________________ लोक 706 - अमिधानराजेन्द्रः - भाग 6 लोक 'उप्पञ्जिते ‘त्ति उत्पद्योत्पद्य विलीयन्ते-विनश्यन्ति, तथा परीत्ताःप्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया वा संक्षिप्ताः, जीवधना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् ' अणंता राइंदिया ' इत्यादि तस्योत्तरं सूचितम्, यतोऽनन्तपरीत्त जीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति। अथ लोकमेव स्वरूपत आह-' से ( नूणं) भूए ‘ति यत्र जीवघना उत्पद्य उत्पद्य विलीयन्ते स लोको भूतः-सद्भूतो भवनधर्मयोगात् , स चानुत्पत्तिकोऽपि स्याद्यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चानश्वरोऽपि स्यात् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्वयोऽपि किल भवतीत्यत आह-परिणतः-पर्यायान्तराणि आपन्नो नतु निरन्व-यनाशेन नष्टः / अथ कथमयमेवंविधो निश्चीयते? इत्याह'अजीवहिं ति अजीवैः-पुद्गलादिभिः सत्तां विभ्रद्भिरुत्पद्य-मानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः लोक्यते-निश्चीयते प्रलोक्यतेप्रकर्षेण निश्चीयते, भूतादिधर्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह' जे लोक्कइ से लोए 'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स लोकोलोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति / 'सपडिक्कमणं ति आदिमान्तिमजिनयोरेवावश्यकरणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचितत्प्रतिक्रमणम्, आह च-" सपडिक्कमणो धम्मो, पुरिमस्सय पच्छिमस्सय जिणस्स। मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं // १॥"ति॥अनन्तरं' देवलोएसु उववन्ना ' इत्युक्तम् / भ० 5 श०६ उ०। (स्वकीयैः स्वकीयैः पर्यायैः कृतोऽयं लोक इति' कडवाइ 'शब्दे 3 भागे 204 पृष्ठे गतम्) (लोकवादं लोगवाय' शब्दे वक्ष्यामि) (18) लोकसम्मतो लोकः - अस्ति लोकः स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी, सप्त-दीपा वसुंधरेति वा / अपरेषां तु-ब्रह्माण्डान्तर्वर्ती, अपरेषां तु-प्रभूतान्येवंभूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठन्ते।आचा०१ श्रु०८ अ०१उ० (पृथिव्याः चलाचलत्वविचारः। सर्वा अपि पृथ्व्यः अलोकंन स्पृशन्तीति व ' पुढवी ' शब्दे पञ्चमभागे 672 पृष्ठे ' भूगोल ' शब्दे 1564 पृष्ठे च दर्शितम् ) अनेकेषामत्र मतम्- ' लोकक्रियात्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थम् / अविदितपूर्व येषां, स्याद्वादविनिश्चित तत्त्वम्॥१॥ येषां तुपुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभि-प्रायेण कथंचिद् वा श्रयणाद्विवादाभाव इत्यादि। (आचा० 1 श्रु०८ अ०१ उ01) भूगोल 'शब्दे पञ्चमभागे 1564 पृष्ठे सर्वेषां मतं प्रतिपादितम्-अस्ति लोको नास्ति वेत्यादि, ध्रुवो लोकः अधुवो लोक इत्यादि च / (अस्ति लोकः इति ' अस्थिवाय ' शब्दे प्रथम-भागे 516 पृष्ठे उक्तम्) (नास्तिलोक इत्यस्य खण्डनम् भूगोल 'शब्दे पञ्चमभागे 1564 पृष्ठे विस्तरतो दर्शितम् / ध्रुवो लोकः अस्य खण्डनम् ' पुढवी ' शब्दे 672 पृष्ठे उक्तम्। अध्रुवो लोकः इति मरणनिरूपणे ' मरण शब्देऽस्मिन्नेव भागे 108 पृष्ठे उक्तम्। सादिको लोक इति' कम्म शब्द तृतीयभागे 243 पृष्ठे दर्शितम् ) / (16) कुत्र लोको बहुसमः - कहिणं भंते! लोए बहुसमे? कहिण भंते! लोए सव्वविग्गहिए पण्णते? गोयमा ! इमीसे रयणप्पभाए पुढवीए उवरिमहे-ट्ठिल्लेसु खुड्डागपयरेसु एत्थ लोए बहुसमे एत्थ णं लोए सव्व-विग्गहिए पण्णत्ते / कहि णं भंते ! विगहविगहिए लोए पण्णते? गोयमा! विग्गहडएएत्थणं विग्गहविगहिए लोए पण्णत्ते। (सू०४८६) ' कहि ण ' मित्यादि, ' बहुसमे त्ति अत्यन्तं समः, लोको हि क्वचिद्वर्द्धमानः क्वचिद्धीयमानोऽतस्तन्निषेधाद्वहुसमो वृद्धिहानि-वर्जित इत्यर्थः, ' सव्वविग्गहिए 'त्ति विग्रहो वक्त्रं लघुरित्यर्थः, तदस्यास्तीति विग्रहिकः सर्वथा विग्रहिकः सर्वविग्रहिकः-सर्व-संक्षिप्त इत्यर्थः, 'उवरिमहेट्ठिल्लेसु खुडागपयरेसु 'त्ति उवरिमो यमवधीकृत्योर्ध्वं प्रतरवृद्धिः प्रवृत्ता, अधस्तनश्च यमवधीकृत्याधः प्रतरप्रवृद्धिः प्रवृत्ता, ततस्तयोरुपरितनाधस्तनयोः क्षुल्लक-प्रतरयोः शेषपेक्षया लघुतरयो रज्जुप्रमाणायामविष्कम्मकयोस्तिर्यग्लोकमध्यभागवर्त्तिनोः 'एत्थ णं' ति एतयोःप्रज्ञापकेनोपदर्यमानतया प्रत्यक्षयोः 'विग्गहविग्गहिए 'त्ति विग्रहो-वक्त्रं तद्युक्तो विग्रहः-शरीरं यस्यास्ति स विग्रहविग्रहिकः ' विग्गहकंडए ' त्ति विग्रहो-वक्त्रं कण्डकम्-अवयवो विग्रहरूपं कण्डकं विग्रहकण्डकं तत्र ब्रह्मलोककूपर इत्यर्थः यत्र वा प्रदेशवृद्ध्या हान्या वा वक्त्रं भवति तद्विग्रहकण्डकम् तच्च प्रायो लोकान्तेष्वस्तीति / भ०१३ श०४ उ०।' अनन्तो नित्यश्च लोक ' इति यदभिहितं, तत्रेदमभिधीयते-यदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथा-प्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षवाधितत्वात्, न हि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च स्वपुष्पस्येवासद्रूपतैव स्यादिति। तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशित्वम् यदुच्यते-द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति। तथा यदुक्तम्'अन्त-वाँल्लोकः सप्तद्वीपावच्छिन्नत्वा 'दित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति। तथा यदप्युक्तम् , ' अपुत्रस्य न सन्ति लोका ' इत्यादित्येतदपि बालभाषितम् , तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् ? तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकग वराहादिभिव्याप्ता लोका भवेयुः, तेषां पुत्रबहुत्वसंभवात् , अथानुष्ठानमाश्रीयते तत्र पुत्रद्वये सत्येकेनशोभनमनुष्ठितम् ,अपरेण अशोभनमिति तत्र का वार्ता ? स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किंचिदेतदिति। सूत्र०१ श्रु० 1 अ०४ उ०। (20) धर्मास्तिकायादिभिर्लोकः स्पृष्टः - चउहिँ अस्थिकाएहिं लोगे फुडे पण्णत्ते, तं जहा-थम्मत्थिकारणं अधम्मत्थिकाएणं जीवत्थिकाएणं पुग्गलत्थिकाए ण