________________ लोगंघयार 714 - अभिधानराजेन्द्रः - भाग 6 लोगट्ठि व्वगते वोच्छिज्जमाणे जायते ते वोच्छिन्जमाणे (सू० 3244) 'चउही' त्यादि व्यक्तम्-किन्तु लोके अन्धकारम्-तमिस्रं द्रव्यतो भावतश्च, यत्र यत्स्यात्संभाव्यते ह्यर्हदादिव्यवच्छेदे द्रव्यतोऽन्धकारम् , उत्पातरूपत्वात् तस्य छत्रभङ्गादौ रजउद्धातादिवदिति, वहिव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथा स्वभावात् दीपादेरभावादा, भावतोऽपि वा / एकान्तदुष्षमादावागमादेरभावादिति। स्था० 4 ठा०३ उ०। लोगकंत-न०(लोककान्त) लान्तककल्पे षष्ठदेवलोकविमाने, स०१३ सम० भ०। लोगगरिहणिज्ज-त्रि०(लोकगर्हणीय) जघन्ये, पं०व०३ द्वार। लोगग्ग-न०(लोकाग्र) ईषत्प्रारभाराख्ये (आव० 5 अ01) ऊर्ध्व लोकस्याग्रे (आ० चू०५ अ०1) सिद्धानां स्थाने, औ01 लोगग्गचूलिया-स्त्री०(लोकाग्रचूलिका)लोकस्य चतुर्दशरज्ज्वात्मकस्य चूलिका शिखररूपा लोकाग्रचूलिका / ईषत्प्राग्भाराख्यायां पृथिव्याम् , स०१२ सम०। लोगग्गपइट्ठाण-पुं०(लोकाग्रप्रतिष्ठान) ईषत्प्राग्भाराख्यपृथिवीस्थिते सिद्धे, औ०। लोगजत्ता-स्त्री०(लोकयात्रा) लोकव्यवहारे, द्वा० 11 द्वा० / लोक चित्तानुवृत्तिरूपे व्यवहारे, ध० 1 अधि०। लोगट्ठिइ-स्त्री०(लोकस्थिति) लोकव्यवस्थायाम् , स्था०। लोकस्थितिनिरूपणायाह - तिविहा लोगट्टिई पण्णत्ता, तं जहा-आगासपइट्ठिए वाए, वातपतिहिए उदही, उदहिपइट्ठिया पुढवी। (सू०१६३४) 'तिविहे' त्यादि कण्ठ्यम्, किन्तु लोकस्थितिः-लोकव्यवस्था आकाश-व्योम तत्र प्रतिष्ठितो-व्यवस्थित आकाशप्रतिष्ठितः, वातो. घनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात्, उदधिःघनोदधिः पृथिवी-तमस्तमःप्रभादिनकेति। स्था०३ ठा०३ उ०। स्वाध्यायप्रवृत्तस्य लोकस्थितिपरिज्ञानं भवतीति प्रतिपादयन्नाह - चउव्विहालोगडिती पण्णत्ता, तं जहा-आगासपतिहिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइडिया तसा थावरा पाणा / (सू०२८६) 'चउविहे' त्यादि, लोकस्य-क्षेत्रलक्षणस्य स्थितिः-व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-धनवाततनुवातलक्षणः, उदधिः-घनोदधिः, पृथिवी-रत्नप्रभादिका, साः-द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथिवीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीप्रतिष्ठितत्यात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनां चा-काशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम् , अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात् , शेष सुगममिति। स्था०४ ठा०२ उ०। छव्विहा लोगट्टिई पण्णत्ता, तं जहा-आगासपइट्ठिए वाए, वायपइट्ठिए उदही, उदधिपइट्ठिया पुढवी, पुढविपइट्ठिया तसा थावरा पाणा, अजीवा जीवपइट्ठिया, जीवा कम्मपइडिया। (सू०४६८) 'छविहे' त्यादि इदं पूर्वमेव व्याख्यातम्, नवरमजीवा औदारिकादिपद्गलास्ते जीवेषु प्रतिष्ठिता-आश्रिताः, इदं चानवधारणं बोद्धव्यम् , जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरहितोऽपि त्रसस्थावरवदिति, तथा जीवाः कर्मसु ज्ञानवरणादिषु प्रतिष्ठिताः प्रायस्तद्विरहितानां तेषामभावादिति। स्था०६ ठा०३ उ०। लोकान्तादिलोकपदार्थप्रस्तावाद् गौतममुखेन लोकस्थितिप्रज्ञापनायाह भगवं गोयमे समणं ०जाद एवं वयासी-कतिविहा गं भंते ! लोयद्विती पण्णत्ता? गोयमा! अट्ठविहा लोयहिती पण्णत्ता,तं जहा-आगासपइट्ठिए वाए 1, वायपइट्ठिए उदही 2, उदहिपइट्ठिया पुढवी 3, पुढविपइट्ठिया तसा थावरा पाणा, अजीवा जीवपइट्ठिया 5, जीवा कम्मपइट्ठिया 6, अजीवा जीवसंगहिया 7, जीवा कम्मसंगहिया 8 / से केणतुणं भंते ! एवं वुचइ ? अट्ठविहा० जाव जीवा कम्मसंगहिया ? गोयमा ! से जहानामए केइ पुरिसे वत्थिमाडोवेइ वत्थिमाडोवित्ता उप्पिं सितंबंधइ बंधइत्ता मज्झेणं गठिंबंधइबंधइत्ता उवरिल्लं गंठिं मुयइ मुयइत्ता उवरिल्लं देसं वामेह उवरिल्लं देसं वामेत्ता उवरिल्लं देसं आउयायस्स पूरेइ पूरेइत्ता उप्पिं सितं बंधइ बंधइत्ता मज्झिल्लं गंठिं मुयइ / से नूणं गोयमा ! से आउयाए तस्स वा-उयायस्स उप्पिं उवरितले चिट्ठइ ? हंता चिट्ठइसे तेणऽद्वेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमा-डोवेइ वत्थिमाडोवेइत्ता कडीए बंधइ बंधइत्ता अत्थाहमतारम-पोरसियंसि उदगंसि ओगाहेजा, से नूणं गोयमा! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठइ ? हंता चिट्ठइ, एवं वा अट्ठविहा लोयट्ठिई पण्णत्ता० जाव जीवा कम्मसंगहिया। (सू०५४) अयं सूत्राभिलापः आकाशप्रतिष्ठितो वायुः-तनुवातघन वातरूपः, तस्यावकाशान्तरोपरिस्थितत्वात् , 1 / आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति / तथा वातप्रतिष्ठित उदधिः-घनोदधिस्तनुवातधनवातोपरिस्थितत्वात् 2 / तथा उदधिप्रतिष्ठिता पृथिवी, धनोदधीनामुपरिस्थितत्वात् , रत्नप्रभादीनांबाहुल्यापेक्षया चेदमुक्तम्, अन्यथाईषत्प्राग्भारा पृथिवी आकाशप्रतिष्ठितैव 3 / तथा पृथिवी-प्रतिष्ठिता- स्वसा स्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथा आका-शपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति / तथा अजीवाः-शरीरादि-पुद्गलरूपा जीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् 5 / तथा जीवाः कर्मप्रतिष्ठिताः कर्मसु अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसारिजीवानामाश्रितत्वात्, अन्ये त्वाः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः। तथा