________________ लोगविजय 734 - अमिधानराजेन्द्रः - भाग 6 लोगविजय चोयुक्त्याऽऽचष्टे- 'जहा अंतो तहा बाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्य बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदि वा-कथमसौ मोचयतीति चेत्तत्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह- 'जहा अंतो' इत्यादि / यथा-स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरत्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति। उक्तंच-"यदि नामास्य कायस्य, यदन्तस्तबहिर्भवेत्।दण्डमादाय लोकोऽयम् . शुनः काकांश्च वारयेत् // 1 // " इति, यथा वा बहिरसारता तथाऽन्तरेऽपीति / किं च-'अंतो अंतो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणिपूतिविशेषान् देहान्तराणिदेहस्यावस्थाविशेषान् इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादिपूतिदेहान्तराणि पश्यति-यथावस्थितानि परिच्छिनत्ति इत्युक्तं भवति।यदि वा-देहान्तराण्येवंभूतानिपश्यति-'पुढो' इत्यादि, पृथगपिप्रत्येकमपि अपिशब्दाद-कुष्ठाद्यवस्थायां यौगपद्येनापि सवन्ति नवभिः श्रोतोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोचारादीन् तथा-अपरव्याघिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति / यद्येतानि ततः किम् ? - 'पंडिए पडिलेहाए एतान्येवंभूतानि गलच्छ्रोतोव्रणरोमकूपानि पण्डितः-अवगततत्त्वः प्रत्युपेक्षेत-यथावस्थितमस्य स्वरूपमवगच्छेदिति। उक्तंच-"मंसट्ठिरुहिरण्हारुवणद्धकलमलयमेयमज्जासु। पुण्णम्मि चम्मकोसे, दुग्गंधे असुइबीभच्छे // 1 // संचारिमजंतगलंतवचमुत्तंतसेअपुण्णम्मि। देहे हुजा किं रागकारणं असुइहेउम्मि? // 2 // " इत्यादि। तदेवं पूतिदेहान्तराणि पश्यन् पृथगपिन वन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याहसे मइमं परिन्नाय मा य हु लालं पञ्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासं कासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्डइ अप्पणो। (सू०६४) स-पूर्वोक्तो यतिमतिमान्-श्रुतसंस्कृतबुद्धिर्यथावस्थितं हेहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह- 'मा य हु' इत्यादि, मा-प्रतिषेधे चः समुच्चये, हुर्वाक्यालङ्कारे, ललतीति लाला-अत्रुट्यन्मुखश्लेष्मसन्ततिः तां प्रत्यशितुंशीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लाला सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान्, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः / किं च-'मा तेसु तिरिच्छ इत्यादि संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वा अतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनितत्रानुकूल्यं विधेयम्, मा तेष्वात्मानं तिरश्चीनमापादयः, ज्ञानादि कार्ये प्रतिकूलतांमा विदध्याः, तत्राप्रमादवता भाव्यम् , प्रमादवांश्चेहैवशान्तिं न लभते, यत आह- 'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किं कर्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणोन स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति। उक्तंच- "इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम्। चिन्तयन्निह कार्याणि, प्रेत्यार्थनावबुध्यते॥१॥' अत्र दधिघटिकाद्रमकदृष्टान्तो वाच्यः, स चायम्द्रमकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धःतद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणेव दधिघटिकाव्यापत्तिरित्येवं चिन्तामनोरथव्याकुलीकृतान्तःकरण इति, तद्दद्ध्यानयने शिरोविण्टलिकाचीवरे अदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम् , एवमन्योऽपि कासंकसः- किंकर्तव्यतामूढो निष्फलारम्भो भवतीति। अथवा-कस्यतेऽस्मिन्निति कासः-संसारस्तं कषतीतितदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् , वक्ष्यमाणो वेत्याह- 'बहुमायी कासंकषो हि कषायै-भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीतिद्रष्टव्यमिति। अपि च-'कडेण मूढ़' करणं कृते तेन मूढःकिं कर्त्तव्यताकुलः सुखार्थी दुःखमश्नुते इति / उक्तं हि- "सोउं सोवणकाले,मजणकाले यमजिउंलोलो। जेमेउंच वराओ, जेमणकाले णचाएइ।। 13 // " अत्र मम्मणवणि-गदृष्टान्तो वाच्यः, स चैवम्-कासंकषः बहुभायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गो जायत इति / आह च- 'पुणो तं करेइ-इत्यादि,मायावी परवञ्चनबुद्ध्या पुनरपि तल्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते / अथवा-तं लोभे करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति / उक्तं च"दुखार्त्तः सेवते कामान् , सेवितास्तेच दुःखदाः। यदि तेन प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः // 1 // किं पुनः कारणमसुमाँस्तत्करोति येनात्मानो वैर वर्द्धते? इत्याहजमिणं परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमराय महासडी अट्टमेयं तु पेहाए अपरिण्णाए कंदह। (सू०६४x) 'जमिण' मित्यादि, यदिति यस्मादस्यैव विशरारोः शरीरकस्य परिवृंहणार्थ प्राणघातादिकाः क्रियाः करोतीति ; ते च तेनोपहताः प्राणिनः पुनः शतशो प्रन्ति, ततो मयेदं कथ्यते कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मानो वैरं वर्द्धय-तीति, यदि वा- यदिदं मयोपदेशप्रायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिवृंहणार्थम्, इदं चापरं कथ्यते- 'अमराय' इत्यादि, अमरायतेअनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाच-रति अमरायते, कोऽसौ ?-महाश्रद्धी-महती चासौ श्रद्धाच महा-श्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा अत्रोदाहरणम्। (मगधसेना गणिका तवृत्तम् 'मगहसेणा' शब्देऽस्मिन्नेव भागे 37 पृष्ठे गतम् / ) यश्चामरायमाणः