________________ लोगसण्णा 740- अभिधानराजेन्द्रः - भाग 6 लोगसण्णा लोगसण्णा-स्त्री०(लोकसंज्ञा) मतिज्ञानावरणकर्मक्षयोपशमनात् शब्दाद्यर्थगोचरायां सामान्यावबोधक्रियायाम् , प्रज्ञा० 10 पद। लोकसंज्ञास्वच्छन्दधटितविकल्परूपा लौकिकाचरिता, यथा-न सन्त्यनपत्यस्य लोकाः, श्वानो-यक्षाः, विप्रादेवाः, काकाः-पितामहाः। आचा०१ श्रु० 1 अ०१ उ०। अथ निर्वेदी जीवः मोक्षसाधनोद्यमवर्ती लोकसंज्ञायां न मुह्याति, लोकसंज्ञा हि धर्मसाधनव्याघातकरा आप्तैस्त्याज्या इति, तदुपदेशरूपं लोक संज्ञात्यागाष्टकं विस्तार्यते / लोकः,सप्तविधःनामलोकः-शब्दालापरूपः, स्थापनालोकः-अक्षरः, लोकनालियन्त्रन्यासरूपः,रूप्यजीवाजीवात्मकः-द्रव्यलोकः,ऊधिस्तिर्यग्लक्षणःक्षेत्रलोकः, समयावल्यादिकालपरिमाणलक्षणः-काललोकः, नरनारकादि-चतुर्गतिरूपः-भवलोकः, औदयिकादिभावपरिणामः-भावलोकः द्रव्यगुणपर्यायपरिणमनरूपः-पर्यवलोकः / इदंचसर्वमपि आवश्यकनियुक्तितो ज्ञेयम्।अथवा-द्रव्यलोकः-संसाररूपः अप्रशस्तभावलोकःपरभावकत्वजीवसमूहः, अत्र भवलोकाप्रशस्तभावलोकस्य संज्ञा त्याज्या, लोकसंज्ञा च नयसप्तकेन धर्मार्थिभिः परिहरणीया - प्राप्तः षठं गुणस्थानं, भवदुर्गाद्रिलङ्घनम्। लोकसंज्ञारतो न स्यान, मुनिर्लोकोत्तरस्थितिः॥१॥ प्राप्त इति-मुनिः-संयमी आस्रवविरतः षष्ठम्-सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः, लोकसंज्ञा-लोकः कृतं तत्कर्त्तव्यम् गतानुगति- / कतानीतिरित्यत्र रतः-रागी गृहीतग्रहः न स्यात्, लोकैः कृतं तदेव करणीयम् इति मति निवार्य आत्मसाधनोपायरतः स्यात्। किभूतं षष्ठं गुणस्थानम् ? भवः संसारः स एव दुर्गाद्रिः-विषमपर्वतः तस्य लङ्घनम्, किं विशिष्टः मुनिः? लोकोत्तरस्थितिः-लोकातीतमर्यादया स्थितः लोको हि विषयाभिलाषी मुनिः-निष्कामः, लोकः पुद्गलसंपज्ज्येष्ठत्वमानी गुनि नादिसंपदा श्रेष्ठः, अतः किल लोकसंज्ञया किं तेषाम् ? // 1 // यथा चिन्तामणिं दत्ते, बठरो बदरीफलैः। इहा जहाति सद्धर्म, तथैव जनरञ्जनः॥२॥ यथा चिन्तमणिमिति-यथा येन प्रकारेण कश्चित् बठरः-मूर्खः बदरीफलैः चिन्तामणिं दत्ते ; तथैव मूढः जनरञ्जनैः-लोकश्लाघाभिलाषैः सद्धर्म द्रव्याचरणतत्त्वानुभवलक्षणं 'हहा' इति खेदे, जहातित्यजति, इत्यनेन जिनभक्तिश्रुत-श्रवणाहारत्यागादिकंयश पूजादिना हारयति। उक्तं च-"त्वत्तः सुदुष्प्रापमिदंमयाप्तं, रत्नत्रयं भूरिभवभ्रमेण / प्रमादनिद्रावशतो गतं तत् , कस्याग्रतो नायक ! पूत्करोमि // 1 // वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय। वादाय विद्याध्ययनं च मेऽभू-त्कियब्रुवे हास्यकर स्वमीश ! / / 2 / / लोकसंज्ञामयानया-मनुस्रोताऽनुगा न के। प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः।॥३॥ लोकसंज्ञेति-लोकसंज्ञा-लोकरीतिरूपा महानदी, तस्याः अनुस्रोतः-प्रवाहः तस्य अनुगाः अनुयायिनः के न भवन्ति? अनेके इत्यर्थः, तत्र प्रतिस्रोतोऽनुगः सन्सुखप्रवाहचारीतुएकएव महा-मुनिःशुद्धश्रमणः राजहंसनामा इति, तेन लोकरूढिरूढा बहवो जीवाः, निर्ग्रन्थंः स्फुरद्रत्नत्रयसाधनोद्यतः स एव स्वरूपानुगामी। उक्तं च दशवैकालिके"अणुसोयपिट्ठिए बहुजणम्मि पडिसोयलद्धलक्खेणं / पडिसोयमेव अप्पा, दायव्वो होउ कामेण / / 1 // अणुसोयसुहो लोगो, पडिसोओ आसमो सुविहयाणं / अणुसोओ संसारो, पडिसोओ तस्स उत्तारो // 2 // " तेन मुनिर्लोकसंज्ञानुयायी न स्यात्॥३॥ लोकमालम्ब्य कर्त्तव्यं, कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन / / / / लोकमिति-चेत्-यदि यद् बहुभिः कृतं तत् कर्त्तव्यं लोकमालम्ब्य एवं क्रियते तदा मिथ्यादृशां धर्मः कदाचन कदापि न त्याज्यः स्यात् , तब बहुभिः क्रियमाणत्वात् , स्वेच्छाचरणो लोको बहुतरः, यतः-अनार्येभ्यः आर्याः स्तोकाः, आर्येभ्यः जैनाचाराः स्तोकाः,जैनाचारवर्तिषु जैनपरिणतिपरिणताः स्तोकाः, अतः बहुलोकानुयायी न भवनीयमिति॥ 4 // श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च / स्तोका हि रत्नवणिजः, स्तीकाश्च स्वात्मसाधकाः ||5|| श्रेयोऽर्थिनो हि भूयांस इति-लोके-बाह्यप्रवाहे श्रेयोऽर्थिनः धनस्वजनभुवनवनतनुकल्याणार्थिनः भूयांसःप्रचुराः सन्ति, च-पुनः लोकोत्तरे-अमूर्ता-त्मस्वभावाविर्भावलक्षणे प्रवर्त्तमानाः न च-नैवेति हीतिनिश्चितम्, रत्नवणिजः स्तोकाः, तथा च-पुनःस्वा-त्मसाधकाःस्व आत्मा तस्य साधकाः निरावरणत्वनिष्पादकाः स्तोका इति॥५॥ लोकसंज्ञाहता हन्त !, नीचैर्गमनदर्शनैः। शंसयन्ति स्वसत्याग-मर्मघातमहाव्यथाम्॥६॥ लोकसंज्ञेति-हंत-इति खेदे, लोकसंज्ञाहता-लोकसंज्ञाव्याकुलाः नीचैर्गमनदर्शनैः-वक्रीभूतशरीरभून्यस्तदृष्ट्या गमनस्य दर्शनैः, स्वसत्यागमर्मघातमहाव्यथां स्वीयो यः सत्यागः जैनवृत्तित्यागः स च लोकरञ्जनाध्यवसायबहुलेन मर्मणि घातं लभते, तस्य घातस्य महाव्यथाम्-महापीडा शंसयन्ति-ज्ञापयन्ति, 'वयं पीडितेन वक्रशरीरा भवामः' इति शंसयन्ति-कथयन्ति वेति उत्प्रेक्षा, लोकोक्तिमिति त्यागवन्तो जीवा आत्मस्वरूपघातका इति // 6 // आत्मसाक्षिकसद्धर्म-सिद्धौ किं लोकयात्रया?| तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शनम्॥७॥ आत्मेति-हे उत्तम ! आत्मसाक्षिकाः-आत्मा एव साक्षिकः आत्मसाक्षिकः, स चासौ सत्-शोभनः धर्मः,तस्य सिद्धौनिष्पत्तौ लोकयात्रया किं ? न किमपि, लोकानां ज्ञापनेन किमित्यर्थः, तत्र प्रसन्नचन्द्रः चपुनः भरत इति निदर्शनं दृष्टान्तः, सति द्रव्यलिने कायोत्सर्गे प्रसन्नचन्द्रस्य नरकगतिबन्धः, असति लिङ्गे मोहकलाकेलिभूतवनिताव्यूहपरिवृत्तोऽपि भरतः संप्राप्तात्मसाक्षिकत्वैकत्वरूपधर्मपरिणतः केवलं प्राप, इति आत्मसाक्षिको धर्मः-धर्म इति दृष्टान्तः, अतः आत्मसाक्षिक एव धर्मः करणीय इति॥ 7 //