्टस्मरणाऽऽदिरूपमनोविज्ञानभाक् संज्ञी, इतरोऽसंज्ञी सर्वोऽप्येकेन्द्रियाऽऽदिः // 13 // आहारेयर भेया, सुरनरयविमंगमइसुओहिदुगे। सम्मत्ततिगे पम्हा-सुक्कासन्नीसु सन्निदुर्ग ||14|| ओजो लोमप्रक्षेपाऽऽहाराणामन्यतममाहारमाहारयतीत्याहारकः, इतरोऽनाहारको विग्रहगत्यादिगतः। (भेय त्ति) चतुर्दशमौलमार्गणास्थानानामिमेवाऽन्तराश्चतुराऽऽदिसंख्या भेदा भवन्तीति शेषः, सर्वेऽपि द्विषष्टिभेदाः / तथाहि-गतिश्चतुद्धो, इन्द्रियं पञ्चधा, कायः षोढा, योगस्त्रिधा, वेदस्त्रिधा, कषायश्चतुर्द्धा, ज्ञानपञ्चकमज्ञानत्रिकमिति, ज्ञानमष्टधा, संयमपञ्चकं देशसंयमासंयमसहितं सप्तधा, दर्शनं चतुर्दा, लेश्या षोढा, भव्योऽभव्यश्चेति भव्यमार्गणास्थानं द्विधा, सम्यक्त्वत्रयमिथ्यात्वमिश्रसासादनभेदात्सम्यक्त्वमार्गणास्थानं षोढा, संज्ञिमार्गणास्थानं सप्रतिपक्ष द्वेधा, आहारकमार्गणास्थानं सप्रतिपक्ष द्वेधा, सर्वेऽप्येते एकत्र मील्यन्तेतत उत्तभेदाः द्वाषष्टिरिति। अत्र गाथा-"चउ 1 पण २छ 3 तिय 4 तिय 5 चउ 6, अड७ सग८ चउछच 10 दु ११छग 12 दो 13 दुन्नि 14 / गइयाइमग्गणाणं, इय उत्तरभेय वासट्ठी॥१॥" इत्येवमुक्ता गत्यादिमार्गणास्थानानामवान्तरभेदाः / कर्म० 4 कर्म० / पं० सं० / दर्श० / प्रव० / साम्प्रतमेतेष्वेव जीवस्थानानि चिन्तयन्नाह-''सुरनरयविभंग'' इत्यादि, सुरगतौ नरकगतौ च संज्ञिद्विकं पर्याप्तापर्याप्तलक्षणं भवति / अपर्याप्तश्चेह करणापर्याप्तो गृह्यते, न लब्ध्यपर्याप्तः, तस्य देवनरकगत्योरुत्पादाभावात् / तथा विभङ्गज्ञाने, मतौ मतिज्ञाने, श्रुते श्रुतज्ञाने, (ओहिंदुगि त्ति) अवधिद्विके-अवधिज्ञानाऽवधिदर्शनलक्षणे, सम्यक्त्वत्रिके क्षायोपशमिकक्षायिकापशमिकलक्षणे, पद्मलेश्यायां, शुक्ललेश्यायां, संज्ञिनि च, संज्ञिद्विकमपर्याप्तपर्याप्तलक्षणं भवति, न शेषाणि जीवस्थानानि तेषु मिथ्यात्वाऽऽदिकारणतो मतिज्ञानाऽऽदीनामसम्भवात्। अत एव च हेतोरिहापर्याप्तकः करणापर्याप्तको गृह्यते,न लब्ध्यपर्याप्तकः, तस्य मिथ्यादृष्टित्वादशुभलेश्याकत्वाचेति / आहक्षायिकक्षायोपशमिकौपशमिकेषु कथं संज्ञी अपर्याप्तको लभ्यते? उच्यते इह यः कश्चित्पूर्वबद्धाऽऽयुष्कः क्षपक श्रेणिमारभ्यानन्तानुबन्ध्यादिसप्तकक्षयं कृत्वा क्षायिकसम्यक्त्वमुत्पाद्य गतिचतुष्ट यस्थान्यतरस्या गतावुत्पद्यते तदा सोऽपर्याप्तः क्षायिकसम्यक्त्वे प्राप्यते, क्षायोपशमिकसम्यक्त्वयुक्तश्च देवाऽऽदिभवेभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकराऽऽदिरपर्याप्तकः सुप्रतीत एव। औपशमिकसम्यक्त्वं पुनरपर्याप्तावस्थायामनुत्तरसुरस्य द्रष्टव्यम्। इहौपशमिकसम्यक्त्वमपर्याप्तस्य केचिन्नेच्छन्ति, तथा च ते प्राऽऽहुः "न तावदस्यामेवापर्याप्तावस्थायामिदं सम्यक्त्वमुपजायते, तदानीं तस्य तथाविधविशुद्धयभावात् / अर्थततदानीं मोत्पादि, यत्तु पारभविकं तद् भवतु, केन विनिवार्यत इति मन्येथाः, तदपि न युक्तियुक्तमुत्पश्यामः, यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवाप्नोति स तावत्तद्भावमापन्नः सन् कालं न करोत्येव / यदुक्तमागमे - "अणुबंधोदयमाउगबंधं कालं च