________________ लोगविजय 737 - अभिधानराजेन्द्रः - भाग 6 लोगविजय णस्य संज्ञा दशप्रकारा अतस्ताम् 'स' इति-मुनिः, किंभूतो ? मतिमान्सदसद्विवेकज्ञः पराक्रमेथाः-संयमानुष्ठानेसमुद्यच्छः, संयमानुष्ठानोद्योगं सम्यग्विदध्या इति यावद् / अथवा-अष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति / इतिरधिकार-समाप्तौ, ब्रवीमीति पूर्ववत्। स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह-तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिगृहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात् , तामुत्पन्नां संयमविषयां न सहते-नक्षमते, कोऽसौ ? विशेषेणेरयतिप्रेरयति अष्टप्रकार कम्मििरषड्वर्गवेति वीर:-शक्तिमान्, स एवं वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते ताम् न सहते न मर्षति, या चारतिः संयमे, विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयतियस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो न रज्यति-शब्दादिविषयग्रामे न गायं विदधाति। यत एवं ततः किमित्याह - सद्दे फासे अहियासमाणे, निर्दिवदनंदि इह जीवियस्स। मुणी मोणं समायाय, धुणे कम्मसरीरगं // 2 // पंतं लूहं सेवंति वीरा, संमत्तदंसिणो एस।। ओहंतरे मुणी तिने मुत्ते विरए वियाहिए त्ति बेमि।। (सू०६९) यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि द्विष्टेषु द्वेषम् , तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, नापीतरान् द्वेष्टि आद्यन्तग्रहणाचेतरेषाभप्युपादानं द्रष्टव्यम्, तत्राप्यतिसहनं विधेयमिति। उक्तञ्च-"सद्धेषु अभद्द-यपा-वएसुसोयिविसयमुवगएसु। तुह्रण व रुद्रुण व, समणेण सया न होअव्वं / / 1 / / एवं रूवेसु अ भद्दयपा-वएसु० / तहा गंधेसु अ०|| "इत्यादि वाच्यम्, ततश्च शब्दादीन्विषयानतिसहमानः किं कुर्यादित्याह- 'निट्विंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमपदेशः, निर्विन्दस्वजुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् इह-मनुष्यलोके यजीवितमसंयमजीवितं वा तस्य या नन्दिः-तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ? उक्तं च- "विभव इति किं मदस्ते ? च्युतविभवः किं विषादमुपयासि ? करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् // 1 // " एवं रूपबलादिष्वपि वाच्यम्,सनत्कुमारदृष्टान्तेनेति, अथवापञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे। स्यादेतत्-किमालम्ब्य करोतीत्याह-'मुणी त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः-संयमः, यदि वा- मुनेमविः मुनित्वं / तदप्यसावेव, मौनं वा वाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् ? - धुनीयात् कर्मशरीरकम औदारिकादिशरीरं वा, अथ-वा-'धुनीहि' विवेचय पृथक्कु रु-तदुपरि ममत्वं मा विधत्स्वेति भावार्थः / कथं तच्छरीरकं धूयते, ममत्वं या तदुपरिन कृतं भवतीत्याह-'प्रान्तस्वाभाविकरसरहितं स्वल्पं वा रूक्षम्-आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तम्- द्वेषरहितं विगतधूम रूक्षम्-रागरहितमपगतागारं सेक्न्ते-भुजते, के ? वीराःसाधवः / किंभूताः? समत्वदर्शिनः रागद्वेषरहिताः सम्यक्त्वदर्शिनोवासम्यक्तत्त्वं सम्यक्त्वंतर्शिनः परमार्थदृशः, तथाहि-इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामु ष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इति कृत्वा, प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह-'ए-स' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरंधुनानो भावतो भदौघंतरतीति। कोऽसौ ? मुनिः-यतिः, अथवा-क्रियमाणं कृतमिति कृत्वा तीर्ण एव भवौघम् / कश्च भवौधं तरति ? - यो मुक्तः-सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?-यो भावतः शब्दाऽऽदिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् / इतिः अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह-("दुव्वसुमुणी "इत्यादि सूत्राणि 'धम्मकहा' शब्दे चतुर्थभागे 2712 पृष्ठ प्रसङ्गाद् गतानि।) तद्व्याख्या-चेयम्-वसुद्रव्यमेतच भव्येऽर्थेव्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्चमुक्तिगमनयोग्यः ततश्च मुक्तिगमनयोग्यं यद् द्रव्यम् तद् वसु, दुष्टं वसु दुर्वसु, दुर्वसु चासौ मुनिश्च दुर्वसुमुनिःमोक्षगमनाऽयोग्यः। सच कुतो भवति?-अनाज्ञया-तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ? तदु-च्यते-उद्देशकादेरारभ्य सर्व यथा सम्भवंमायोज्यम् , तथाहिमिथ्यात्वमोहिते लोके संबोद्धुं दुष्करं व्रतेष्वात्मानमध्यारोपयितुंरत्यरती निगृहीतुं शब्दादिविषयेष्विष्टानिष्टषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम् , एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं तथाऽनुकूलप्रतिकूलांश्च नाना-प्रकारानुपसर्गान् सोढुम् , असहने च कम्र्मोदयोऽनाद्यतीतकाल-सुखभावना च कारणम्, जीवो हि स्वभावतो दुःखमीरुरनिरोध-सुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह-'तुच्छ' इत्यादि, तुच्छोरिक्तः, स च द्रव्यतो निर्धनो घटादि जलादिरहितो, भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुम् , ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्ध-मार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुम् , तथाहिप्रवृत्त-सन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति। यस्तुकषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुमुनिर्भवत्यरिक्तो न ग्लायति च वक्तुम् ,यथावस्थितवस्तुपरिज्ञानाद् अनुष्ठानाच / आह च