________________ लोगसार 743 - अभिधानराजेन्द्रः - भाग 6 लोगसार शरीरयापनार्थ वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा आरम्भजीवीसावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग्भवति। आस्तां तावद् गृहस्थः तीर्थको वा, योऽपि संसारार्णवतटदेशमधाप्य सम्यक्त्वरत्नं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कर्मोदयात् सोऽपि सावधानुठायी स्यादित्याह- 'एत्थ वि बाले' इत्यादि अत्र-अस्मिन्नप्यहत्रप्रणीतसंयमाभ्युपगमे बालोरागद्वेषाकुलितः परितप्यमानः परिपच्यमानो वा विषयपिपासया रमते कैः?-पापैः कर्मभिः, विषयार्थं सावधानुष्ठानेधृति विधत्ते, किं कुर्वाण इत्याह- 'असरण' मित्यादि, कामाग्निना पापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपा | वेदना अनुभवेदिति। आस्तांतावदन्ये प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासास्तिांस्तान् कल्काचारानाचरन्तीति दर्शयितुमाह- 'इहमेगेसि मित्यादि, आचा०। (सूत्रम् 'एगचरिया' शब्दे तृतीयभागे 7 पृष्ठे गतम्।) (अत्रस्था चारवक्तव्यतानियुक्तिः 'चार' शब्दे तृतीयभागे 1172 पृष्ठे गता।) एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच न मुनिरित्युक्तम् , इह तु तद्विपर्ययेण यथा मुनिभावा स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरएतं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी एस मग्गे आरिएहिं पवेइए, उठ्ठिए नो पमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढो छंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुनए। (सू०१४६) यावन्तः-केवल लोक-मनुष्यलोके अनारम्भजीविनः-आरम्भःसावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च-"आदाणे निक्खेवे, भासुस्सग्गे अठाणगमणाई। सव्वो पमत्तजोगो,समणस्स वि होइ आरम्भो।। 1 // " तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलं येषामित्यनारम्भजीविनोयतयः समस्तारम्भनिवृत्ताः तेष्वेवगृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वानारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति / यद्येवं ततः किमित्याह-अत्र-अस्मिन् सावद्यारम्भे कर्तव्ये-उपरतः सङ्कुचितगात्रो, वाऽऽर्हते धर्मे व्यवस्थितपापारम्भात्, किं कुर्यात् सः?-तत्-सावद्यानुष्ठानायातकर्म झोषयन्क्षपयन मुनिभावं भजत इति / किमभिसन्धायात्रोपरतः स्यादित्याह'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवः, यथा पश्य मृगो धावति, एवमात्रप्यद्राक्षीदित्येतत्क्रियायोगेऽप्ययं सन्धिरिति प्रथमा कृतेति, 'अय' मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः-अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः, शुभाध्यव सायसन्धानभूतोवा सन्धिरित्येवं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात्। कश्च न प्रमत्तः स्यादित्याह- 'जे इमस्स' य-इति उपलब्धतस्वः अस्यअध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्ट बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य अयम् - वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति / स्वमनीषिकापरिहारार्थमाह- 'एस मग्गे' इत्यादि, एषःअनन्तरोक्तो मार्गोमोक्षपथः आर्यैः-सर्वहेयधारातीयतीरवर्तिभिस्तीर्थकरगणधरैः प्रकर्षणादौ वा वेदितः-कथितःप्रवेदित इति। न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति, तदाह- 'उट्ठिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्मचरणाय क्षणमप्येकं न प्रमादयेत् किं चापरमधिगम्येत्याह- 'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःख तदुपादानं वा कर्म तथा प्रत्येकं सातंच-मन आह्लादिज्ञात्वा समुत्थितोन प्रमादयेत् न केवलं दुःखं कर्मवा प्रत्येकम् , तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- 'पुढो' इत्यादि, पृथभिन्नः छन्दः-अभिप्रायो येषां ते पृथक्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे ति संसारे संझिलोकेवा केते?-मानवाः-मनुष्याः, उपलक्षणार्थत्वादन्येऽपि संज्ञिनां पृथक्संकल्पत्याच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति। कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह- 'पुढो इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवोदतम्, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति, एतन्मत्वा किं कुर्यादित्याह- 'से' इत्यादि, सःअनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथा-अनपवदन्-अन्यथैवव्यवस्थितंवस्त्वन्यथावदन्नपवदन्नापवदन अनपवदन, मृषावादमब्रुवन्नित्यर्थः, पश्य चत्वं तस्यापि प्राकृतत्वादार्षत्वादालोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम्। एतद्विधायी च किमपरं कुर्यादित्याह- 'पुट्ठो' इत्यादि, स पञ्चमहाव्रतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान्-तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिसिः प्रेरयेत, तत्प्रेरणं च सम्यक् सहनम्, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदिति यावत्। यो हि सम्यक्करणतया परीषहान्सहेत स किंगुणः स्यादित्याह - एस समिया परियाए वियाहिए, जे असत्तापावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति। (सू० 147+) एषः-अनन्तरोक्तो यः परीषहाणां प्रणोदकः, 'समिया 'सम्यक् शमिता वा, शमोऽस्यास्तीति शमी तद्भावः शमिता, पर्यायः-प्रव्रज्या सम्यक् शमितया, वा पर्यायः-प्रव्रज्याऽस्येति विगृह्य बहुब्रीहिः स सम्यकपर्यायः शमितापर्यायो वा व्याख्यातो नापर इति / तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह- 'जे असत्ता' इत्यादि, ये अपाकृतमदनतया समतूणमणिलेष्टुकाञ्चनाः समतापन्नाः