________________ लोगविजय 731 - अभिधानराजेन्द्रः - भाग 6 लोगविजय तानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद् अनुपरिवर्तमानःपुनर्जन्म पुनमरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाये विशरारुण्यपि नित्यत्ताकृतमपिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति (जीवितस्वरूपम् 'आउ' शब्दे द्वितीयभागे 8 पृष्ठे गतम्) तथा-क्षेत्रम्शालिक्षेत्रादि वास्तुधवलगृहादिमम इदमित्येवमाचरतांसतांतत्क्षेत्रादिकं प्रेयो भवति, किं च-आरक्तम्-ईषद्रक्तं वस्त्रादि विरक्तम्-विगतरागं विविधरागं वा मणिः-इति रत्नवैडूर्येन्द्रनीलादि कुण्डलम्-कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य तत्रैव-क्षेत्रवास्त्वारक्तविरत्तवस्त्रमणिकुण्डलस्त्र्यादौ रक्तागृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्ति च-नात्र तपो वा-अनशनादिलक्षणम् दमो वा-इन्द्रियनो-इन्द्रियोपशमलक्षणो नियमो वा-अहिंसावतलक्षणः फलवान् दृश्यते, तथाहितपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीतिचेद्व्यूद्ग्राहितस्योल्लापः। किंचदृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः संपूर्ण यथावसरसंपादितविषयोपभोगं बालः-अज्ञः जीवितुकामः-आयुष्कानुभवनमभिलषन् लालप्यमानः-भोगार्थमत्यर्थ लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फलवान् न दृश्यते इत्येवमर्थ ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्तमानो जीवितक्षेत्रस्त्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैतितत्त्वेऽतत्त्वाभिनिवेशम्, अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति / उक्तं च- "दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशा // 1 // " इत्यादि। ये पुनरुन्मज्जच्छुभकर्मापादिताध्यवसायपुरस्कृतमो क्षास्ते किंभूता भवन्तीत्याह - "इणमेव नावखंति, जे जणा धुवचारिणो / जाईमरणं परिनाय, चरे संकमणे दढे||१||"नऽत्थि का, लस्सणागमो, (आचा०) तंपरिगिज्झदुपयं चउप्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाऊ वि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्डिए चिट्ठइ भोअणाए, तओ से एगया विविहं परिसिटुं संभूयं महोवगरणं भवइ, तं पि से एगया दायाया वा विमयंति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से डज्झइ, इय * से परस्सऽहाए कूराइं कम्माई वाले पकुय्वमाणे तेण दुक्खेण संमूढे वि प्परियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, अपारंगमा एएनो य पारंगमित्तए, आयाणिजंच आयाय तम्मि ठाणे न चिट्ठइ, वितहं पप्पश्खेयने तम्मि ठाणम्मि चिट्ठइ। (सू०८०) 'इणमेव' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा नावकाङ्कन्तिनाभिलषन्ति, ये जना ध्रुवचारिणो ध्रुवोमोक्षस्तत्कारणं च ज्ञानादिध्रुवं तदाचरितुंशीलं येषां तेतथा, धुतचारिणो वा धुनातीति धुतंचारित्रं तच्चारिण इति। किंच- 'जाई' इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वः, तत् परिज्ञाय-परिच्छिद्य ज्ञात्वा चरेत्-उद्युक्तो भवेत्, क ? संक्रमणे-संक्रम्यतेऽनेनेति संक्रमणंचारित्रंतत्र दृढोविश्रोतसिकारहितः परीषहोप-सर्गः निष्प्रकम्पो वा, यदिवा-अशङ्कमनाः सन् संयमंचर, न विद्यतेशङ्का यस्य मनसस्तदशङ्कम् : अशङ्कं मनो यस्यासावशङ्कमनाः-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोद-मादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसा) भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् सूयते / उक्तं च-"संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः / यदि नास्ति ततः किं स्यादस्ति चेन्नास्ति को हतः॥ 1 / / " इत्यादि। तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यम् , न चैतद्भावनीयम् , यथा-परुत्परारि वृद्धावस्थायां वा धर्म करिष्यामीति, यतः- 'नत्थि' इत्यादि नास्ति न विद्यते कालस्यमृत्योरनागमः-अनागमनमनवसर इति यावत्, तथाहि-सोपक्रमायुषोऽसुमतोन काचित्साsवस्था यस्यां, कर्मपावकान्तर्वर्ती जन्तुर्जतुगोलक इवन विलीयेत इति / उक्तं च- "शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितम् , धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् / यतिमयतिं प्रकाशमबलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि // 1 // " तदेवं सर्व कषत्वं मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यम् , (आचा०) ('सव्वे पाणा पियाउया' इत्यादीनां व्याख्या 'पियजीवि' शब्दे पञ्चमभागे६३६ पृष्ठे। आउ' शब्दे द्वितीयभागे 8 पृष्ठे चगता) तं परिगिज्झ तद्-असंयमजीवितं परिगृह्य आश्रित्य कि कुर्वन्तीत्याह-'दुपयं' इत्यादि, द्विपद-दासीकर्मकरादि चतुष्पदम्गवाश्वादि अभियुज्ययोजयित्वा अभियोगं ग्राहयित्वा व्यापारवित्वेत्युक्तं भवति, ततः किमित्यत आह- 'संसिंचियाणं' इत्यादि प्रियजीवितार्थमर्थाभिवृद्धये द्विपद-चतुष्पदादिव्यापारेण संसिच्य-अर्थनिचयं संवद्धर्थ त्रिविधेन-योग-त्रिककरणत्रिकण याऽपि काचिदल्पा परमार्थचिन्तायां बहूचपि फल्गुदेश्या (से) तस्यार्थारम्भिणः सा चार्थमात्रा / तत्र इतिद्विप-दाद्यारम्भे मात्रा इति-सोपस्कारत्वात्सूत्राणाम्, अर्थमात्रा-अर्थाल्पता भवति-सत्तां विभर्ति, किं भूता? सा, सूत्रेणैव कथयति-अल्पावा बह्री वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी'स' इत्यर्थवान् तत्र-तस्मिन्नर्थे गृद्धःअध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपाजनक्तेशम, नगणयति रक्षणपरिश्रमम्, न विवेचयतितरलताम, नावधारय