________________ लोक 711 - अभिधानराजेन्द्रः - भाग 6 लोक त्यादि, इहायमेको द्विकसंयोगः त्रिकसंयोगेषु च द्वौ द्वौ कार्यो तेषु हि मध्यमभङ्गः, 'अहवाएगिदियदेसा य अणिंदियदेसा य बेंदियस्सय देसा' इत्येवंरूपो नास्तिद्वीन्द्रियस्य च देशा इत्यस्याऽसम्भवाद्यतो द्वीन्द्रियस्योपरितनचरमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र सम्भवति; न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अतएवाह-'एवं मज्झिल्लविरहिओ' ति।त्रिकभनक इति प्रक्रमः, उपरितनचरमान्तापेक्षया जीवप्रदेशप्ररूवणायामेवम् , 'आइल्लविरहिओ' त्ति यदुक्तं तस्यायमर्थः-इह पूर्वोक्तं भङ्ग-कत्रये प्रदेशापेक्षया, "अहवा-एगिदियपदेसा य अणिदियपएसाय बेइंदियस्स पदेसे" इत्ययं प्रथमभङ्गको न वाच्यः, द्वीन्द्रियस्य च प्रदेश इत्यस्याऽसम्भवात्तदसम्भवश्च लोकव्यापकावस्थानिन्द्रियवयंजीवानां यत्रैकप्रदेशस्तत्रासंख्यातानामेव तेषां भावादिति, 'अजीवा जहा दसमसए तमाए' त्ति अजीवानाश्रित्य यथा दशमशते, 'तमाए' त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य वाच्यम्, तचैवम्-'जे अजीवा ते दुविहा पण्णत्ता,तं जहा-रूवि अजीवा य, अरूवि जीवा, य जे रूवि अजीवा ते चउव्विहा पण्णत्ता, तं जहाखंधा० 4 जे अरूविअजीवा तेछव्विहा पन्नत्ता, तंजहा-नोधम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा' एवमधर्माकाशास्तिकाययोरपीति। लोगस्स णं भंते ! हिट्ठिल्ले' इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् , "अहवा एगिदियदेसा य बेइंदियस्स य देसा' इत्येवं रूपो मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरमान्तप्रकरणोक्तयुक्तेस्तस्याऽसम्भवादत एवाह'एवं मज्झिल्लविरहिओ' ति देशभङ्गका दर्शिताः। अथ प्रदेशभङ्गकदर्श-- नायाह-'पएसा आइल्लविरहिआ सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते' त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः, आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दो-पेतः, स च प्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न सम्भवति, सम्भवति च-'अहवा-एगिदियपएसा य बेइदियस्स पएसा,''अहवा-एगिंदियपएसा य बेइंदियाण य पएसा' इत्येतद्वयम्। 'सव्वेसिं' ति / द्वीन्द्रियादीनामनिन्द्रियान्तानाम् / 'अजीवे' त्यादि व्यक्तमेव / भ०१६ श०८ उ०। (22) ऊवधिस्तिर्यग्लोकानामल्पबहुत्वम् - एयस्सणं भंते ! अहेलोअस्स तिरियलोअस्स उड्डलोयस्सय कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवे तिरियलोए उड्डलोए असंखेजगुणे, अहेलोए विसेसाहिए। (सू०४५७x) 'सव्वत्थोवे तिरियलोए' त्ति अष्टादशयोजनशतायामत्वात् , 'उडलोए असंखेजगुणे ति किंचिन्न्यूनसप्तरज्जूच्छ्रितत्वात्। अहेलोए विसेसाहिए' त्ति किंचित्समधिकसप्तरज्जूच्छ्रितत्वादिति। भ०१३ श० 4 उ०। / (23) त्रीणि लोके समानि - ततो लोगे समा सपक्खि सपडिदिसिं पण्णत्ता, तं जहाअप्पइहाणे णरए जंबुद्दीवे दीवे सव्वऽसिद्धे महाविमाणे तओ लोगे समा सपक्खि सपडिदिसिं पण्णत्ते, तं जहा-सी मंतए णं णरए समयक्खेत्ते ईसीपब्भारा पुढवी। (सू०१४८) त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् , न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह-'सपक्खि' मित्यादि, पक्षाणां-दक्षिणवामादिपावा॑नां सदृशतासमता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात् , तथा प्रतिदिशांविदिशां सदृशता सप्रतिदिक्तेन समप्रतिदिक्तयेत्यर्थः, अप्रति-ष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा-जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुत्तराणां मध्यममिति। सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तदे नरकेन्द्रका पञ्चचत्वारिंशद्योजनलक्षाणि, समयः-कालः तत्सत्तोपलक्षित क्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भार:-पुद्गलनिचयो यस्याःसेषत्प्रारभारा-अष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षवाहल्यत्वात्, तथाहि-"पढमाऽसीइसहस्सा, बत्तीसा अट्ठवीसवीसा या अट्ठारस सोलस य, अट्ठसहस्सलक्खोवर कुज्जा / / 1 / / " इति। स्था० 3 ठा०१ उ०। (24) लोकानां निःशीलत्वादिकमाह - तओ लोगे णिस्सीला णिव्वता णिग्गुणा निम्मेरा णिप्पचक्खाणपोसहोववासा कालमासे कालं किया अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तं जहारायाणो मंडलिया जे य महारंभा कोडंबी। तओ लोए सुसीला सुव्वया सगुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किया सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तं जहा-रायाणो परिचत्तकामभोगा सेणावत्तीपसत्थारो। (सू०१५०) 'तओ' इत्यादि, निःशीला-निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते-निर्वताः-अविरताः प्राणातिपातादिभ्यो निर्गुणाउत्तरगुणाभावात् 'निम्मेर ति निर्यादाः-प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानंच-नमस्कारसहितादिपौषधः-पर्वदिनमष्टम्यादितत्रोपवासःअभक्तार्थकरणं स च तौ निर्गतौ येषां ते निष्प्रत्याख्यान-पौषधोपवासाः कालमासेमरणमासे कालम्-मरणमिति,'णेरइयत्ताए ति पृथिव्यादित्वव्यवच्छेदार्थम् , तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानःचक्रवर्तिवासुदेवाः,माण्डलिकाः-शेषाराजानः,येचमहारम्भाः पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषंकण्ठ्यम्॥अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह-'तओ' इत्यादि सुभम