________________ लोगट्ठि 715 - अभिधानराजेन्द्रः - भाग 6 लोगट्ठि अजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानां जीवैः संगृहीतत्वात् , अथ अजीवा जीवप्रतिष्ठितास्तथा अजीवा जीवसंगृहीता इत्ये-तयोः को भेदः ? उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच तस्य संग्राह्यं तत्तस्याऽयमप्यर्थापत्तितः स्याद् , यथा-अपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति 7 / तथा जीवाः-कर्मसंगृहीताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा-घटे रूपादय इत्येवमिहाप्याधाराधेयता दृश्येति। ' से जहानामए केइ'त्ति, स यथानामकः-यत्प्रकारनामा, देव-दत्तादिनामेत्यर्थः, अथवा-'से' इति स 'यथा' इति दृष्टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वत्थिं' ति बस्तिम् दृतिम्' आडोवेइ'त्ति, आटोपयेत्वायुना पूरयेत् , 'उप्पिं सियं बंधइ' त्ति उपरि सितम्-'पिञ्बन्धने' इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् कर्मार्थत्वाद्वा बन्धम्-ग्रन्थिमित्यर्थः बध्नातिकरोतीत्यर्थः, अथवा-'उप्पिंसि त्ति उपारि'त' मिति बस्तिम्-'से आउयाए' ति, सोऽप्कायस्तस्यवायुकायस्य 'उप्पिं ति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, यथा-वायुराधारो जलस्य दृष्ट एवमा-धाराधेयभावो भवति आकाशधनबातादीनामिति भावः। आधा-राधेयभावश्च प्रागेव सर्वपदेषु व्यज्जित इति / 'अत्थाह-मतारमपोरुसियंसि' त्ति, अस्ताघम्अविद्यमानस्ता-घम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमिवेत्यर्थः अत एवातारम्-तरीतुमशक्यम् , पाठान्तरेणापारम्-पारवर्जितं पुरुषः प्रमाणमस्येति पौरुषेयं तत्प्रतिषेधादपौरुषेयम् ततः कर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिकः, ‘एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः / भ०१श०६ उ०। आव०। स्था०। दसविधा लोगट्टिती पण्णत्ता,तं जहा-जणं जीवा उद्दा-इत्ता उद्दाइत्ता तत्थेवतत्थेव भुजो भुञ्जो पचायंति एवं एगालोगद्विती पण्णत्ता 1, जण्णं जीवाणं सता समियं पावे कम्मे कजति एवप्पेगा लोगट्ठिती पण्णत्ता 2, जणं जीवा सया समितं मोहणिजे पावे कम्मे कजति एवप्पेगा लोगट्ठिती पण्णत्ता ३,ण एवंभूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवप्पेगा लोगद्वितीपण्णत्ता,ण एवं भूतं वा भव्वं वा भविस्सं वा जं तसा पाणा वोच्छिजिस्संति थावरा पाणावोच्छिजिससंति तसा पाणा भविस्संति वा एवप्पेगा लोगट्टिती पण्णत्ता 5, ण एवं भूतं वा भव्वं वा भवि स्सं वाजं लोगे अलोगे भविस्सति, अलोगे वा लोगे भविस्सति * एवप्पेगा लोगट्टित्ती पण्णत्ता ६,ण एवं भूतं वा भव्वं वा भविस्सं वाजंलोए अलोएपविस्सति अलोएवालोएपविस्सति एवप्पेगा लोगद्विती७, जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवप्पेगा लोगहिती 8, जाव ताव जीवाण ता पोग्गलाण ता गतिपरिताते ताव ताव लोए जाब ताव लोगे ताव ताव जीवाण य पोग्गलाण ता गतिपरिताते एवप्पेगा लोगहिती 6, सवेसु विणं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कज्जति जेणं जीवा तापोग्गला तानो संचायंति बहिता लोगंता गमणयाते एवप्पेगा लोगहिती पण्णत्ता 10 / (सू०७०४) 'दसविहा लोगे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्व नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तंतेचासंख्येयप्रदेशे लोकेसमान्तीति लोकस्थितिरतः सैवेहोच्यते इत्येवं सम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत् केवलं लोकस्यपञ्चास्तिकायात्मकस्य स्थितिः-स्वभावः लोकस्थितिर्यदित्युद्देशे णमिति वाक्यालङ्कारे 'उद्दाइत्त' त्ति अपद्रायमृत्वेत्यर्थः, तत्थेव' तिलोकदेशे गतौयोनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः-पुनः पुनः प्रत्याजायन्तेप्रत्युत्पद्यन्त इत्येवमप्येका लोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया / अपिः क्वचिन्न दृश्यते 1 / अथ द्वितीया-'जन्न' मित्यादि, सदा प्रवाहतोऽनाद्यपर्यवसितं कालं 'समियं' ति निरन्तरं पापं कर्मज्ञानावरणादिकं सर्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियतेबध्यते इत्येवमप्येका अन्येत्यर्थः, सततं कर्मबन्धनमिति द्वितीया 2, 'मोहणिज्जे त्ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततं मोहनीयबन्धनं तृतीया 3, जीवाजीवानाम-जीवजीवत्वाभावश्चतुर्थी 4, त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५,लोकालोकयोरलोकलोकत्वेनाभवनं षष्ठी 6, तयोरेवान्योऽन्याप्रवेशः सप्तमी७, 'जाव ताव लोए ताव ताव जीव' त्ति यावल्लोकस्तावज्जीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः, 'जाव ताव जीवा ताव ताव लोए' त्ति, इह यावञ्जीवास्तावत्तावलोकः, यावति यावति क्षेत्रे जीवास्तावत्क्षेत्रं लोक इति भावार्थः, 'जाव तावे' त्यादि वाक्यरचना तु भाषामात्रमित्यष्टमी 8, यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी 6, सर्वेषु लोकान्तेषु'अबद्धपासपुट्ठति बद्धा-गाढश्लेषाः पार्श्वस्पृष्टाःछुसमात्रा येन तथा तेऽबद्धपार्श्वस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाः सन्त इति भावः, लोकान्ते स्वभावात् पुद्गलाः रूक्षतया क्रियन्ते रूक्षतया परिणमन्ति, अथवा- लोकान्तरस्वभावाद् या रूक्षता भवति तथा तेपुद्गला अबद्धपार्श्व-स्पृष्टाः-परस्परमसम्बद्धाः क्रियन्ते,किं सर्वथा ? नैवम् , अपितु-तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्म-पुद्गलाः, पुद्गलाश्चपरमाण्वादयः, 'नो संचायति' त्ति न शक्नुवन्ति बहिस्ताल्लोकान्ताद् गमनतायैगन्तुमिति, छान्दसत्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी 10, शेषं कण्ठ्यमिति। स्था० 10 ठा०३ उ०! अत्थि णं मंते ! सया समियं सहमे सिणेहकाये पव