________________ मग्ग 46 - अभिधानराजेन्द्रः - भाग 6 मग्ग हावृतं तच तत्त्य श्रद्धासम्यग्ज्ञानपूर्णाऽऽनन्देहाऽऽविर्भावपश्चात्तापाऽऽदिक्षयोपशमावस्थागतं च चारित्रमोहपुद्गलेषु उदयप्राप्तेषु भुक्तेषु अनुदितेषु विष्कम्भितेषु केषाश्चित् प्रदेशभोगिता नीतेषु | चारित्रगुणविभागानाम् आविर्भावो भवति, तत्र सर्वजघन्यसंयमस्थाने सर्वाऽऽकाशप्रदेशानन्तगुणतुल्यचारित्रप-र्यायप्राग्भावः प्रथमं संयमस्थानम्। "ते कित्तिया पएसा, सव्वाऽऽगासस्स मग्गणा होइ। तेतित्तिया पएसा, अविभागाओ अनंतगुणा।।" प्रथम संयमस्थानं सर्वोत्कृष्टदेशविरतिविशुद्धस्थानतः अनन्तगुणविशुद्ध, द्वितीयं संयमस्थानं प्रथमस्थानात अनन्ततमे भागे यावन्तः अविभागाः तावन्तः अविभागवृद्धौ भवन्ति, एवं तृतीयम्, एवं चतुर्थम्, एवमनन्तभागवृध्या अङ्गुलमात्राऽऽकाश क्षेत्रस्य अङ्गु लासंख्यभागाऽऽकाशप्रदेशप्रमाणसमानि स्थानानि भवन्ति, इदं प्रथमं कण्डकम् / ततः परम् असंख्यातभागवृद्धिरूपं द्वितीयं कण्डकम् / प्रथम संयमस्थानं प्रथम कण्डकं, धरसंयमस्थाने तावन्तो विभागाः, तेषाम् असंख्याततमे भागे यावन्तः अविभागास्तावन्तोऽधिकाः क्षयोपशमा भवन्ति, तद् द्वितीये कण्डके प्रथमं संमयस्थान, ततः असंख्येयानि स्थानानि अनन्तभागवृद्धिरूपाणि असंख्यभागप्रदेशराशिप्रमाणानि द्वितीयं कण्डकम् / ततः परम् एकम् असंख्यातभागवृद्धिरूप पुनः असंख्येयानि अनन्तभागवृद्धिरूपाणि तृतीयं कण्डक, तत एकम् असंख्यातवृद्धिरूपम्, एवम् अनन्तभागान्तरिताकुलासंख्येयभागमात्रम् असंख्यभागवृद्धिरूपम् अङ्गुलासंख्येयभागकण्डकमानस्थानरूपं द्वितीय स्थानम्। ततः संख्यातभागवृद्धिरूपं प्रथमं संयमस्थानम्। ततः पुनः अनन्तभागवृद्धिरूपाणि असंख्येयानि, त्तः पुनः एकम् असंख्यभागवृद्धिरूपं, ततः असंख्येयानि अनन्तभागवृद्धिरूपाणि, एवम्, अङ्गुलमात्रक्षेत्रासंख्यभागप्रदेशमानकण्डकेषु गतेषु एकसंख्यातभागवृद्धिरूपं स्थानम्, एवमङ्गुलासंख्येयभागतुल्यानि संख्येयभागवृद्धिस्थानानि गतानि, एवं संख्यातगुणवृद्ध्यसंख्यातगुणवृझ्यनन्तगुणवृद्धिरूपाणि असंख्येयानि संयमस्थानानि भवन्ति / ततः परं स्थानमसंख्येयगुणसंयमस्थानमानं भवति एकान्तरं तानि असंख्येयानि अनन्तभागवृद्धिरूपाणि संयमस्थानानि भवन्ति। सर्वसंयमस्थानसंख्यालोकसमानाः अलोके असंख्येयाऽलोकाऽऽकाशाः कल्प्यन्ते, तावत्प्रदेशराशितुल्यानि संयमस्थानानि भवन्ति उत्तरोत्तरनिर्मलानि / आदितः अनुक्रमसंयमस्थानाऽऽरोही नियमात् शिवपदं लभते प्रथमम् एव उत्कृष्टमध्यमसंयमस्थानाऽऽरोही नियमात् पतति / एवं प्रथमस्थानतः अनक्रमेण संयमक्षयोपशमी तस्य चारित्रपर्यायनिर्मलत्वेन चारित्रसुखस्वरूप भगवतीवाक्यम्। आलापश्च भगवत्याम्- "जे इमे अज्जताए समणा निग्गंथा विहरति एएण कस्स तेऊलेस वीतीयंति ? गोयमा ! मासपरियाए समणे निग्गथे वाणमंतराणं देवाणं तेऊलेस वीतीवयंति। दुमासपरिआए समणे णिग्गथे असुरिंदवजिआणं भवणवासीण तेऊलेस वीतीवयंति। एएल अभिलावेणं तिमासपरिआए समणे णिग्गथे असुरकुमाराणं देवाणं तेऊलेस वीतीवयंति / चउमासपरिआए गहगणणक्खत्ततारारूवाण जोइसिआणं तेऊलेसंवीतीवयंति। पंचमासपरिआए चंदिमसूरियाणं जोइसियाणं तेऊलेसं वीतीवयंति। छम्मास- | परिआए सोहम्मीसाणाणं तेऊले० / सत्तमासपरिआए सणंकुमारमाहिंदाणं तेऊले० / अट्ठमासपरिआए बंभलोगाणं लतगाणं तेऊलेसं वीतीवयंति / णवमासपरिआए महासुक्कसहस्साराणं देवाणं तेऊ०। दसमासपरिआए आणय-पाणयआरणचुयाणं देवाणं तेऊ० / इकारसमासपरिआए गेविजविमाणाणं देवाणं तेऊ०। बारसमापरिआए समणे निगंथे अणुत्तरोववाइयाणं देवाणं तेऊलेसं वीतीवयंति, तेण परं सुक्के सुक्काभिजाइए भवइ / तओ पच्छा सिज्झति० जाव अन्तं करेति, सेव भंते !" अस्य टीकायां लेश्याप्रकमादिदमाह- "जे इमे' इत्यादि। ये इमे प्रत्यक्षाः ''अज्जत्ताए त्ति, "आर्यतयापापकर्मबहिर्भूततया, अद्यतया अधुनातनतया, वर्तमानकालतया इत्यर्थः / 'तेऊलेसंति' तेजोलेश्या सुखारिसका, तेजोलेश्या हि प्रशसतलेश्योपलक्षण, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्ष्यते, 'वीतीवयंति' व्यति जन्ति व्यतिक्र गरिंदवजियाणं ति' चमरबलिवर्जिताना 'तेण पर, ततः परं, ततः संवत्सरात्परतः, 'सुक्केति' शुक्लो नामाभिन्नवृत्तोऽमत्सरी, कृतज्ञः, सदारम्भी, हितानुबन्धी, निरतिचारचरण इत्यन्ते, "सुक्काभिजाति त्ति" शुक्लाभिजात्यं परमशुक्लमित्यर्थः, अत एवोक्तम् आकिञ्चन्यं, मुख्यं ब्रह्मातिपर, सदागमं विशुद्धं सर्वशुक्लमिदं खलु नियमात्, संवत्सरादूर्ध्वम् एतच्च श्रमणविशेषमेवाऽऽश्रित्योच्यते, न पुनः सर्वएवंविधोभापति, अत्र मासपर्यायेति संयमश्रेणिगतसं यमस्था ना मासाऽऽदिपर्या प्रगतसंयमभावोल्लङ्घनेन तत्प्रमाणसंयमस्थानोल्लकी मुनिग्राह्य इति / अत्र परम्परासंप्रदायःजघन्यतः उत्कृष्ट यावत् असंख्येयलोकाऽऽकाशप्रमाणेषु संयमस्थानेषु कमाकमवर्तिनिर्ग्रन्थेषु मासतः द्वादशमाससंयमप्रमाणसंयमस्थानोल्लङ्घनोपरितने वर्तमानः साधुरीदृगदेवतातुल्यं सुखम् अतिक्रम्य वत्तते इति ज्ञेयम् / उक्त च-"मासाऽऽदिपर्याय वृद्ध्या, द्वादशभिः परं तेजः। प्राप्नोति तत्र चारित्री, सर्वदेवेभ्य उत्तमम्॥१॥''धर्मविदस्तेजश्चित्सुखलाभक्षणं वृत्तौ इत्येवम् आत्मसुखवृद्धिः आत्मज्ञानभग्नस्य भवति / / 5 / / ज्ञानमग्रस्य यच्छम, तदक्तुं नैव शक्यते। नोपमेयं प्रियाऽऽश्लेष-नापि तचन्दनद्रवैः / / 6 / / ज्ञानमग्नस्येति-ज्ञानमग्नस्य आत्मसुखोपलब्धियुक्तस्य, यत् शर्म सुखं स्पर्शज्ञानानुभवाऽऽनन्दंतत्वक्तुं नैव शक्यते, अतीन्द्रियत्वात् वागगोचरत्वात्, तद् अध्यात्मसुखं प्रिया मनोज्ञेष्टवनिता तस्या-आश्लेषैः, आलिङ्गनैः, तथा चन्दनद्रवैः चन्दविलेपनैर्नोपमीयते। यतः स्रक्चन्दनाऽऽदिजं सुखं वस्तुतः न सुखम्, आत्मसुखभ्रष्टैः सुखबुद्ध्या आरोपितं, लोके पुद्गलसंयोगजम् आरोपसुखं, जात्या दुःखमेव / उक्तं च विशेषाऽऽवश्यके - "जत्तो चिअपचक्खं, सोम्म ! सुहं नस्थि दुक्खमेवेदं। तप्पडियारविभत्त, तो पुण्णफलंति दुक्खं ति॥२००५॥ विसयसुहं दुक्खं चिय, दुक्खप्पडियारउ त्तिगिच्छि व्य। त सुंदरमुवयारओ, न उवयारो विणा तचं // 2006 / / (विशे०) सायाऽसायं दुक्खं, तव्विरहम्मि य सुह जओ तेणं। देहेदिएसु दुक्खं, सुक्खं देहिंदियाभावो / / 2011 / /