________________ लोक 712 - अभिधानराजेन्द्रः - भाग 6 लोगंतिय म्, केवलं राजन:- प्रतीताः परित्यक्तकामभोगा:-सर्वविरताः, एतचोत्तरपदयोरपि सम्बन्धनीयम् , सेनापतयः-सैन्यनायकाः प्रशास्तारो-लेखा-चार्यादयः, धर्मशास्त्रपाठका इति क्वचित् / स्था०३ ठा०१उ०।लोक्यत इति लोकः। लोकालोकस्वरूपे समस्तवस्तुस्तोमे, भ०१श०१ उ०। क्षेत्रे, सूत्र०२ श्रु०२ अ० स्थाने, यथा-देवलोकः। सूत्र०१ श्रु० 2 अ०३ उ० / लोकयतीति लोकः / एकद्वित्रिचतुःपञ्चेन्द्रियजीवराशौ, आचा० 1 श्रु०२ अ० 3 उ० / चतुर्दशभूतग्रामे, आचा०१श्रु०३ अ०२ उ० / तिर्यग्नरनारकिलक्षणजीवलोके, स०१ सम०। चतुर्गतिकसंसारे, भवाभवान्तरगतौ च। सूत्र०१ श्रु०१०१ उ०। प्रजायाम् , उत्त०३ अ० लोक्यते परिच्छिद्यते इति लोकः / रूपरसगन्धस्पर्शाद्यात्मके विषये, लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यमातापित्रादिः, आन्तरस्तुरागद्वेषादिस्तत्कार्य वा अष्टप्रकारं कर्मति। आचा०१ श्रु०१अ०५ उ०। दक्षजनसमूहे, अष्ट०३२ अष्ट। जन्मनि, स्था०८ ठा०३ उ०। पाखण्डिके, पौराणिके, सूत्र०१श्रु०१ अ० 4 उ०। लोकाचारे, बृ०३ उकालोकशास्त्रे, स्था०३ ठा० 4 उ०। परदर्शने, जीवा०७ अधि० / षष्ठदेवलोकविमानभेदे, तत्र हि-लोकसुलोक-लोकावर्त्त-लोकप्रभ-लोकान्त-लोकवर्ण-लोकलेश्यलोकरूपादीनि विमानानि सन्ति, स०१३ सम०। भुवने, सेन०। यथाप्रस्थादिना कश्चित्सवधान्यानि मिनुयादेवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजधन्योत्कृष्टावगाहनान् पृथिवीकायिकान् जीवान् यदि मिनोति ततः पृथिवीकायिका असंख्येयान् लोकान् पूरयन्तीत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयो-देशकवृत्ती, स्थावरचतुर्णां तु अङ्खलासंख्येयभागप्रमितिरव-गाहनोक्ता, अत एते पृथिवीकायिकाः कथं पूरयन्ति ? इति प्रश्नः, अत्रोत्तरम्-प्रस्थदृष्टान्ते सामान्योक्तावपि प्रत्याकाशमेकैक-पृथिवीकायिकजीवकल्पनया लोकरूपपल्यभरणं सम्भाव्यते, अन्यथा प्रज्ञापनासूत्रवृत्त्यादिग्रन्थान्तरविरोध इति॥८२॥ सेन०२ उल्ला०। जने, सेन०। लोका जिनकल्पिनं नग्नं पश्यन्तिन वा ? इति प्रश्नः, अत्रोत्तरम्-लोकास्तं नग्नं पश्यन्ति, यतः शास्त्रे लज्जाजेता जिनकल्पमङ्गीकरोतीति॥६०॥ सेन०३ उल्ला०। विषयसूची(१) कियत्प्रमाणो लोक इति रज्जुप्रमाणेन दर्शयति। (2) कोऽयं लोकः। (3) लोकस्यैकत्वं नामादिभेदतश्चाष्टविधत्वं च। (4) लोकस्त्रिविधः। (5) लोकश्चतुर्विधः। (6) ऊर्ध्वादिभेदात्त्रिविधो लोकः। (7) लोकमध्यद्वाराणि। (8) लोकस्य महत्त्वम्। (8) लोकस्य संस्थानम्। (10) अधोलोकक्षेत्रादिसंस्थानम्। (11) मरणादिस्वरूपं लोक एवातो लोकस्वरूपनिरूणम्। (12) अधोलोकादिक्षेत्रलोकः किं जीवोऽजीवो वा। (13) अयं लोकः किं जीवोऽजीवो वा। (14) लोकः कति महालयादिः। (15) अलोकः कतिमहालयः। (16) लोकैकप्रदेशगतं वक्तव्यविशेषनिरूपणम्। (17) असंख्येयेषु लोकेषु अनन्तानि रात्रिन्दिवानि। (18) लोकसम्मतो लोकः। (16) कुत्र लोको बहुसमः। (20) लोको धर्मास्तिकायादिभिः स्पृष्टः / (21) लोकस्य चरमान्तो जीवोऽजीवो वा। (22) ऊर्ध्वाधस्तिर्यग्लोकानामल्पबहुत्वम्। (23) त्रीणि लोके समानि। (24) लोकानां निःशीलत्वादिकम्। लोगंत-पुं०(लोकान्त) लोकाग्रलक्षणे सिद्धस्थाने, स्था० 6 ठा०३ उ० / लोको लोकशास्त्रं तत्कृतत्वात्तदध्येयत्वाचार्थशास्त्रादि तस्मादन्तो निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः।लौकिकसिद्धान्ते, स्था०३ ठा०४ उ०। ईषत्प्राग्भाराख्यायां पृथिव्याम्, आ०म०१ अ०। चउहि ठाणेहिं जीवा य पुग्गलायणो संचातेंति बहिया लोगंता गमणताते,तं जहा-गइअमावेणं 1 णिरुवग्गहयाए 2, लुक्खताए 3, लोगाणुभावेणं 4 / (सू०३३७) 'चउही' त्यादि, व्यक्तम्, परमन्येषां गतिरेव नास्तीति 'जीवायपोग्गला 'य' इत्युक्तम् , 'नो संचाए' त्ति न शक्नुवन्ति नालम् 'बहि य' त्ति बहिस्ताल्लोकान्तादलोके इत्यर्थः गमनतायै गमनाय गन्तुमित्यर्थः गत्यभावेन लोकान्तात्परतस्तेषां गतिलक्षणस्वभावाभांवदधोदीपशिखावत्तथा निरुपग्रहतया धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भाभावात्, गन्त्र्यादिरहितपडवत्, तथा रूक्षतया सिकतामुष्टिवल्लोकान्तेषु हिपुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं कर्म्म पुद्गलानां तथा भावे जीवा अपि सिद्धास्तु निरुपग्रहतयैवेति लोकानुभावेन-लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति। स्था०४ ठा०३ उ०। लोगंतिय-पुं०(लोकान्तिक) लोकान्तिकविमानवास्तव्येषु सारस्वतादिकेषु, स्था०। तेहिं ठाणेहिं लोगंतिया देवा माणुसं लोग हव्यमागच्छिज्जातं जहा-अरहंतेहिं जायमाणेहिं अरहंतेहिं पध्वयमाणेहिं अरहंताणं णाणुप्पायमहिमासु / (सू०१३४) 'तेही त्यादि कण्ठ्यम् , नवरं लोकस्य ब्रह्मलोकस्यान्तःसमीपं कृष्णराजीलक्षणं क्षेत्रं-निवासी येषां ते, लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिकाः, सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति। स्था०३ ठा०१ उ०। (तेच देवाः कण्हराइ' शब्दे तृतीयभागे 217 पृष्ठे दर्शिताः) (अष्टानामपि लोकान्तिकदेवानां स्थितिः 'ठिइ' शब्दे चतुर्थभागे 1726 पृष्ठे गता) लोकान्तिकदेवानां यथा-'पढम-जुअलम्मि सत्तसयाणी' ति सर्वेषां लोकान्तिकानां षष्ठाडोक्तः पत्तेअंपत्तेअंचउहिं सामाणिअसाहस्सीहिं' इत्यादिपरिवारः ? किं वा विमानाधिपतेः ? परं सामान्यतो लोकान्तिका देवा भगवन्तं विबोधयन्तीति दृश्यते न तु क्वापि तत्स्वामिन