________________ मग्ग 46- अभिधानराजेन्द्रः - भाग 6 मग्ग धानान्तरमात्रेणान्यथात्वं भजते, विष वा मधुरकाभिधानेनेति / एवमन्येषामपि कापिलाऽदीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशोत्पादावभिधदतामनैपुण्यमाविष्करणीयम्, तदेव ते वराकाः शाक्याऽऽदयो मनोज्ञोशिष्टभोजिनः सपरि ग्रहतयाऽऽर्तध्यायिनोऽसमाहिता मोक्षमार्गाऽऽख्यात भावसमाधेरसंवृततया दूरेण वर्तन्त इत्यर्थः / / 26 / / यथा चैते रससातागोरवतयाऽऽर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेण दर्शयितुमाह - जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलुसाधमं // 27|| एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा / / 28|| यथेत्युदाहरणोपन्यासार्थः 'यथा' येन प्रकारेण ढङ्कादयः पक्षिविशेषा जलाऽशयाऽऽश्रया आमिषजीविनो मत्स्यप्राप्ति ध्यायन्ति, एवंभूत च ध्यानमार्तरौद्रध्यानरूपतयाऽत्यन्तकलुषमधमं च भवतीति // 27 // दार्शन्तिकं दर्शयितुमाह-एवमिति यथा ढाऽऽदयो मत्स्यान्वेषणपरं ध्यानध्यायन्ति तद्ध्यायिनश्चकलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणाः 'एके' शाक्याऽऽदयोऽनार्यकर्मकारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणांशब्दाऽऽदीनां प्राप्तिं ध्यायन्ति तद्व्यायिनश्च कड़का इव कलुषाधमा भवन्तीति // 28 // किञ्चसुद्धं मग्गं विराहिता, इहमेगे उदुम्मती। उम्मग्गगता दुक्खं, घायमेसंति तं तहा।।२६।। जहा आसाविणिं नावं, जाइअंधो दुरूहिया। इच्छई पारमागंतुं, अंतरा य विसीयति / / 30 / / एवं तु समणा एगे, मिच्छट्ठिी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं // 31 // इमं च धम्ममादाय, कासवेण पवेदितं। तरे सोयं महाघोरं, अतत्ताए परिव्वए॥३२॥ 'शुद्धम् अवदात निर्दोष मार्ग' सम्यग्दर्शनाऽऽदिकमोक्षमार्ग कुमार्गप्ररूपणया 'विराध्य' दूषयित्वा 'इह' अस्मिन्ससारे मोक्षमार्गप्ररूपणाप्रस्तावे वा 'एके शाक्याऽऽदयः स्वदर्शनानुरागेण महामोहाऽऽकुलितान्तराऽऽत्मा नो दुष्टा पापोपादानतया मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गणसंसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता दुःख वतीति दुःखम् - अष्टप्रकार कर्माऽसातोदयरूपं वातदुःखंघातं चान्तशरतेतथासन्मार्गविराधनया उन्मार्गगमन च 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः // 26 // शाक्याऽऽदीनां चापायं दिदर्शयिषुस्तावद् दृष्टान्तमाह-प्रथा जात्यन्धः 'आस्राविणीं शतच्छिद्रां नावमारुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किं तर्हि ? अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीर्थः॥३०॥ दार्शन्ति- 1 कमाह-एवमेव श्रमणा 'एके' शाक्याऽऽदयो मिध्यादृष्टयोऽनार्याः भावस्रोतः-कर्माऽऽश्रवरूपं कृत्स्न' संपूर्णमापन्नाः सन्तस्ते महाभयं' पनि पुन्येन संसारपर्यटनया नारकाऽऽदिस्वभावं दुःखम् आगन्तार:' आगमनशीला भवन्ति, न तेषा संसारोदधेरास्त्राविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः // 31 // यतः शाक्याऽऽदय: श्रमणाः मिथ्यादृष्टयोऽनायीः कृत्स्नं सोतः समापन्नाः महाभयमागन्तारो भवन्ति त्त इदमुपदिश्यते इममिति प्रत्यक्षाऽऽसन्नवाचित्यादिदम्नन्तरं वक्ष्यमाणलक्षणं सर्वलोकप्रकट च दुर्गतिनिषेधेन शोभनगतिधारणत् 'धर्म' श्रुतचारित्राऽऽख्यं, चशब्दः पुनः शब्दार्थे, सच पूर्वस्माद्व्यतिरेक दर्शयति, यस्माच्छौद्धोदनिप्रणीतधर्मस्याऽऽदातारो महाभवं गन्तारो भवन्ति, इम पुनर्धर्मम् आदाय' गृहीत्या 'काश्यपेन' श्रीवर्धमानन्वामिना प्रवेदित' प्रणीतं 'तरेत्' लमयेद्धावस्रोतः संसारपर्यटनस्वभाट, तदेव विशिनष्टि'महाधोर' दुरुत्तररवान्महाभयानकं, तथाहि-तदन्तर्वर्तिी जन्तवो गर्भादर्भ जन्मतो जन्म मरणान्मरणं दुःखाद् दुःखमित्येवमरघघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते / तदेवं काश्यपप्रणीतधर्माऽऽदानेन सता आत्मनस्त्राणनरकाऽऽदिरक्षा तस्मै आत्मत्रापाय परिःसमनतात् (व्रजेत्) पविजेत्संयमानुष्ठायी भवेदित्यर्थः, क्वचित्पश्चार्धस्थान्यथा पाठ- 'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए।' 'भिक्षुः साधुः ग्लानस्य वैयावृत्त्यम् अग्लानः' अपरिश्रान्तः बुर्यात्सम्यवसमाधिना ग्लानस्य वा समाधिमुत्पादयन्निति // 32 // कथं संयमानुष्ठाने परिव्रजेदित्याहविरए गामधम्मेहिं, जे केई जगई जगा। तेसिं अनुवमायाए, थामं कुव्वं परिव्वए।३३।। अइमाणं च मायं च, तं परिन्नाय पंडिए। सव्वमेयं णिराकिच्चा, णिव्वाणं संधए मुणी॥३४॥ संधए साहुधम्मं च, पावधम्मं णिराकरे। उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए // 35 // जे य बुद्धा अतिकता, जे य बुद्धा अणागया। संति तेसिं पइट्ठाणं, भूयाणं जगती जहा // 36) ग्रामधर्माः-शब्दाऽदयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारो दरे ‘जगा' इति जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात्, तत् कुर्वश्च सयमानुष्ठाने परिव्रजेदिति // 33 // संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वतते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायां, घशब्दादतिलोभं च, तमेवंभूतं कषायव्रातं संयमपरिपन्थिनं पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूह निराकृत्य निर्वाणमनुसन्धयेत्, सति च कषायकदम्बके न सम्यक संयमः सफलता प्रतिपद्यते / तदुक्तम्- “सामण्णमणुचरंतस्स कसाया जस्स उकडा होति। मण्णामि उच्छुपुप्फ, व निप्फलं तस्स सामण्णं !!1 // '