________________ लेसा 686 - अमिधानराजेन्द्रः - भाग 6 लेसा ष्कसूत्रं नोक्तम्, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकान वतारादिति / स्था० 3 ठा०१ उ०। (20) लक्षणद्वारम्पंचासवप्पमत्तो, तीहि अगुत्तो छस्सु अविरओ य। तिवारंभपरिणओ, खुद्दो साहस्सिओनरो॥२१॥ निद्धंधसपरिणामा, निस्संसो अजिइंदिओ। एयजोगसमाउत्तो, कण्हलेसं तु परिणमे // 22 // इस्साअमरिसअतवो, अविजमाया अहीरिया। गेही पओसे य सढे, रसलोलुए सायगवेसए य / / 23 / / आरंभा विरओ, खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो, नीललेसं तु परिणमे // 24 // बंके बंकसमायारे, नियडिल्ले अणुज्जुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए।।२५।। उम्फालगदुहवाई य, तेणे अविय मच्छरी। एयजोगसमाउत्तो, काउलेसं तु परिणमे // 26|| नीआवित्ती अचवले, अमाई अकुऊहले। विणीयविणए दंते, जोगवं उवहाणवं // 27 // पियधम्मे दढधम्मे, वजभीरुहिए सए। एयजोगसमाउत्तो, तेउलेसं तु परिणमे // 28|| पयणुक्कोहमाणो य, मायालोभे य पयणाए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं / / 29|| तहा य पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्तो, पम्हलेसं तु परिणमे // 30 // अट्ठरुहाणि वज्जित्ता, धम्मुसुक्काणिसाहए। पसंतचित्ते, दंतप्पा, समिए गुत्ते य गुत्तिसु // 31 // सरागे वीयरागे वा, उवसंते जिइंदिए। एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे // 32 // पञ्चाश्रवा :- हिंसादयस्तैः प्रमत्तः-प्रमादवान् पञ्चाश्रवप्रमत्तः पाठान्तरतः पञ्चाश्रवप्रवृत्तौ वा अतस्त्रिभिः प्रस्तावान्मनोवाक्कायैः अगुप्तः-अनियन्त्रिातो मनोगुप्तयादिरहित इत्यर्थः, तथा-षट्सुपृथ्वीकायादिषु अविरतः-अनिवृत्तस्तदुपमर्दकत्वादेरिति गम्यते, अयं चातीव्रारम्भोऽपि स्यादत आह-तीव्रा-उत्कटाः स्वरुपतोऽध्यव सायतो वा आरम्भाः-सावद्यव्यापारास्तत्परिणतः-तत्प्रवृत्त्या तदात्मतांगतः, तथा क्षुद्रः-सर्वस्यैवाहितैषी कार्पण्ययुक्तो वा, सहसा-अपलोच्य गुणदोषान् प्रवर्तत इति साहसिकः, चौर्या दिकृदिति योऽर्थः, नरः-पुरुषः उपलक्षणत्वात्त्र्यादिर्वा 'णिद्धंधस' त्ति अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुबाधानपेक्षो वा परिणामोऽध्यवसायो वा यस्य ‘स तथा 'णिस्संसो' त्ति नृशंसः-निस्तूंशो जीवान् विहिंसन् मनागपिन शङ्कते, निःशंशोवा-परप्रशंसारहितः। अजितेन्द्रियः अनिगृहीतेन्द्रियः, अन्ये तुपूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तचेहेति, उपसंहारमाह-एते च ते अनन्तरोक्ता योगाश्चमनोवाक्कायव्यापारा एतद्योगाः-पञ्चाश्रयप्रमत्तत्वादयस्तैः समिति--भृशमाइित्यभिव्याप्तया युक्तः-अन्वितः एतद्योगसमा युक्तः, कृष्णलेश्यां तुः-अवधारणे कृष्णलेश्यामेव परिणमेत् तदद्रव्य साचिव्येन तथाविधद्रव्यसम्पर्कात्स्फटिकवत्तदुपरञ्ज नात्तद्रूपतां भेजत्, उक्तं हि- "कृष्णादिद्रव्यसाचिव्यात्परिणामोय आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते // 1 // एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्यायाः सद्भावोपदर्शनादमीषां लक्षणत्वमुत्कम्, यो हि यत्सद्भाव एव भवति यतस्य लक्षणं यथौष्ण्यमग्नेः, एवमुत्तर त्रापि लक्षणत्वभावना कार्या 1 नीललेश्यालक्षणमाह - ईर्ष्या चपरगुणसहनम्, अमर्षश्च-अत्यन्ताभिनिवेशः, अतपश्चतपोविपर्ययः अमीषां समाहारनिर्देशः, 'अविज्ज' त्ति अविद्याकुशास्त्ररुपामायावञ्चनात्मिका अहीकता च-असमाचारविषया निर्लज्जता गृद्धिः-अभिकाङ्क्षा विषयेष्विति गम्यते, प्रद्वेषश्च-प्रद्वेषः मतुब्लोपादभेदोपचाराद्वा सर्वा तद्वान् जन्तुरुच्यते अतएव शठः अलीकभाषणात् प्रमत्तः प्रकर्षण जात्यादिमदासेवनात् पाठान्तरतः शठश्च मत्तः, तथा रसेषु लोलपोलम्पटो रसलोलुपः, सात-सुखं तद्भवेषकश्च-कथं मम सुखं स्यादिति बुद्धिमान,आरम्भात्-प्राण्युपमर्दात् अविरतः-अनिवृत्तः क्षुद्रःसाहसिको नरः, एतद्योगसमायुक्तो नील लेश्यां परिणमत्, तुः-प्राग्वत् पुनरर्थो वा 4 वक्र:-वचसा 'वक्रसमाचारः' क्रियया, निकृतिमानमनसा, अनृजुकः- कथंचिद्दजूकतमशक्यतया 'पलिउंचग' त्ति प्रतिकुञ्चक:-स्व-दोषप्रच्छादकतया उपधिः-छद्मतेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्र हायोपात्तानि, मिथ्याद्दष्टिनार्यश्च प्राग्वत्, 'उप्फालग' ति उत्प्रासकं यथा पर उत्प्रायस्ते दुष्ट च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः- समुच्चये स्तेनः-चौरः चः- प्राग्वत् अपि चइति पूरणे मत्सरः परसम्पदसहनं सति वा वित्ते त्यागाभावः, तथा चाहुः शाब्दिकाः- "परसम्पदामनसहन, वित्ताऽत्यागश्च मत्सरो ज्ञेयः" इति, तद्वान् मत्संरी, एतद्योगसमायुक्तः कापोतलेश्यां 'तुः' इति पुनः परिणमेत् // 'णीयावित्ति' ति नीचैर्वृत्तिः-कायमनोवाग्भिरनुत्सिक्तः अचपलः-चापलानुपेतः अमायी-शाट्यानन्वितः अकुतूहलःकुहकादिष्वकौतुकवानत एव विनीतविनयः-- स्वभ्यस्तगुर्वाधुचितप्रतिपत्तिः, तथा दान्तः इन्द्रियदमेन योग:--स्वाध्यायादिव्यापारस्तद्वान्, उपधानवान्-विहितशास्त्रोपचारः प्रियधर्मा अभिरुतिधर्मानुष्ठानः द्रढधर्माः-अङ्गीकृतव्रतादिनिर्वाहकः, किमित्येवम् ?, यतः 'वज्ज' त्ति वयम् प्राकृतत्वादकारलोपे अवयं चोभयत्र पापं तदीरुः हितैष्कःमुक्तिगवेषकः, पाठान्तररतो-हिताशयो वा परोपकारचेताः पठ्यते च'अणासवे तितत्रचन विद्यन्ते आश्रवा-हिंसादयो यस्यासाव नाश्रवः, एतद्योगसमायुक्तस्तेजोलेश्यांतुपरिणमेत्। प्रतनू अतीवाल्पो उक्तरुपः / प्रतनुक्तो यस्येति शेषः, अत एव प्रशान्तं-प्रकर्षेणोपशमवचित्तमस्येति प्रशान्तचित्तः, दान्तः-अहितप्रवृत्तिनिवारणतोवशीकृतआत्मायेनस तथा, योगवानु पधानवानिति च प्राग्वत्, तथा प्रतनुवादीस्वल्पभाषकश्चश