________________ लोगविजय 733 - अभिधानराजेन्द्रः - भाग 6 लोगविजय दुःखी, एवंभूतश्वसन् क्रिमवाप्नोतीत्याह- 'दुक्खाणं इत्यादि, दुःखानां शारीरमानसानामावत पौनःपुन्यभवतमनुपरिवर्तते दुःखावर्तावमग्नो | वंभ्रम्यत इत्यर्थः / इतिः परिसमाप्तौ ब्रवीमिति पूर्ववत्। आचा०१ श्रु०२ अ०३ उ०। (भोगसुखवक्तव्यता'भोगसुह'शब्दे पञ्चमभागे १६०६पृष्ठे गता / ) ("जमिणं "इत्या-दीनि सूत्राणि 'आरंभ' शब्दे द्वितीयभागे 365 पृष्ठे गतानि।) परिग्रहादात्मानमपसर्पयदित्युक्तं, तच न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदोऽसुकरः यत आह - कामादुरतिकमा, जीवियं दुप्पडिबूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पइ। (सू०९२) कामा द्विविधाः-इच्छाकामा, मदनकामाश्च। तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्भवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुःष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीय कारणम् , तत्सद्भावेच नकामोच्छेद इत्यतो दुःखेनातिक्रमः-अतिलङ्घनं विनाशो येषां तेतथा, ततश्चेदमुक्तं भवति-नतत्र प्रमादवता भाव्यम्। न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च- 'जीवियं' इत्यादि, जीवितम्आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिबृहणीय' दुरभावार्थे, नैव वृद्धिं नीयते इति यावत् , अथवा-जीवितं-संयमजीवितं तदुष्प्रतिबृहणीयम् , कामानुषक्तजनान्तर्व-तिना दुःखेन वृद्धिं नीयतेदुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च-"आगासे गंगसोउ व्व, पडिसोउव्व दुत्तरो। बाहाहिं चेव गंभीरो,तरिअव्यो महोअही॥१॥ वालुगाकवलो चेव, निरासाए हुसंजमो। जवा लोहमया चेव, चावेयव्या सुदुक्करं / / 2 // " इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह- 'कामकामी' इत्यादि कामान् कामयितुम्-अभिलषितुम् शीलमस्येति कामकामी खलु' वाक्यालङ्कारे'अयम्' इत्यध्यक्षः पुरुषःजन्तुः, यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान दुःखविशेषाननुभवतीति दर्शयति-'से सोयई त्यादि, स इतिकाभकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति, अथवा-शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च-"गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ? // 1 // " इत्यादि शोचते, तथा 'जूरइ' त्ति हृदयेन खिद्यते, तद्यथा- 'प्रथमतरमथेदं चिन्तनीयं तवासीबहुजनदयितेन प्रेम कृत्वा जनेन। हृतहृदय ! निराश ! क्लीब! संतप्यसे किं ? न हि जडगततोये सेतुबन्धाः क्रियन्ते॥१॥" इत्येवमादि, तथा 'तिप्पइ' ति तिपृ ते प्रक्षरणार्थी, तेपतेक्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीति यावत् , तथा शारीरमानसैर्दुःखैः पीज्यते-तथा परिः-समन्ताबहिरन्तश्च तप्यतेपरितप्यते. पश्चात्तापं वा करोति, यथेष्ट पुत्रकलत्रादौ कोपात् क्वचिद्गते समया नानुवर्तित इति परि-तप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टव्धान्तःकर-- | णानां दुःखावस्थासंसूचकानि, अथवा-शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति। उक्तं च- "भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किशिबिहितमशुभं यौवनमदात् / पुनः प्रत्या-सन्ने महति परलोकैकगमने, तदेवैकं पुंसांव्यथयतिजराजीर्णवपु-षाम्॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि। उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन / अतिरभसकृतानां, कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥" इत्यादि। कः पुनरेवं न शोचत इत्याह - आययचक्खू लोगविपस्सी, लोगस्स अहो भागं जाणइ उड्डूं भागं जाणइ तिरियं भागं जाणइ, गडिए लोए अणुपरियट्टमाणे संधिं विइत्ता इह मचिएहि, एस वीरे पसंसिए जे बद्ध पडिमोयए, जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो पूछ देहंतराणि पासइ पुढोविसवंताई पंडिएपडिलेहाए। (सू०६३) आयतं-दीर्घमहिकामुष्मिकापायदर्शि चक्षुः-ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयि-ठान् परित्यज्य शमसुखमनुभवति, किं च- 'लोगविपस्सी' लोकविषयानुषडावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी, अथवा-लोकस्य ऊर्ध्वाधस्तिर्यगभागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एत-दर्शयति-'लोगस्स' इत्यादि,लोकस्य-धर्माधर्मास्तिकायाव-च्छिन्नाकाशखण्डस्याधोभागं जानातीति, स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः यादृक्तत्र सुख-दुःखविपाको भवतितंजानाति, एवमूर्द्धवतिर्यग्भागयोरपि वाच्यम्, यदि वा-लोकविदर्शीतिकामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्यु-पपन्नं लोकं पश्यतीति / एतदेव दर्शयितुमाह'गड्डिए' इत्यादि, अयं हि लोको गृद्धः-अध्युपपन्नः कामानुषड्ने तदुपाये वा तत्रैवानु-परिवर्त्तमानो भूयो भूयस्तदेवाचरस्तजनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमानः-पर्यटन्नायतचक्षुषो गोचरीभवन् कामामिलाषनिवर्तनाय न प्रभवति ? यदि वा-काभगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च- 'संधिम्' इत्यादि, इह मर्येषुमनुजेषु यो ज्ञानादिको भावसन्धिः, स च मर्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्; अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति- 'एस' इत्यादि, एषः-अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेता परित्यक्तविषयतर्षों वीरः कर्मविदारणात् प्रशंसितः-स्तुतः विदिततत्त्वैरिति। स एवंभूतः किमपरं करोतीति चेदित्याह- 'जे बद्धे' इत्यादि यो बद्धान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वा