________________ लोगविजय 726 - अभिधानराजेन्द्रः - भाग 6 लोगविजय तिच्छेत्र्या प्रकर्षेण वेदितः- कथितः प्रतिपादित इति यावत् , एवम्भूतंच मार्ग ज्ञात्वा किं कर्तव्यमित्याह- 'जहेत्थ इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् 'कुशलोनिपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं नोपलिम्पयेः-न तत्र संश्लेषं कुर्या इति, विभक्तित्रिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वः प्रकारैः कुर्यास्त्वम्। इति-शब्दः परिसमाप्तौ, ब्रवीमिति पूर्ववत्। उक्तो द्वितीयोदेशकः। साम्प्रतं तृतीय आरभ्यते। अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादृढत्वमुक्तम्, तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उचैर्गोत्रोत्थापितः स्यात् अत-स्तद्व्युदासार्थमिदमभिधीयते। अस्य चानन्तरसूत्रेण सम्बन्धः'जहेत्थ कुसले नोवलिंपेज्जासि कुशलो निपुणः सन्नस्मिन्नु-धैर्गोत्राभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वम्। किं मत्वा ? इत्यतस्तदभिधीयते - से असई उचागोए असई नीआगोए, नो हीणे नो अइरित्ते, नो अपीहए, इय संखाय को गोयावाई ? को माणावाई 7 कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पहिलेह सायं / (सू०७७) 'स' इति संसार्यसुमान् असकृद्-अनेकशः उचैर्गोत्रे मानसत्कारार्हे उत्पन्न इति शेषः, तथा-असकृन्नीचैर्गोत्रे सर्वलोकावगीते, पौन:पुन्येनोत्पन्न इति। तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन द्विनवतिनामोत्तरप्रकृतिसत्कर्मा सन् तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्संघातबन्धनाङ्गोपा-नदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपाएता द्वादश कर्मप्रकृतीर्निर्लेप्याशीतिसत्कर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उचैर्गोत्रमुबलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽ-प्युवृत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिर्लेपिते तूचैर्गोत्रे द्वितीयचतुर्थों भङ्गो, तद्यथानीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्माता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्माता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यस्थैर्गोत्रस्योदयाभावादिति भावः / तदेवमुच्चैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुदलिते वा तिर्यक्ष्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावानिति / कीदृशः पुनः पुद्गलपरावर्त इति ? उच्यते, यदौदारिकवैक्रियतैजसभाषानापानमनःकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गलाः आत्मसात्परिणामिता भवन्ति तदापुद्गलपरावर्त इत्येके, अन्ये तु-द्रव्यक्षेत्रकालभावभेदाचतुर्दा वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्म- | भेदात् द्वैविरध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रियतैजसकार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः पुनर्यदैकशरीरेण सर्वपुद्गलाः स्पर्शिता भवन्ति तदा द्रष्टव्यः 1. क्षेत्रतो बादरो यदा क्रमोत्क्रमाभ्यां म्रियमाणेन सर्वे लोकाकाशप्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तु तदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्ध्या सर्व लोकाकाशं व्याप्नोति तदा ग्राह्यः 2, कालतो बादरो यदोत्सर्पिण्यवसर्पिणी-समयाः क्रमोत्क्रमाभ्यां मियमाणेनालिङ्गिता भवन्ति तदा विज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेण सर्वसमया नियमाणेन यदा छुप्ता भवन्ति तदाऽवगन्तव्यः 3, भावतो बादरो यदाऽनुभाग-बन्धाध्यवसायस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणं तु संयमस्थानावासरे प्रागेवाभ्यधायीति, सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानादारभ्य यदा सर्वेष्वपि क्रमेण मृतो भवति तदाऽवसेय इति / तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्यास्ते, मनुष्येष्वपि तदुदयादेव चावगीतेषु स्थानेषूत्पद्यते, तथाकलंकलीसत्त्वोऽपि द्वीन्द्रियादिषूत्पन्नः सन् प्रथमसमये एव पर्याप्त्युत्तरकालं वोचैर्गोत्रं बध्वा मनुष्येष्वसकृदुर्गोत्रमास्कन्दति, तत्र कदाचितृतीयभङ्गकस्यः पञ्चमभङ्गो पपन्नो वा भवति,तांविमौनीचैर्गोत्रं बध्नात्युच्चैर्गोत्रस्योदयः सत्कर्मतातूभयस्येति, तृतीयः, पञ्चमस्तूचैर्गोत्रं बध्नानितस्यैवोदयः सत्कर्मता तूभयस्य, षष्ठसप्तमभड़ौतूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, ती चेमौ बन्धोपरमे उच्चैर्गोत्रोदयः सत्कर्मता तूभयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरम-समयेनीचैर्गोत्रे क्षपिते उचैर्गोत्रोदयस्तस्यैव सत्कर्मतेति।तदेवमुचावचेषु गोत्रेषु असकृदुत्पद्यमानेनासुमता पञ्चभड़कान्तवर्तिना न मानो विधेयो नापि दीनतेति / तयो श्वोच्चावचयोः गोत्रयो-बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह- 'णो हीणे णो अइरिते' यावन्त्युच्चैर्गोत्रऽनुभावबन्धाध्यवसायस्थानकण्डकानि नीचैर्गोत्रेऽपितावन्त्येव, तानि च-सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि, तत उचैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकाण्डकार्थतयाऽपीति। नागार्जुनीयास्तु पठन्ति-" एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असई नीआगोए, कडगट्टयाए नो हीणे नो अइरिते" एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुधावचेषु गोत्रेषूत्पन्नः, स चोचावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति / तथाहि-उच्चैर्गोत्रकण्डक्रेभ्य एकमविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकर्षों न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यम् / यतश्चोचावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्त्तव्यमित्याह'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमः, जात्यादीनां मदस्थानानामन्यतमदपिनोईहेतापिनाभिलषेदपि, अथवा-नोस्पृहयेत्-नावकाङ्केदि