________________ लेसा ६६०-अमिधानराजेन्द्रः - भाग 6 लेसा ब्दोभिन्नक्रमोयोक्ष्यत्, उपशान्तः अनुद्भटतयोपशान्ताकृतिः जितेन्द्रियचवशीकृताक्षः एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् / / आर्तरौद्रेउक्तरुपे ध्याने-वर्जयित्वा परिहत्य धर्म शुल्के-प्रागुक्ते एव शुभध्याने साधयेत्-सतताभ्यासतो निष्पादयेत्, यः कीदृशः सन् ?, इत्याहप्रशान्तचित्तो दान्तात्मेति च प्राग्वत, पाठान्तरश्च ध्यायति यो विनीतविनयो दान्तः समितः- समितिवान् गुप्तश्च-निरुद्धसमस्तव्यापारः गुप्तिभिः-मनोगुप्तयादिभिः तृतीयार्थे सप्तमी, सच सरागः-अक्षीणनुपशान्तकषायतया वीतरागो वा ततोऽन्य उपशान्तः, पाठान्तरतः शुद्धयोगो वा-निर्दोष व्यापारो जितेन्द्रियः प्राग्वत्, स एतद्योसमायुक्तः शुल्कलेश्यां तुपरिणभति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषय त्वादपौनरुक्तयम्, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयम्, विशिष्टलेश्या वा वाऽपेक्ष्यैवं लक्षणाभिधानमिति नदेवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः / उत्त०३४ अ०। (20) सम्प्रति प्रदेशद्वाराभिधित्सया प्राह -- कण्हलेसाणं भंते ! कतिपदेसया पन्नत्ता?, गोयमा! अणंतपदेसिया पन्नत्ता, एवं० जाव सुक्कलेस्सा। (सू० 226) 'कण्हलेसाणं भंते! कइपएसिया' इत्यादिसुगमम् नवरमनन्तप्रदेशिकेति-अनन्तानन्तसंख्योपेताः प्रदेशाः-तद्योग्याः परमाणवो यस्याः कृष्णलेश्यायाः कृष्णलेश्याद्रव्यसंघातस्य सा अनन्तप्रदेशिका, अन्यथा-अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यताया एवाभावात्, एवं नीलादयोऽपि लेश्या वक्तव्याः, तथा चाह- 'एवं जाव सुक्कलेसा' इति। प्रज्ञा० 17 पद 4 उ०। अवगाहनाद्वारमाह - कण्हलेस्सा णं मंते ! कतिपएसोगाढा पण्णत्ता ?, गोयमा ! असंखेज्जा पएसोगाढापण्णत्ता, एवं० जाव सुक्कलेसा। (सू०२२९) 'कण्हलेस्सा णं भंते !' इत्यादि इह प्रदेशाः-क्षेत्रापदेशाः प्रतिपत्तव्यास्तेष्वेवावगाहप्रसिद्धेः, ते चानन्तानामपि वर्गणा नामाधारभूता असंख्येया एव द्रष्टव्याः सकलस्यापि लोकस्य प्रदेशानामसंख्यातत्वात्। वर्गणाद्वारमाहकण्हलेस्साए णं भंते ! केवतियाओ वग्गणाओ पण्णत्ताओ?, गोयमा! अणंताओवग्गणाओ, एवं० जावसुक्कलेसाए। (सू०२२९) 'कण्हलेसा णं भंते ! केवझ्याआ वग्गणाओ पण्णत्ताओ' इत्यादि इह वर्गणा औदारिकशरीरप्रायोग्यपरमाणुवर्गणावत् कृष्णलेश्यायोग्यद्रव्यपरमाणुवर्गणा गृह्यन्ते ताश्च वर्णादिभेदेन सामानजातीयानामेकसद्भावादनन्ताः प्रत्येतव्याः, एवं नील लेश्यादीनामपि वर्गणाः प्रत्येक वक्तव्यास्तथा चाह-- 'एवं० जाव सुक्कलेस्साए इत्यादि। प्रज्ञा०१७ पद 4 उ०। (21) अधुना स्थानद्वारमभिधित्सुराहकेवतिया णं मंते ! कण्हलेस्साणं ठाणा पन्नत्ता ?, गोयमा ! | असंखेजा कण्हलेस्साणं ठाणा पन्नत्ता, एवं. जाव सुक्कलेस्सा। 'केवइया णं भंते! कण्हलेसाणं ठाणा पन्नत्ता' कियन्ति भदन्त ! कृष्णलेश्यास्थानानि प्राकर्षापकर्षकृताः स्वरुपभेदाः प्रज्ञाप्तानि ?, सूत्रो च पुस्त्वं प्राकृतत्वात्, इह यदा भावरुपाः कृष्णादयो लेश्याश्चिन्त्यन्ते तदा एक कस्या लेश्यायाः प्रकर्षा पकर्षकृतस्वरुपभेदरूपाणि स्थानानि कालतोऽसंख्येयोत्सर्पि ण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽसंख्येयलोकाकाशप्रदेश प्रमाणानि, उक्तं च-"अस्संखेज्जाणुस्सप्पिणीण अवसप्पिणीण जे समया / संखाईया लोगा, लेस्साणं हों ति ठाणाई / 1 / / " नवरमशुभानां संक्लेशरुपाणि शुभानांच विशुद्ध रुपाणि, एतेषां च भावलेश्यागतानां स्थानानां यानि कारणभूतानि कृष्णादिद्रव्यवृन्दानि तान्यपि स्थानान्युच्यन्ते तान्येव चेह ग्राह्याणि, कृष्णादि द्रव्याणमेवेहोद्देशके चिन्त्यमानत्वात्,तानिच प्रत्येकमसंख्येयानि, तथाविधैकपरिणामनिबन्धनाना मनन्तानामपि द्रव्याणामेकाध्यवसायहेतुत्वेनैकत्वात्, तानि च प्रत्येकं द्विविधानि, तद्यथा-जघन्यान्युत्कृष्टानि च, जघन्यलेश्या स्थानपरिणामकारणानि जधन्यानि, उत्कृष्टलेश्या स्थानपरिणामकारणान्युत्कृष्टानि, यानि तु मध्यमानि तानि जघन्यप्रत्यासन्नानि जधन्येष्वन्तर्भूतानि, उत्कृष्टप्रत्यासन्नानि तूत्कृष्टेषु, एकैकानि च स्वस्थाने परिणाम गुणभेदतोऽसंख्येयानि, अत्रा दृष्टान्तोयथा स्फटिकमणेरलत्क कवशेन रक्तता भवति, सा च जघन्यर- , त्कतागुणालत्ककवशेनजघन्यरत्कता, एकगुणा (धिका) लत्ककवशेनैकगुणाधिक जघन्या, एवमेकैकगुणवृद्ध्या जघन्यायामेव रक्ततायाम संख्येयानि स्थानानि भवन्ति, तानि च व्यवहारतः स्तोकगुण त्वात् सर्वाण्यपिजघन्यान्येवोच्यन्ते, एवमात्मनोऽपिजघन्यै कगुणाधिकद्विगुणाधिकलेश्याद्रव्योपधानवशतो लेश्यापरिणाम विशेषा असंख्येया भवन्ति, तेच सर्वेऽपि व्यवहारतोऽल्पगुणत्वात् जघन्यव्यपदेशं लभन्ते, तत्कारणभूतानि च द्रव्याणामपि स्थानानि जघन्यानि, एवमुत्कृष्टान्यपि स्थानान्यसंख्येयानि भावनीयानि। प्रज्ञा० 17 पद 4 उ०। ग्रन्थान्तरतः पुनः स्थानद्वारमाहअस्संखिजाणणोस-प्पिणीण उस्सप्पिणीणजे समया। संखाईया लोगा, लेसाण हवंति ठाणाइं॥३३॥ असंख्येयानां-संख्यातीतानाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाण जन्तूनां वा शरीरायुः प्रमाणादिकमपेक्ष्य हासमनु भवन्त्यवश्यमित्यवसर्पिण्यो दशसागरोपमकोटीकोटिपरिमाणा स्तासां तथा तत्परिमाणानामेव उत्सर्पन्ति उक्तन्यायतो वृद्धि मनुभवनित अवश्यमित्युत्सपिण्यस्तासां ये समयाः परमनिरुद्ध काललक्षणाः कियन्त इत्याहसंख्यातीताः पाठान्तरतोऽसंख्येया वा लोका असंख्येयलोकप्रमितत्वेन यथा दशप्रस्थप्रमितत्वेन ब्रीहयो दशप्रस्थाः , ततोऽयमर्थः-असंख्येयलोकाकाशप्रदेशपरिमाणानिलेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरुपाणि, शुभानां च विशुद्धिरुपाणि तत्परिमाणानीति शेषः, यद्वा-असंख्येयोत्सर्पिण्यवसर्पिणानां ये समया ग