SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ लोगविजय 730 - अभिधानराजेन्द्रः - भाग 6 लोगविजय ति। तत्र यधुच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह- 'इय संखाय' इत्यादि, इतिरुपप्रदर्शने, इति-एतत्पूर्वोक्तनीत्योचावचस्थानोत्पादादिकम् परिसंख्यायज्ञात्वा को गोत्रवादी भवेद् ? यथाममोथैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत् ? तथाहि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोचैर्गोत्रनिमित्तमानवादी वा को भवेत् ? न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किंच-'कंसिवाएगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुथैर्गोत्रादिकेऽनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ? तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात् युज्येत गाद्धर्थ यदि तत्स्थान प्राप्तपूर्व नामविष्यत् , तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापकर्षों विधेयाविति, आह च-'तम्हा' इत्यादि, (आचा०) (मदस्थानसंबन्धः 'मयट्ठाण' शब्दे पञ्चमभागे 107 पृष्ठे गतः।) तदेव-मुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह- 'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवन्निति च भूतानि-असुभृतस्तेषु प्रत्युपेक्ष्य-पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किंजानीहि ? सातम्-सुखं तद्विपरीतमसात-मपि जानीहि, किंच कारणं साताऽसातयोः ? एतज्जानीहि, किं चाभिलषन्त्यविगानेन प्राणेन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथा-अयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां विभर्ति, साताभिलाष्यसातंच जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी। एवं च व्यवस्थिते सति किं विधेयमित्याह - समिए एयाणुपस्सी, तं जहा-अन्धत्तं बहिरत्तं मूयत्तं काणत्तं कुंटत्तं खुज्जत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ।(सू०७८) अथवा-भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात्, इत्ययमुपदेशः, नागाजुनीयास्तुपठन्ति-"पुरिसेणं खलुदुक्खुव्येअसुहेसए" पुरुषा-जीवः णमिति-वाक्यालङ्कारे, खलुः-अवधारणे, दुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेगसुखैषकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्यम्, तचावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकलपञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीषूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थयः, तत्परिपालनार्थ चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते- 'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाऽशुभं कर्म वक्ष्यमाणं चाऽन्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहीति सण्टङ्कः। तत्र 'समिति' रिति 'इणगता' वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्भवति, साच पञ्चधा, तद्यथा-इर्याभाषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तोर्यासमितिः-प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति,तदेवं पञ्चमहाव्रतोपपेतस्तवृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा-यदनुदर्श्यसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति- 'अन्धत्वमित्यादिना यावत्' विरूपरूपे फासे परिसंवेएइ' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते। (आचा०)(अन्धः कतिविध इति 'अन्ध' शब्दे प्रथमभागे 105 पृष्ठे गतम्।) ('ब-हिर' शब्दे पञ्चमभागे 1267 पृष्ठे बधिरवक्तवता गता। मूकभेदाः 'जड्डु' शब्दे चतुर्थभागे 1387 पृष्ठ गताः।) (काणत्वं महदुःखमिति 'काण' शब्दे तृतीयभागे 430 पृष्ठे गतम् / ) कुण्टत्वंपाणिय-कत्वादिकं कुब्जत्वं वामनलक्षणं वडभत्वं-विनिर्गतपृष्ठी वडभल-क्षणं श्यामत्वंकृष्णलक्षणं शबलत्यम्-ग्वित्रलक्षणं सहज पश्चाद्भाविवा कर्मवशगो भूरिशो दुःखराशिदेशीय परिसंवेदयते। किंच-सह प्रमादेनविषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन अनेकरूपाःसङ्कटविकटशीतोष्णादिभेदाभिन्ना योनीः संदधाति-संधत्ते च तुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः सम्यग्धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः तासु च नानाप्रकारासु योनिषु विरूपरूपान् नानाप्रकारान् स्पर्शान्-दुःखानुभवान् परिसंवेदयते, अनुभवतीत्यर्थः। तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयं वा गतः सन्नावबुध्यते, कर्तव्यं नजानातिकर्म-विपाकं नावगच्छति, संसारापसदतां नावधारयति, हिताहिते न गणयति, औचित्यमित्यनवगततत्त्वोमूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति।आहचसे अबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं आरत्तं विरतं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्तान इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपु-गणं वाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेइ। (सू०७६) 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्भावक्षत शरीरत्वाद्धतः, समस्तलोकपरिभूतत्यादुपहतः, अथवा-उथैर्गोत्र गर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दापयशःपटह हतत्वाद्धतः अभिमानोत्पादि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy