________________ लेसा 686 - अमिधानराजेन्द्रः - भाग 6 लेसा परिपाकाव्यभिचारिणा अत एवास्वादनीया विशेषतः स्वादनीया विस्वादनीया प्रीणयतीति प्रीणनीया "कृद् बहुल'' मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीया सर्वाणीन्द्रियाणि सर्वं च गात्रं प्रहादयति इति सर्वेन्द्रियगात्राप्रह्लादनीया एतावत्युक्ते भगवान् गौतम आह- "भवेयारुवा' भगवन् ! एतद्रूपाएवरुपरसोपेता पद्मलेश्या भवेत्। भगवानाह-'नो इणढे समढे' इत्यादि प्राग्वत् / / 'सुक्कलेस्सा णं भंते !' इत्यादि, गुडखण्डे प्रसिद्ध शर्करा-- काशादिप्रभवा मत्स्यण्डी-खण्डशर्करा पर्पटमोदकादयः सम्प्रदायादव सेयाः, शेषंसुगमम्।तदेवमुक्तो लेश्याद्रव्याणां रसः। प्रज्ञा० १७पद 4 उ०। सम्प्रति प्रकारान्तरेण रसमाह -- जह कडुय (य) तुंबरसो, निंबरसो कडुयराहिणिरसो वा। इत्तो वि अणंतगुणो, रसो उ कण्हाइ नायव्यो |10|| जह तिकडुयस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा। इत्तो वि अणंतगुणो, रसो उनीलाइ नायव्वो // 11 // जह तरुणअंबयरसो, तुवरकवित्थस्स वावि जारिसओ। इत्तो वि अणंतगुणो, रसो उ काऊइ णायव्वो // 13|| जह परिणयंबगरसो, पक्ककवित्थस्स वावि जारिसओ। इत्तो वि अणंतगुणो, रसो उ तेऊइ नायव्वो // 13|| वरवारुणीइ व रसो, विविहाणं व आसवाण जारिसओ। महुमेरगस्स व रसो, इत्तो पम्हाइ परएणं // 14 // खजूमुद्दियरसो,खीररसो खंडसकररसो वा। इत्तो उ अणंतगुणो, रसो उ सुकाइ नायव्वो // 15 // 'यथे ति सादृश्ये ततश्च यादृक् कटुकतुम्बकस्य रसः-आस्वादः कटुकतुम्बकरसः निम्बरसः-प्रतीतः कटुका चासौ रोहिणीच त्वग्विशेषः कटुकरोहिणी कटुकत्वाव्यभिचारित्वेऽपि तद्विशेषणमतिशयख्यापकं तद्रसो वा, ओषधीविशेषो वा कटु केह गृह्यते, 'यथे' ति सर्वत्रापेक्षते, इतोऽपि कटुकतुम्बकरसा देरनन्तेन-अनन्तराशिना गुणनं गुणो यस्यासावन्तगुणो रसस्तु-आस्वादः कृष्णायाः- कृष्णलेश्यायाःज्ञातव्यः- अवबोद्धव्यः, अतिकटुक इति तात्पर्यम् / यथा-यादृशः त्रिकटुकस्य प्रसिद्धस्य रसस्तीक्ष्णः-- कटुर्यथा हस्तिपिप्पल्या वा, अतोऽप्यनन्तगुणो रसस्तुनीलायाः ज्ञातव्योऽतिशयतीक्ष्ण इतिहृदयम्। यथा तरुणम्-अपरिपक्कं तच तदानकं च-आम्रफलं तद्रसः, तुवरम्सकषायम्, पाठान्तरतः-आर्द्रत्वाद्, उभयत्र चाथीदपक्कं तच्चतत्कपित्थं च-कपित्थ फलं तस्य, वाविकल्पे, अपिः-पूरणे, यादृशको रस इति प्रक्रमः / अतोऽप्यनन्तगुणो रसस्तु 'काऊए' त्ति कापोताया ज्ञातव्यः, अतिशयकषाया इत्याशयः / यथा परिणतं-परिपक्वं यदाभ्रकं तद्रसः पकवपित्थस्य वाऽपि यादृशको रसोऽतोऽप्य नन्तगुणो रसस्तु तेऊए' त्ति तेजोलेश्याया ज्ञातव्यः, आम्लः किञ्चिन्मधुरश्चेत्यैदम्पर्यम्। वरवारुणी-प्रधानसुरा तस्या वा रसो यादृशक इति योगः, विविधानां | वा-नानाप्रकाराणाम् आसवानाम्-पुष्पप्रसवमद्यानां वा यादृशको रस इति सम्बन्धः, 'महुमेरयस्स व रसो' ति मधु-मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकोऽतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः 'परकेणं तिअनन्ता नन्तगुणत्वात्तदतिक्रमण वर्त्तत इति गम्यते, अयं च किञ्चिदम्ल कषायो माधुर्यवांश्चेति भावनीयम्, पाठान्तरतोऽप्यनन्तगुणो रसस्तु पद्मायाः ज्ञातव्यः / खजूरं च - पिण्डखजूरादि मृद्रीका च-द्राक्षा एतद्रसः तथा क्षीररसः-प्रतीतः खण्डा च-इक्षुविकारः शर्करा च-काशादिप्रभवा तद्रसो वा यादृश इति शेषः, अतोऽप्यनन्तगुणो रसस्तुशुल्काया ज्ञातव्योऽत्यन्तमधुर इतिगर्भ इति सूत्राषट्कार्थः। उत्त०३४ अ०। (14) सम्प्रति लेश्यानां गन्धमाहकइणं भंते ! लेस्साओ दुब्मिगंधाओ पन्नत्ताओ?, गोयमा ! तओलेस्साओ दुब्मिगंधाओ पण्णत्ताओ, तं जहा-कण्हलेस्सा नीललेस्सा काउलेस्सा। कइणं भंते ! लेस्साओ सुब्भिगंधाओ पन्नत्ताओ?,गोयमा!तओलेस्साओ सुब्भि गंधाओपण्णत्ताओ, तं जहा-तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा। (सू० 228) 'कइणं भंते !' इत्यादि, सुगमम्। नवरम् - कृष्णनीलका पोतलेश्या दुरभिगन्धाः मृतगवादिकलेवरेभ्योऽप्यनन्तरगुणदुर भिगन्धोपेतत्वात्, तेजः पद्मशुल्कलेश्याः सुरभिगन्धाः पिष्य माणगन्धवाससुरभिकुसुमादिभ्योऽनन्तगुणपरमसुरभिगन्धोपेत त्वात्। प्रज्ञा० 17 पद। कीदृग्गन्धः लेश्यानामा दृष्टान्त :-- जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स। इत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं // 16 // जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं / इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१७॥ यथा गवां मृतकं-मृतकशरीरं तस्य गन्धः श्वमृतकस्य वा तथा यथा अहिः- सर्पस्तन्मृतकस्य गन्ध इति सम्बन्धः, सूत्रात्वान्मृतकशब्दे कलोपः अतोऽपि एतत्प्रकारादपि गन्धाद नन्तगुणोऽतिदुर्गन्धतया लेश्यानाम्, अप्रशस्तानाम्-अशुभानाम्, कोऽर्थः ?- कृष्णनीलकापोतानाम्, गन्ध इति प्रक्रमः, इह चलेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति तद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्तः। यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्धुपुष्पाणां गन्धः-परिमलः सुरभिकुसुमगन्धः, तथा गन्धाश्चकोष्ठपुट पाकनिष्पन्ना वासाश्च-इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषाम्, पाठान्तरतश्च गन्धानां च पिष्यमाणानां संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवभमिधानम्, अतोऽपिएतत् प्रकारादपि गन्धाद् अनन्तगुणः अतिशयसुगन्धितया प्रशस्त लेश्यानाम् तिसृणामपि-तैजसीपद्मशुल्कानां गन्ध इति प्रक्रमः इहापि प्रशस्तत्वविशेषाद्गन्धविशेषोऽनुमीयत इति नोत्क इति सूत्राद्वयार्थः // उत्त०३४ अ०।