SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ लोगविजय 738 - अभिधानराजेन्द्रः - भाग 6 लोगविजय 'एस' इत्यादि, 'एस' इति सुवसुमुनिानाधरिक्तो यथाव-स्थितमार्गप्ररूपको वीरः कर्मविदारणात् प्रशंसितः तद्विद्भिः श्लाधित इति। किञ्च- 'अच्चेइ त्यादि, स एवं भगवदाज्ञानुवर्तको वीरोऽत्येतिअतिक्रामति, कं लोकसंयोगम्-लोकेनासंयतलोकेन संयोगः-सम्बन्धः ममत्वकृतस्तमत्येति, अथवा-लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्योधनहिरण्मातापित्रादिः, आन्तरस्तुरागद्वेषादिस्तत्कार्यं वा अष्टप्रकारं कर्म तेन सार्द्ध संयोगमत्येति-अतिलइयतीत्युक्तंभवति / यदि नामैवं ततः किमित्याह- 'एस' इत्यादि,योऽयं लोकसंयोगातिक्रमः एष न्यायःएष सम्मार्गः मुमुक्षूणामयमाचारःप्रोच्यते-अमिधीयते, अथवा-परम्आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्तरिघञ्-नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य नायः प्रोच्यते-मोक्ष-प्रापकोऽभिधीयते सदुपदेशात् / स्यादेतत् किंभूतोऽसावुपदेश इत्यत आहयदुःखं दुःखकारणं या कर्मलोकसंयोगात्मकंवा प्रवेदितम्-तीर्थकृद्भिरावेदितम् इह-अस्मिन् संसारे मानवानाम्-जन्तूनाम् , ततः किम् ?तस्य दुःखस्य-असातलक्षणस्य कर्मणो वा कुशलानिपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्-उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्तिज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरयन्ति च। किं च- 'इतिकम्म' इत्यादि, इतिः-पूर्वप्रक्रान्तपरामर्शको यत्तदुःखप्रवेदितं मनुजानाम् , यस्यचदुःखस्य परिज्ञां कुशला उदा हरन्ति तदुःखं कर्मकृतं तत्कमाष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च / तद्यथा-ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वशः-सर्व प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्तेत, अथवा-सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो, वायदिवा-सर्वशः कथयति, आक्षेपण्याद्या चतुर्विधया धर्मकथयेति / सा च कीदृक्कथेत्याह- 'जे' इत्यादि, अन्यद् द्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथानासावनन्यदर्शीयथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो?यः सम्यग्दृष्टिमौनीन्द्रप्रवचनाविर्भूततत्त्वार्थः, यश्चानन्यदृष्टिः सोऽनन्यारामोमोक्षमार्गादन्यत्र न रमते / हेतुहेतुमद्भावेन सूत्रं लगयितुमाह'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र नरमते सोऽनन्यदर्शी यश्चैवम्भूतः सोऽन्यत्र न रमत इति। उक्तं च- "शिवमस्तु कुशास्त्राणां, वैशेषिकषष्टितन्त्रबौद्धानाम् / येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः / / 1 // " इत्यादि। तदेवं सम्यक्त्वस्वरूपमाख्यातम् , कथञ्चारक्तद्विष्टः कथयतीति दर्शयति- 'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण पुण्यवतः-सुरेश्वरचक्रवर्त्तिमाण्डलिकादेः कथ्यते-उपदेशो दीयते तथा-तेनैव प्रकारेण तुच्छस्यद्रमकस्य काष्ठहारकादेः कथ्यते, अथवा-पूर्णो-जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छः, विज्ञानवान् वा | पूर्णस्ततोऽन्यस्तुच्छ्व इति, उक्तंच-"ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः। तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात्॥१॥" एतदुक्तं भवति, यथा-द्रमकादेस्तदनुग्रहबुद्ध्या प्रत्युप्रकारनिरपेक्षः कथयत्येवं चक्रवत्यादेरपि यथा वा चक्रवादः कथयत्यादारेण संसारोत्तरणहेतुमेवमितरस्यापि। अत्रच निरीहता विवक्षितानि पुनरयं नियमःएकरूपतयैव कथनीयम्, तथाहि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयम्; किमसावभिगृहीतमिथ्यादृष्टिरनभिगृहीतो वा संशीत्यापन्नो वा ? अभिगृहीतोऽपि कुतीर्थिकैर्युग्राहितः स्वत एव वा ? तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा-"दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमोनृपः॥१॥"तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथनेच मोहोदयात्तथाविधकर्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद, द्विष्टश्चैतद्विदध्यादित्याह च-अपिः सम्भावने, आस्ता तावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवं जातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति। उक्तं च-"तत्थेव य निट्ठवणं, बंधणनिच्छुमणकडगमद्दो वा। निविसयं वनरिंदो, करेज संघ पि सो कुद्धो // 1 // ' तथा तच्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्योद्दिश्य धर्मफलोपदर्शनेनेति। एवमविधिकथनेनेहैव तावद्वाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च- 'एत्थं पि' इत्यादि,मुमुक्षोः परहितार्थ धर्मकथां कथयतस्तावत्पुण्यस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापिधर्मकथायामपि श्रेयः-पुण्यमित्येतन्नास्तीत्येवं जानी हि, यदिवा असौ-राजादिरनाद्रियमाणस्तसाधु धर्मकथिकमपि हन्यात्। कथमित्याह- "एत्थं पी' त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौधर्मकथिकोऽत्रापि श्रेयो नविद्यते इत्येवं प्रतिहन्ति, यदिवा-यद्यदविधिकथनंतत्रतत्रेदमुपतिष्ठतेअत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यांचान्यथेति। एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति। उक्तं च-"सावजणवजाणं, वयणाणं जो न याणइ विसेसं। वुत्तुं पि तस्स न खमं, किमंग? पुण देसणं काउं? // 1 // " स्यादेतत्कथं तर्हि धर्मकथा कार्येत्युच्यतेकोऽयम-इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति, तेनाचायादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषः ? मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनाऽयं पृच्छति, कं च देवताविशेष नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोगमुत्तरकालं कथनीयम् , एत-दुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः क्षेत्रतः-किमिदं क्षेत्रं तचनिकैर्भागवतरे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy