________________ लोगविजय 735 - अभिधानराजेन्द्रः - भाग 6 लोगविजय कामभोगाभिलाषुकः स किंभूतो भवतीत्याह- 'अट्ट' इत्यादि, आतिःशारीरमानसीपीडा तत्र भव आर्त्तस्तमार्त्तममरायमाणं कामार्थमहाश्रद्धावन्तं प्रेक्ष्यदृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयमिति, पुनरमरायमाणभो-गश्रद्धावतः स्वरूपमुच्यते-'अपरिन्नाए' इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा क्रन्दते भोगेष्वप्राप्तनष्टेषु कासाशोकावनुभवतीति। उक्तं च-"चिन्तागते भवति साध्वसमन्तिकस्थे, मुक्तेतुतृप्तिरधिका रमितेऽप्यतृप्तिः। द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथंचिदस्ति॥ 1 // " इत्यादि। तदेवमनेकधा कामविपाकमुपदर्य उपसंहरतिसे तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता लुंपित्ता विलुंपइत्ता उद्दवइत्ता अकडं करिस्सामि त्ति मण्णमाने, जस्स वि य णं करेइ अलं बालस्स संगणं, जे वा से कारइ वाले, ण एवं अणगारस्स जायति त्ति बेमि। (सू०६५) 'से' ति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मातज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः। ननु च कामनिग्रहोऽत्र चिकीर्षितः स चान्योपदेशादपि सिद्ध्यत्येवैतदाशङ्कयाह- 'तेइच्छं' इत्यादि, कामचिकित्सां पण्डितः पण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशन् अपरस्तीर्थको जीवोपमर्दै वर्तत इत्याह- ‘से हंता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिश्छेत्ता कर्णादीनां, भत्ता सूलादिभिर्लुम्पयिता ग्रन्थिच्छेदनादिना, विलुम्पयिता अवस्कन्दादिना, अपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपर-मार्थदशां संपद्यते। किं च-अकृतं यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूतमुपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति / आह च-'जस्स वियणं इत्यादि, यस्याप्यसावेवंभूतां चिकित्सां करोति न केबलं स्वस्येत्यपिशब्दार्थस्तयोर्द्वयोरपि कर्तुः कारयितुश्च हननदिकाः क्रियाः, अतोऽलम्-पर्याप्तं बालस्य-अज्ञस्य सङ्गेन कर्मबन्धहेतुना कर्तुरिति, योऽप्येतत्कारयति बालः-अज्ञस्तस्याप्यलमिति संटङ्कः / एतचैवंभूतमुपदेशदानं विधानं वा अवगततत्त्वस्य न भवतीत्याह-'ण एवं' इत्यादि, एवंभूतं प्राण्युपमर्दैन चिकित्सो-पदेशदानं करणं वा अनगारस्य-साधोः ज्ञातसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सां व्याधिचिकित्सा वा जीवोपमन प्रतिपादयन्ति ते बालाःअविज्ञाततत्त्वाः तेषां वचनमवधीरणीयमेवेति भावार्थः / इतिः परिसमाप्त्यर्थे ब्रवीमि पूर्ववदिति। उक्तः पञ्चमोद्देशकः। संयमदेहयात्रार्थ लोकमनुसरता साधुना लोके ममत्वं न कर्त्तव्यमित्यु- | द्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते, अस्य चानन्तरसूत्रसंबन्धो वाच्यो नैवमनगारस्य जायते इत्यभिहितम् , एतदेवात्रापि प्रतिपिपादयिषुराह - से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा न कारवेज्जा / (सू०६६) यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत् प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्ध्यमानःअवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्नादातव्यम्-आदानीयम् ; तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद्'उत्थाये 'त्यनेकार्थत्वादादायगृहीत्वा, अथवा-सोऽनगार इत्येतदादानीयम्-ज्ञानाद्यपवर्गककारणमित्येवंसम्यगवबुद्ध्यमानः सम्यक् संयमानुष्ठानेनोत्थाय सर्वसावा कर्मा नमया कर्त्तव्यमित्येवं प्रतिज्ञामन्दिरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह- 'तम्हा' इत्यादि यस्मात् संयमःसर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं पापहेतुत्वात्, कर्मक्रिया न कुर्यात् स्वतो मनसाऽपिन समनुजानीयादित्यवधारणफलम्, अपरेणाऽपिन कारयेदिति / आह च- 'न कारवे' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेद् एवकाराच अपरं कुर्वन्तं न समनुजानीयाद्योगत्रिकेणापीति भावार्थः। स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढौकते आहोस्विन्नेत्याहसिया तत्थ एगयरं विपरामुसइछसु अन्नयरम्मि, कप्पइ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मूढे विपरियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुव्वइ, जंसिमे पाणा पटवहिया, पडिलेहाए नो तिकरणयाए, एस परिन्ना पवुबइ, कम्मोवसंति।(सू०१७) स्यात्तत्र-कदाचित्तत्र पापारम्भे एकतरं पृथिवीकायादिसमारम्भं विपरामृशाति-पृथिवीकायादिसमारम्भं करोति, एकतरं वाऽऽश्रवद्वारं परामृशति-आरभते स षट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवति- पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्त्तमानो यस्मिन्नेव पर्यालोच्यतेतस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्त्तत इतिभावार्थः / कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्त्तते इत्येवं मन्यते ? कुम्भकारशालोदकालावनदृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति।अथवा-प्राणातिपाताखवद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वा अपरजीवातिपाती द्रष्टव्यः, प्रतिज्ञालोपाचानृतः।नचतेनव्यापाद्यमानेनासुमताऽऽत्माध्यापादकायदत