________________ लोक ७०७-अमिधानराजेन्द्रः - भाग 6 लोक योग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचारपरिहारार्थम्, कएते ? इत्याह-सकलगोलाः, नतु खण्डगोलः, अतोन नियतं किञ्चि-दुत्कृष्टपदं लभ्यते, यत एवं ततो बादरनिगोदादिग्रहण क्रियते उत्कृष्टपदे। अथ गोलकादीनां प्रमाणमाह - गोला य असंखेजा, हॉति निगोया असंखया गोले। एकेको उनिगोओ, अणंतजीवो मुणेयय्वो।।१२।। (भ०) (जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहनामानादिप्ररूपणा' ओगाहणा 'शब्दे तृतीयभागे 83 पृष्ठे गता) अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति बिभणिपुस्तेषां सर्वजीवानां च तावत्समतामाह - गोलो जीवो य समा, पएसओ जंच सव्वजीवा वि। होति समोगाहणया, मज्झिमओगाहणं पप्प // 23|| गोलको जीवश्च समौ प्रदेशतः-अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपि प्रदेशदशसहस्यामवगाढत्वात् , 'जंच 'त्ति यस्माच सर्वजीवा आपसूक्ष्मा भवन्ति समावगाहनका मध्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पञ्चप्रदेशसहस्राणि उत्कृष्टा तु पश्चदशेति द्वयोश्च मीलनेनार्डीकरणेन च दश सहस्राणि मध्यमा भवतीति। तेण फुडं विय सिद्धं, एगपएसम्मि जे जियपएसा। ते सव्वजीवतुल्ला, सुणसु पुणो जह विसेसहिया।। 24 // इह किलासद्भावस्थापनया कोटीशतसंख्याप्रदेशस्य जीवस्याकाशप्रदेशदशसहय्यामवगाढस्य जीवस्य प्रतिप्रदेश प्रदेशलक्ष भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्तिना जीवलक्षण गुणितं कोटिसहस्रं भवति, पुनरपि च तदेकगोलवर्त्तिना निगोदलक्षण गुणितं कोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव / तथाहि-कोटीशतसंख्यप्रदेश लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति। अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति दर्शाते - जं संति केइ खंडा, गोला लोगंतवत्तिणो अन्ने / वायरविग्गहिएहि य, उक्कोसपयं जमन्भहियं / / 25 / / यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्तिनः 'अन्ने ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूपऊनो भवति, पूर्णगोलकतायामेव तस्य-यथोक्तस्य भावात् , ततश्च येन जीवराशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्त-प्रमाणमेवेति तत्त्वतो विशेषाधिकंभवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणादुक्तेति, तथा बादरविग्रहिकैश्च बादरनिगोदादि-जीवप्रदेशेश्चोत्कृष्टपदं यद्-यस्मात्सर्वजीवराशेरभ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति / इयमत्र भावना-बादरविग्रहगतिकादीनामनन्तानां जीवानां सूक्ष्मजीवा संख्येयभागवर्तिनां कल्पनया कोटीप्रायसंख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशेः कोटीप्रायसंख्यस्य मध्यादुत्कर्षतोऽसंख्येयभागस्य कल्पनया शतसंख्यस्य विवक्षितसूक्ष्मगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येक जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानं कोट्यधिकं भवतीति। यस्मादेवम् - तम्हा सव्वेहिंतो, जीवहिंतो फुडं गहेयव्वं / उक्कोसपयपएसा,होति विसेसाहिया नियमा।।२६।। इदमेव प्रकारान्तरेण भाव्यते - अहवा जेण बहुसमा, सुहुमा लोएऽवगाहणाए य। तेणेक्केचं जीवं, बुद्धीऍ विरल्लए लोए / / 27 // यतो बहुसमाः-प्रायेण समाना जीवसंख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात् , खण्डगोलकेव्यभिचारपरिहारार्थ चेह बहुग्रहणं सूक्ष्माःसूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः लोके-चतुर्दशरज्ज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशंसहस्रेष्यवगाढत्वात् , तस्मादेक प्रदेशावगाढजीवप्रदेशानां सर्वजीवानां च समतापरिज्ञानार्थमेकैकं जीवंबुद्ध्या ' विरल्लए 'त्ति केवलिसमुद्घातगत्या विस्तारयेल्लाके / अयमत्र भावार्थः-यावन्तो गोलकस्यैकत्र प्रदेशे जीवप्रदेशा भवन्ति, कल्पनया कोटीकोटीदशकप्रमाणास्तावन्त एव विस्तारितेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति। अतएवाह - एवं पिसमा जीवा, एगपएसगयजियपएसे हिं। बायरबाहुल्ला पुण, हॉति पएसा विसेसहिया॥२८॥ एवमपि न केवलं' गोलो जीवो यसमा इत्यादिना पूर्वोक्तन्यायेन समा जीवा एकप्रदेशगतैर्जीवप्रदेशैरिति, उत्तरार्द्धस्य तु भावना, प्राग्वदवसेयेति। __ अथ पूर्वोक्तराशीनां निदर्शनान्यभिधित्सुः प्रस्तावयन्नाह - तेसिं पुण रासीणं, निदरिसणमिणं भणामि पचक्खं / सुहगहणगाहणत्थं, ठवणा रासिप्पमाणेहिं / / 26 // गोलाण लक्खमेकं, गोले गोले निगोयलक्खं तु / एकेके य निगोए, जीवाणं लक्खमेककं // 30 // कोडिसयमेगजीव-प्पएसमाणं तमेय लोगस्स। गोल-निगोय-जियाणं,दस उसहस्सा समोगाहो // 31 // जीवस्सेकेकस्सय, दससाहस्सावगाहिणोलोगे। एकेक्कम्मि पएसे, पएसलक्खं समोगाढं // 32 // जीवसयस्स जहन्ने, पयम्मि कोडी जियप्पएसाणं। ओगाढा उक्कोसे, पयम्मि वोच्छं पएसग्गं // 33 // कोडिसहस्सजियाणं, कोडाकोडीदसप्पएसाणं।