________________ लोगसार 742 - अभिधानराजेन्द्रः - भाग 6 लोगसार विपरिआसमुवेइ, मोहेण गम्भ मरणाइ एइ, एत्थ मोहे पुणो / पुणो। (सू०१४२) 'सेपासई त्यादि, सः-अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः पश्यति- दृशिरुपलब्धिक्रिय इत्यत उपलभते-अवगच्छति, किं तत् ?- 'फुसियमिव, त्ति-(इत्यादिपदानां व्याख्या 'जीविय' शब्दे चतुर्थभागे 1564 पृष्ठे गता। ) नाप्यसौ तदभिकाशति अतो बालग्रहणम्, बालोह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते यत एव बालोऽत एव मन्दः सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति / परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि' इत्यादि, क्रूराणिनिर्दयानि निरनुक्रोशानि कर्माणि-अनुष्ठानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अष्ठादश वा पापस्थानानि बालः-अज्ञः प्रकर्षेण कुर्वाणः, "कत्रभिप्राये क्रियाफले" आत्मनेपदविधानात्तस्यैव तक्रियाफलविपाकं दर्शयति-तेन-क्रूरकर्मविपाकापादितेन दुःखेन मूढःकिंकर्तव्यताऽऽकुलः केन कृतेन ममैतदुःखमुपशमं यायादिति मोहमोहितो विपर्यासमुपैतियदेव प्राण्युपघातादिदुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति। किंच- 'मोहेण' (इत्यादि पदानां व्याख्या 'मोह' शब्दे पञ्चमभागे 456 पृष्ठे गता।) ततश्च न यावद्विविशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति। आहचसंसयं परिआणओसंसारे परित्राए भवह, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ / (सू०१४३) 'संसय मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च / इह चार्थोमोक्षो मोक्षोपायश्च, तत्र मोक्षेन संशयोऽस्ति, परमपदमिति प्रतिपादनात्, तदुपाये तुसंशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात्। अनर्थस्तु संसारः संसारकारणं च, तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात् ; अतः संशयमर्थानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेवपरमार्थतः संसारपरिज्ञानमिति दर्शयति-तेन संशयं परिजानता संसारश्चतुर्गतिकः तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहृतमिति / यस्तु पुनः संशयं न जानीते स संसारमपि न जानातीति दर्शयितुमाह- 'संसयं' इत्यादि, संशयं-सन्देह द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात् , तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निः-सारो न ज्ञातो भवति। कुतः पुनरेतन्निश्चीयते ? यथा तेन संशयवेदिना संसारःपरिज्ञात इति ? | किमत्र निश्चेतव्यं ? संसारपरिज्ञानकार्यविरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह - जे छेए से सागारियं न सेवइ, कट्टएवमवियाणओ विइया मंदस्स बालया, लद्धा हुरत्था पडिलेहाए आगमित्ता आणविज्जा अणासेवणय त्ति बेमि। (सू०१४४) 'जे छए' इत्यादि यश्छेको-निपुण उपलब्धपुण्यपापः सः 'सागारियं ति मैथुनं न सेवते मनोवाक्कायकर्मभिः, स एव यथावस्थितसंसारयेदी, यस्तु पुनर्मोहनीयोदयात्पार्श्वस्थादिः तत्सेवते, सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह- 'कट्ट' इत्यादि, रहसि मैथुनप्रसङ्ग कृत्वा पुनर्गुर्वादिना पृष्टः सन्नपलपति तस्य चैव-मकार्यमपलपतोऽविज्ञापयतो वा किं स्यादित्याह- "बिइया' इत्यादि, मन्दस्य-अबुद्धिमत एकमकार्यासेवनमियं बालता-अज्ञानता, द्वितीया तदपवनं मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति-"जे खलु विसए सेवई सेवित्ता वा णालोएइ, परेण वा पुट्ठो निण्हवइ, अहवा-तं परं सएण वा दोसेण पविट्ठयरेण वा दोसेण उवलिंपिज्ज 'त्ति' 'सुगमम्। यद्येवं ततः किं कुर्यादित्याह-'लद्धा हु' इत्यादि, लब्धानपिकामान् 'हुरत्थे' त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्तादहिः कुर्यात् ; यदि वा-हुशब्दः-अपिशब्दार्थे, रेफागमः सुव्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमोंलब्धानप्यर्थन्ते-अभिलषन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण प्रत्युपेक्ष्यपर्यालोच्य ततः आगम्य ज्ञात्वां दुरन्तं शब्दादिविषयानुषङ्गम्, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति-तदनासेवनतया परानाज्ञापयेत् , स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाह, शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद इति / एतच्च वक्ष्यमाणं ब्रवीमिति। तदाहपासह एगे रूवेसु गिद्धे परिणिज्जमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवि, एएसु चेव आरंभजीवी, इत्थ वि बाले परिपत्रमाणे रमई पावेहिं कम्मेहिं असरणे सरणं ति मन्नमाणे / (सू० 1454) 'पासह' इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधाणो, बहुवचननिर्देशादाद्यर्थो गम्यते, रूपेषुरूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु गृद्धान्-अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति / ते च विषयगृध्नव इन्द्रियवशगाः संसारार्णव किमाप्नुयुरित्याह- 'एत्थ फासे' इत्यादि, अत्र-अस्मिन् संसारे हृषीकवशगः सन् कर्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेवस्थानेषु प्राप्नुयादिति। पाठान्तरं वा- 'एत्थ मोहे पुणो पुणो' अत्र-अस्मिन् संसारे मोहेअज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति। कोऽसावेवम्भूतः स्यादित्यत आह'आवंती' त्यादि, यावन्तः केचन लोके-गृहस्थलोके आरम्भजीविनः-सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्थेन दुःखान्यनुभवेयुरिति। येऽपि गुहस्थाश्रिताःसारम्भास्तीथिकादयस्तेऽपि तदुःखभाजिन इति दर्शयति- 'एएसु' इत्यादि, एतेषु सावद्यारम्भप्रवृत्तेषु गृहस्थेषु