________________ लोगवाय 724 - अभिधानराजेन्द्रः - भाग 6 लोगविजय परिमितं जानाती' त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति / यदपि च कैश्चिदुच्यते-यथा "ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते। नचात्यन्तं सर्वजगत उत्पादविनाशौ विद्येते 'न कदाचिदनीदृशं जगदि' ति वचनात्। तदेवमनन्तादिकं लोकवादं परिहृत्य यथा-वस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारेतेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अजु' इति प्रगुणोऽव्यभिचारीतेनपर्यायेण स्वकर्मपरिणतिजनितेनते त्रसाः सन्तः स्थावराः संपद्यन्ते, स्थावरा अपिचत्रसत्वमश्नुयते। तथा प्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽप्नुवन्ति, न पुनर्यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति / __ एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह - दुसिए य विगयगेही, आयाणं सम्म रक्खए। चरिआसणसेज्जासु, भत्तपाणे अ अंतसो।।११।। विविधम्-अनेकप्रकारमुषितः-स्थितो दशविधचक्रवालसमाचार्या व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धिः साधुः एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयम् ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत् , यथा यथा तस्य वृद्धिभर्वतितथा तथा कुर्यादित्यर्थः / कथ पुनश्चारित्रादिपालितं भवतीति दर्शयतिचर्यासनशय्यासुचरणं चर्यागमनं साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यम् , तथा सुप्रत्युपेक्षितेसुप्रमार्जितेचासने उपवेष्टव्यम्, तथा शय्यायाम-वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयम्, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति-ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषू-पयुक्ते मुनिः सदा 'विगिंचए' त्ति विवेचयेद्-आत्मनः पृथक्कुर्यादित्यर्थः / ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपक श्रेण्यामारूढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागमप्रसिद्ध क्रममुल्लज्यादौ मानस्योपन्यास इति? अत्रोच्यते-माने सत्यवश्यंभावी क्रोधः क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति // 12 // तदेवं मूलगुणानुत्तरगुणांश्चोपदाधुना सर्वोपसंहारार्थमाह - समिए उ सया साहू, पंचसंवरसंवुडे। सिएहिअसिएभिक्खू, आमोक्खायपरिव्वए।॥१३॥ त्ति बेमि तुरवधारणे, पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपञ्चमहाव्रतोपेतत्वात्पञ्चप्रकारसंवरसंवृतः, तथा मनोवाकायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता-बद्धा अवसक्ता गृहस्थास्तेष्वसितः-अनवबद्धस्तेषु मूच्छमिकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिह्यमानो भिक्षुः-भिक्षणशीलो भावभिक्षुः आमोक्षाय अशेषकर्मापगमलक्षणमोक्षार्थं परिसमन्तात् ब्रजेः-संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः। इति अध्ययनसमाप्तौ ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति गतोऽनुगमः। साम्प्रतं नयास्तेषामयमुपसंहारः "सव्वेसि पि नयाणं, बहुविधवत्तव्वयं निसामित्ता / तं सव्वणय-विसुद्धं, जं चरणगुणट्ठिओ साहू // 1 // // 13 // सूत्र० 1 श्रु०१ अ०४ उ०। लोगविजय-पुं०(लोकविजय) भाविलोकस्य रागद्वेषलक्षणस्य विजयो निराकरणं यत्राभिधीयतेस लोकविजयः। आचाराङ्गस्य द्वितीयाध्ययने, स्था०६ ठा०३ उ०। प्रश्न०। लोकविजयेऽधिकाराः। तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादिश्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते / तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग निरदेशि-"लोओजह वज्झइजह यतं विजहियवं" ति इत्यनेन सम्बन्धेनायातस्याऽस्याऽध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति / तत्र सूत्रार्थकथनमनुयोगाः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि चोपक्रमादीनि, तत्रोपक्रमो द्वेधाशास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पनभेदात्, अनुगमो द्वेधा-सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाऽधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह - सयणे य अदढत्तं, वीयगम्मि माणो अ अत्थसारो अ। पुनरपि चारित्रशुद्ध्यर्थ गुणानधिकृत्याहएतेहिं तिहि ठावेहि, संजए सततं मुणी। उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए।। 12 // एतानि-अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-ईर्यासमितिरित्येक स्थानम्, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणा-समितिरित्येतच द्वितीय स्थानम् , भक्तपानमित्यनेनैषणासमितिरुपात्ता भक्तपानार्थं च प्रविष्टस्य भाषणसंभवद्भाषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रसवणादीनां सद्भावात्प्रतिष्ठापना-समितिरप्यायातेत्येतच तृतीय स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमीक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति / तथा-सततम्-अनवरतम् मुनिः-सम्यक् यथावस्थितजगत्त्रयवेत्ता उत्कृष्यते आत्मा दध्मातो विधीयतेऽनेनेत्युत्कर्षामानः, तथा-आत्मानंचारित्रं वा ज्वलयति-दहतीतिज्वलनःक्रोधः, तथा ममितिगहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये-अन्तर्भवतीति मध्यस्थोलोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायांस्तद्विपाकाभिज्ञो