________________ 48 - अभिधानराजेन्द्रः - भाग 6 मरग नमाज्ञपु स्वजनाऽदिषु च भ्रमन् विकल्पकोटिकोटि प्राप्त इष्टान विषयानिच्छन अनिष्टान् विषयान् अनिच्छन् वातोद्भूतशुष्कपलाशवत भ्रमति / कदाचित् स्वपरविवेकरूपं भेदज्ञान प्राप्य अनन्तज्ञानदर्शनाऽऽनन्दमयं स्वीय भावं स्वत्वतया निर्धार्य इद विषयसाऽऽदिक न मम नाहम अस्य भोक्ता उपाधिरेव एषः, न हि भम कर्तृत्वं भोक्तृत्व ग्राहकरावंच. परवस्तूनां मया हि स्वरूपभ्रष्टेनेदं विहितं, साम्प्रतं जिनाऽगमाञ्जनेन जातस्वपरविवेकेन तेष रमणाऽऽरवादनं न युक्तम् इति विचार्य स्वरूपानन्तस्वभावगुणपर्यायस्याद्वादानन्ताऽऽत्मनि विश्रान्ति प्राप्तः, आत्मानन्ताऽऽनन्दसम्पन्नमयं ज्ञात्वा, परमात्मसत्तास्वरूप मनः भवति, स मनः अभिधीयत इति // 1 // य आत्मानुभवमग्नः स कीदृग भवति? तदाहयस्य ज्ञानसुधासिन्धा, परब्रह्मणि मनता। विषयान्तरसंचार-स्तस्य हालाहलोपमः।।२।। यस्येति-यसय जीवस्य अनादिविभावविरतस्य ज्ञानसुधासिन्धी परबहाणि ज्ञानामृतसमुद्ररूपे परमात्मसमाधौ मग्नस्य तस्य जीवस्य विषयान्तरे वर्णगन्धाऽऽदौ संचारः प्रवर्तनं हालाहलोपमः-महाविषभक्षणतुल्यः। यो हि अमृतस्वादमग्नः स विषमविष भोक्तु कथं प्रवर्तते ? मालतीभोगमनः मधुकरः करीराऽऽदिषु न वसति, एवं शुद्धनिःसङ्गनिरामयनिर्द्वन्द्वस्वीयाऽऽत्मज्योतिर्मग्नः अनन्तजीवेष्टषु स्वयम् अनन्तवारभुक्तमुक्लेषु, वस्तुतः अभोग्येषु स्वगुणाऽऽवरणहेतुभूतेषु विषयेषु, तस्य मानः न संचरति न प्रवति इति तत्त्वम् / / 2 / / पुनस्तदेव द्योतयति - स्वभावसुखमनस्य, जगत्तत्वावलोकिनः। कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते // 3 // 'स्वभावसुख इति / ' 'स्वभावं' सहजं सुखं सहजाऽऽत्यन्तिकैकान्ताऽनन्द तत्र 'मनस्य तन्मयस्य, 'जगत् लोकः तस्य तत्त्वं तद्धर्म, यथार्थतया विलोकिनः दर्शनशीलस्य पुरुषस्य, अन्यभावानां परभावाना रागाऽऽदिविभावानां ज्ञानाऽवरणाऽऽदिकर्मणां बाह्यस्कन्धादाननिक्षेपाणां कर्तुत्वं न, किं तु ज्ञायकस्वभावत्वात, साक्षित्वमेव, तर कर्तृत्वम् एकाधिपत्ये क्रियाकारित्वं, तत, जीवे जीवगुणानामेव, चेतनवीर्यो - पकरणकारकचक्रोपकरणेन / यतो हि एकाधिपत्यक्रियाशून्यत्वेन धर्माऽऽदिद्रव्येषु न कर्तृत्वं, जीवस्यापि कर्तृत्व स्वकार्यस्य। न हि जीवः कोऽपि जगत्कर्ता, किं तु स्वकीयपरिणामिकगुणपर्यायप्रवृत्तेरेव कर्ता न, परभावाना तु कर्तृत्वे असदारोपसिध्यभावाऽऽदयो दोषाः, ज्ञाता लोकालोकस्य, अत एव नायं परभावानां कर्ता, किं तु स्वभावमूढोऽ. शुद्धपरिणतिपरिणतः! अशुद्धनिश्चयेन रागाऽऽदिविभावस्य, अशुद्धव्यवहारेण ज्ञानाऽऽवरणाऽऽदिकर्मणा कर्ता जातोऽपि स एव सहजसुखरुचिरनन्ताविनाशिस्वरूपसुखमयमात्मानं ज्ञात्वा, आल्मीयपरमाऽऽनन्दभोगी, न परभावानां कर्ता भवति, किंतु ज्ञापक एव। अत्र प्रस्तावना, अयं हि आत्मा स्वनिः सपत्नसङ्गाङ्गितया स्वीय विशेषस्वभावानां | सगुणकरणेन सत्प्रवृत्तिमतामपि स्वगुणकरणाऽवरणेन ज्ञानचेतनावीर्याऽऽदिक्षयोपशमानां च परानुयायिना तत्सहकारेण कर्तृत्वाऽऽदिपरिणामाना परकर्तृत्वाऽदिविभावपरिणमनेन परकर्तृत्व जाते ऽपि तेषामेव गुणानां स्वभावसंमुखीभवने कर्तृत्वाऽऽदीनां परावृत्तिः, तेन सम्यग् - दर्शनज्ञानचारित्रपरिणतेः स्वरूपसाधनकतृत्वाऽऽदि कुर्वन गुणकरणे पूर्णः साधनकर्तृत्वं विधाय गुणप्रवृत्तिरूपं शुद्ध कर्तृत्वाऽऽदिकं करोति, अत एव साधकानां सन्मुनीनां स्वरूप संमुखानां न परभावकर्तृत्वम् इति, किंतु ज्ञायकत्वमेव अत्र पक्षः, तर्हि मुनानां परभावाकर्तृत्वे उक्त हेतुद्वयजन्यकर्मकर्तृता कुतः ? तत्राऽऽह-स्वस्वभावमग्नाना साधकमुनीनाम अनभिसंधिजवीर्यतदनुगतचेतनता कर्मबन्धकर्तृत्वमरित, तथापि स्वाऽयत्ताभिगुणप्रवृत्तीनां स्वभावानुगतत्वात अकर्तृत्वम्, अथवा - एवंभूतसिद्धत्वाऽस्वादाऽऽनन्दमग्नानां तु न परभावकर्तृता / अथवासम्यग्दर्शनाऽऽदिगुणाप्राप्तौ वस्तुस्व रूपविवरणन स्वरूपानुगतस्वशक्तित्वेन आत्मनः परभावकर्तृत्वं नास्त्येव, ज्ञायकत्वमेवेति / अतः स्वरूपरसिकानां सर्वभावज्ञापकत्वं कर्तृत्व स्वपरिणामिकभावस्य, अतः स्वाऽऽत्मानम् एकान्ते निवेश्य, अनादिभ्रान्तिज परभावकर्तृत्वभोक्तृत्व ग्राहकत्वाऽऽदिकं निवारणीयं स्वरूपाखण्डाऽऽनन्दकर्तत्वाऽऽदिकं करणीयम् / इति गाथार्थः / / 3 / / परब्रह्मणि मनस्य, श्लथा पौद्रलिकी कथा। क्वामी चामीकरोन्मादाः, स्फारा दाराऽऽदराः क्व च / / 4 / / परब्रह्मणीति-परब्रह्मणि परमाऽऽत्मनि मनस्य तन्मयस्य स्वरूपावलोकनरमणरक्तस्य, पौगलिकी पुद्गलसंबन्धिनी कथा नाम वार्ना, 'श्लथा' शिथिला इत्यर्थः / परत्वेन अग्राह्यत्वेन अभोग्यत्वेन निर्धारात यस्य कथाऽपि श्लथा तस्य ग्रहः कुतो भवति ? अत एव अमी चामीकरोन्मादाः तस्य कशुद्धाऽऽत्मगुणसंपद्वता चामीकरग्रह एवन परत्वात्; पावस्थाहेतुत्वात कुत उन्मादः ? च पुनः स्फारा देदीप्यमानाः दारा: वनिता तस्या आदराः क्व ? इति कुतः, नैवेति / स्वभावसुखभोगिनां पौगलिकभोग एव न तर्हि मोघा कुरागपटी अशुद्धविभावनटी दाराकटी तत्राऽऽदरः कथं भवति ? नैवेति / इति गाथार्थः / / 4 / / तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः। भाषिता भगवत्पादैः, सेत्थंभूतम्य युज्यते // 5|| तेजोलेश्या, इति-तेजोलेश्या चित्तसुखलाभलक्षणा झानाऽऽनन्दाऽऽस्वादाऽऽश्लेषरूपा तस्याः विवृद्धिः विशेषतः वर्द्धना, साधोः निर्गन्धस्य, पयोयवृद्धितः चारित्रपर्यायविवृद्धितः, भववत्पादेः भाषिता उक्ता, भगवत्यादौ पञ्चमाङ्गे सा निर्मलसुखाऽऽस्वादरूपा, इत्थंभूतस्य, आत्मज्ञानमग्नस्य रत्नत्रयैकत्वलीलामयस्य वाचंयमस्य युज्यते-घटतेनान्यस्य भन्दसवेगिनः / अत्र प्रस्तावना, तत्र प्रथम संयमस्वरूपमुच्यते-आत्मनि चारित्रनामगुणः अनन्तपर्यायोपेतानन्ताविभागरूपः अस्ति / तथा च विशेषाऽऽवश्यदानादिलब्धिपञ्चकं चारित्रं सिद्धस्याषीच्छन्ति, तदावरणस्य सत्राप्यभावात, आवरणाभावेचतदसत्वेक्षीणमोहाऽऽदिष्वपितदसत्त्वप्रसङ्गात् ततस्तन्मते चारित्राऽऽदीनां सिद्धावस्थायां सद्भावः / चारित्रं च चारित्रमो