________________ लोक 706 - अभिधानराजेन्द्रः - भाग 6 लोक उकोसपए य तहा, सव्वजियाणंच के बहुया ? ॥१॥इति प्रश्नः, उत्तरं पुनरत्र - थोवा जहण्णयपए, जियप्पएसा जिया असंखगुणा। उक्कोसपयपएसा, तओ विसेसाहिया भणिया॥२॥ अथजघन्यपदमुत्कृष्ठपदं चोच्यते - तत्थ पुण जहन्नपयं, लोगंतो जत्थ फासणा तिदिसिं। छहिसिमुकोसपयं, समत्तगोलम्मि णण्णत्थ // 3 // तत्र-तयोर्जघन्येतरपदयोर्जघन्यपदंलोकान्ते भवति' जत्थ 'त्ति यत्र गोलके स्पर्शना निगोददेशस्तिसृष्वेव दिक्षु भवति शेष-दिशामलोकेनावृतत्वात् , सा च खण्डगोल एव भवतीति भावः 'छद्दिसिं ' ति यत्र पुनर्गोलकेषट्स्वपिदिक्षु निगोददेशैः स्पर्शना भवति तत्रोत्कृष्टपदं भवति तय समस्तगोलैः परिपूणगोलके भवति, नान्यत्र, खण्डगोलके न भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति। अथपरवचनमाशङ्कमान आह - उक्कोसमसंखगुणं, जहन्नयाओ पयं हवइ किंतु? नणु तिदिसिं फुसणाओ, छदिसिं फुसणा भवे दुगुणा / / 4 / / उत्कर्षम्-उत्कृष्टपदमसंख्यातगुणं जीवप्रदेशापेक्षया जघन्यकात्पदादिति गम्यं भवति, किन्तु-कथं तु, न भवतीत्यर्थः, कस्मादेवम् ? इत्याह-ननु-निश्चितम् , अक्षमायां वा ननुशब्दः, त्रिदिक्स्पर्शनायाः सकाशात् षड्दिकस्पर्शना भवेद् द्विगुणेति, इह च काकुपाठाद्धेतुत्वं प्रतीयत इति, अतो द्विगुणमेवोत्कृष्ट पदं स्यादसंख्यातगुणं च तदिष्यते, जघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसंख्यातगणसर्वजीवेभ्यो विशेषाधिकजीवप्रदेशोपेत-त्वात्तस्येति / इहोत्तरम् - थोवा जहन्नयपए , निगोयमित्तावगाहणाफुसणा। फुसणासंखगुणत्ता , उक्कोसपए असंखगुणा // 5 // स्तोका-जीवप्रदेशा जघन्यपदे कस्मात् ? इत्याह-निगोदमात्रे क्षेत्रेऽवगाहना येषां ते तथा, एकावगाहना इत्यर्थः, तरेव यत्स्पर्शनम्अवगाहनं जघन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं तस्मात् , खण्डगोलकनिष्पादकनिगोदैस्तस्यासंस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेशसदृशो हि जघन्यपदाख्यः प्रदेशः, तं चालोकसम्बन्धादेकावगाहनाएव निगोदाः स्पृशन्ति;नतुखण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं स्पृशति, तस्य च प्रत्येक कल्पनयैव प्रदेशलक्षं तत्रावगाढमित्येवंजघन्यपदे कोटी जीवप्रदेशानामवगादैत्येवं स्तोकास्तत्र जीवप्रदेशा इति / अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते-' फुसणासंखगुणत्त ' त्ति स्पर्शनायाः-उत्कृष्टपदस्य पूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनाया यदसंख्यातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुत्कृष्टपदेसंख्यातगुणा जीवप्रदेशा जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदरेकावगाहनैरसंख्येयैः तथोत्कृष्टपदाविमोचने-नैकैकप्रदेशपरिहारानिभिः प्रत्येकसंख्येयैरेव स्पृष्टम् , तच किल कल्पनया कोटीसहस्त्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाहनाजीवप्रदेशानां दशकोटीकोट्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसंख्येयगुणा भावनीया इति। अथ गोलकप्ररूपणायाह - उक्कोसपयममोत्तुं ,निगोयओगाहणाए सव्वत्तो। निफाइजइ गोलो,पएसपरिवुड्डिहाणीहिं॥६॥ उत्कृष्टपद-विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः सर्वतः-सर्वासु दिक्षु निगादान्तराणि स्थापयद्विर्निष्पाद्यते गोलः, कथम्?, प्रदेशपरिवृद्धिहानिभ्यांकांश्चित्-प्रदेशान् विवक्षितावगाहनाया आक्रामद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः, एवमेक-गोलकनिष्पत्तिः। स्थापना चेयम्-० गोलकान्तरकल्पनायाह - तत्तो चिय गोलाओ, उक्कोसपयं मुइत्तु जो अन्नो। होइ निगोओ तम्मि वि, अन्नो निष्फज्जती गोलो // 7 // तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, कथम् ? उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति। तथा च यत्स्यात्तदाह - एवं निगोयमेत्ते, खेत्ते गोलस्स होइ निप्फत्ती। एवं निप्पजंते, लोगे गोला असंखिज्जा॥८॥ एवम्-उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्तिः, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशात्, एवं च निष्पद्यन्ते लोके गोलका असंख्येयाः, असंख्येयत्वात् निगोदावगाहनानाम् , प्रतिनिगोदावगाहनं च गोलकनिष्पत्तेरिति / अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्य-मुतान्यत् ? इत्यस्यामाशङ्कायामाह - ववहारनएण इमं, उन्कोसपया वि एत्तिया चेव। जं पुण उक्कोसपयं, नेच्छइ यं होइ तं वोच्छं // 6 // व्यवहारनयेन-सामान्येन इदम्-अनन्तरोक्तमुत्कृष्टपदमुक्तम् , काका चेदमध्येयम्, तेनं नेहेदं ग्राह्यमित्यर्थः स्यात्, अथ कस्मादेवम् ? इत्याह'उक्कोसपया वि एत्तिया चेव' त्ति न केवलं गोलक असंख्येयाः उत्कर्षपदान्यपि परिपूर्णगोलकप्ररूपितानि एतावन्त्येवअसंख्येयान्येव भवन्ति यस्मात्ततोन नियतमुत्कृष्टपदं किञ्चनस्यादिति भावः, यत्पुनरुत्कृष्टपदं नैश्चयिकं भवति सर्वोत्कर्षयोगाद्यदिह ग्राह्यमित्यर्थः तद्वक्ष्ये। तदेवाह - बायरनिगोयविग्गह-गइयाई जत्थ समहिया अन्ने। गोला हुन्ज सुबहुला, नेच्छई पयं तदुक्कोसं // 10 // बादरनिगोदानां-कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः,आदिशब्दश्चेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये-सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका भवेयुः सुवहवो नैश्चयिकपदं तदुत्कर्षम्, वादरनिगोदा हि पृथिव्यादिषु पृथिव्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न सूक्ष्मनिगोदवत्सर्वत्रेत्यतो यत्र क्वचित्रे भवन्ति तदुत्कृष्टपदं तात्त्विकमिति भावः। एतदेव दर्शयन्नाह - इहरा पहुच सुहुमा, बहुतुल्ला पायसो सगलगोला। तो बायराइगहणं, कीरइ उक्कोसयपयम्मि // 11 // 'इहर' त्ति बादरनिगो दाश्रयणं विना सूक्ष्मनिगो दान् प्रतीत्य बहुतुल्याः-निगोदसंख्यया समानाः प्रायशः, प्रा