SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ लोगमज्झवासिय 723 - अमिधानराजेन्द्रः - भाग 6 लोगवाय लोगमज्झवासिय-न०(लोकमध्यवासिक) अभिनयभेदे, स्था०४ ठा० 4 उ०। लोगमज्झावसाणिय-न०(लोकमध्यावसानिक) अभिनयभेदे, रा० / एतच नाट्यकुशललेभ्यो वेदितव्यम्। आ०म०१ अ०। एते नाट्यविधयोऽभिनयविधयश्च भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसे-याः। जं०५ वक्षः। लोगमत्थयत्थ-पुं०(लोकमस्तकस्थ) त्रैलोक्योपरिवर्त्तिनि सिद्धे, दश० 4 अ०॥ लोगरिसि-पुं०(लोकऋषि) तापसे, व्य० 10 उ०। लोगरूढिनिराकय-पुं०(लोकरूढिनिराकृत) मिथ्याभेदे, यथा शुचि नरशिरःकपालमिति। स्था०१० ठा०३ उ०। लोगववहारविरय-पुं०(लोकव्यवहारविरत) लोकयात्रानिवृत्ते, पञ्चा० 10 विव०। लोगवाइ-त्रि०(लोकवादिन्) लोकयतीति लोकः प्राणिगणस्तं वदितुं शीलमस्येति। बह्वात्मवादिनि,आचा०१ श्रु०१ अ० 1 उ०। लोगवाय-पुं०(लोकवाद) पाखण्डिनां पौराणिकानां वा वादे, सूत्र०। लोगवायं णिसामिज्जा, इहमेगेसि माहियं / विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं / / 5 / / 'लोगवायमि' त्यादि, लोकानां पाखण्डिनां पौराणिकानां वा वादो लोकवादः / यथा-स्वाभिप्रायेणाऽन्यथा वाऽभ्युपगमस्तं निशामयेत्शृणुयात् जानीयादित्यर्थः / तदेव दर्शयति-इह-अस्मिन्संसारे एकेषां केषांचिदिदमाख्यातम्-अभ्युपगमः / तदेव विशिनष्टि / विपरीतापरमादिन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्नं तत्त्वविपर्यस्तबुद्धिग्रथितमिति यावत्, पुनरपि विशेषयति-अन्यैरविवेकिभिर्यदुक्तं तदनुगं यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः। तमेव विपर्यस्तबुद्धिरहितं लोकवादं दर्शयितुमाह - अणंते निइए लोए, सासए ण विणस्सति। अंतवं णिइए लोए, इति धीरोऽतिपासइ // 6 // 'अणंते निइए लोए' इत्यादि, नाऽस्यान्तोऽस्तीत्यनन्तः। न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति / तथाहि-यो यादृगिह भवे स तादृगेव परभवेऽप्युत्पद्यते पुरुषः-पुरुष एव, अङ्गना-अङ्गनैवेत्यादि। यदि वाअनन्तः-अपरिमितो निरवधिक इति यावत् / तथा नित्य इतिअप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति / तथा-शश्वद्भवतीति शाश्वतो व्यणुकादिकार्यद्रव्यापेक्षया शश्वद्भवन्नपि न कारणद्रव्यं परमाणुत्वं परित्यजतीति। तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया, तथा-अन्तोऽस्यास्तीत्यन्तवान् लोकः 'सप्तद्वीपा वसुंधरेति' परिमाणोक्तेः; स च तादृक्परिमाणो नित्य इत्येवं धीरः कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवातिपश्यतीत्यतिपश्यति / तदेवंभूतमनेकभेदभिन्नं लोकवाद निशामयेदिति प्रकृतेन संबन्धः। तथा"अपुत्रस्यन सन्ति लोकाः, ब्राह्मणा देवाः, श्वानो यक्षाः, गोभिर्हतस्य | गोध्नस्य वान सन्ति लोका'' इत्येवमादिकं नियुक्तिकंलोकवाद निशामयेदिति। किञ्चअपरिमाणं वियाणाइ, इहमेगेसिमाहियं / सव्वत्थ सपरिमाणं, इति धीरोऽतिपासइ॥७॥ अपरिमाणमिति-न विद्यते परिमाणमियत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं तदेवंभूतं विजानाति कश्चित्तीर्थिकःतीर्थकृत् , एतदुक्तं भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा न पुनः सर्वज्ञ इति। यदि वाअपरिमितज्ञ इत्यभिप्रेतातिीन्द्रियदर्शीति, तथा चोक्तम्-"सर्वपश्यतु वा मा वा, इष्टमर्थतुपश्यतु। कोटसंख्यापरिज्ञान, तस्यनः कोपयुज्यते? // 1 // '' इति / इह अस्मिन् लोके एकेषांसर्वज्ञाऽपह्नववादिनाम् , इदमाख्यातम्-अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्यकाले वा परिच्छेद्यं कर्मतापन्नमाश्रित्य सह परिमाणेन सपरिमाणम्-सपरिच्छेदं धीःबुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति। तथाहि-ते ब्रुवते-दिव्यं वर्षसहस्रसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः // 7 // अस्य चोत्तरदानायाह - जे केइ तसा पाणा, चिटुंति अदु थावरा। परियाए अस्थि से अंजु,जेण ते तसथावरा // 8 // (जे के इति)ये केचित्त्रसाः-प्राणिनस्तिष्ठन्ति अथवा-स्थावराः तेषां स्वकर्मपरिणत्याऽयं पर्यायोऽस्ति ( अंजु इति ) प्रगुणोऽव्यभिचारी तेन पर्यायेण ते त्रसाः स्थावराः स्युः। त्रसत्वमनुभूय कर्मपरिणत्या स्थावराः स्थावरत्वमनुभूय त्रसाश्च भवन्तीति। ततो यो यादृगिह भवे सपरभवेऽपि तादृगिति नियमो न युक्तः॥ 8 // सूत्र० दी०१ श्रु०१ अ०४ उ०। ये केचनत्रस्यन्तीतित्रसा-द्वीन्द्रियादयः प्राणाः-प्राणिनः सत्त्वाः तिष्ठन्ति सत्वमनुभवन्ति, अथवा-स्थावराः-स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा-यो यादृगस्मिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, ततः स्थावराणां वसानां चतादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रिया सर्वा अप्यनर्थिका आपोरम् / लोकेनापि चान्यथात्वमुक्तम्, तद्यथा-"स वै एष शृगालो जायते यः सपुरीषो दह्यते' तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाधनिवारितप्रिति। (सूत्र०) लोकव्यवस्था 'लोक' शब्देऽस्मिन्नेव भागेऽनुपदमेव दर्शिता / तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादनाकर्णनीयमिति.। यदपि चोक्तम्-'अपरिमाणं विजानाती' ति, तदपि न घटामियति, यतःसत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि-तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव,यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्रापीत्याशङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात्, तस्मात्सर्वज्ञत्वमेष्टव्यम् / तथा यदुक्तम्-'स्वापबोधविभागेन
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy