________________ लेवि 675 - अभिधानराजेन्द्रः - भाग 6 लेसा 'एविणु' इत्यादेशः / ग्रहीतुमित्यर्थे, "लेवि महव्वय सिवु लहहि" प्रा० | 4 पाद। लेविणु अव्य० (लातुम्) आदाने, "लेविणुतवु पालेवि" प्रा० 4 पाद। लेस पुं० (श्लेष्म) श्लेष्मणि, विशे०। लेश पुं० / संक्षेपे, पञ्चा० 18 विव० / पं० व० / कलाद्वयकाले, तं०। स्तोके, "थेवलेसोलवो कला मत्ता' पाइ० ना० 164 गाथा। लिखिते आश्वस्ते, निद्रायाम, निःशब्दे च दे० ना०७ वर्ग 28 गाथा। *श्लेष पुं० संश्लेषे, रा०। आचा० / मात्रामायाम, पञ्चा०७ विव०। त्रि० श्लेषद्रव्ये, प्रश्न०५ संव० द्वार। लेसणता स्त्री० / श्लेष्मण - न० / ऊर्बादीनां जानुप्रभृतिभिः संबन्धे, प्रज्ञा०१६ पद। लेसणा स्त्री० (श्लेषणा) श्लेषद्रव्येण द्रव्ययोः सम्बन्धने, भ०८ श०६ उ०। सूत्र०। लेशना-स्त्री० / अङ्गुल्याद्यवयवसंश्लेषरुपायाः स्तम्भने, सूत्रा० 1 श्रु० ३अ०१ उ०। लेसणी स्त्री० (श्लेषणी) श्लिष्टताहेतौ विद्याभेदो, ज्ञा०१श्रु०१६ अ०। लेसमेत्त त्रि० (लेश्यमात्र) अल्पमात्र, द्रव्या०१ अध्या०! लेसा(स्सा) स्त्री० (लेश्या) लिश्यते प्राणी कर्मणा यया सा लेश्या / यदाह-श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः / स्था०१ठा०। ज्ञा०। लिश्यते-श्लिष्यते कर्मणा सह आत्मा अनयेति लेश्या। कर्म०४ कर्म०। कृष्णादिद्रव्यसाचिव्या दात्मनः परिणामविशेषे, "कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते // 1 / / प्रज्ञा० 17 पद / स्था० / आ० म० / पा० / स०। अध्यवसाये, आचा०१श्रु०६अ०५ उ०। अन्तः करणवृत्तौ, आचा०१ श्रु०८ अ०५ उ०। सूत्र०। अथ कानि कृष्णादीनि द्रव्याणि ? उच्यतेइहयोगेसति लेश्या भवति, योगाभावेचन भवति ततो योगेन सहान्वयव्य तिरेकदर्शनात् योगनिमित्तालेश्येति निश्चीयते, सर्वत्रापि तन्निमित्तत्वनिश्चयस्यान्यव्यतिरेकदर्शन मूलत्वात्, योगनिमित्ततायामपि विकल्पद्वयमवतरति-किंयोगान्तरगत द्रव्यरुपायोगनिमित्तकर्मद्रव्यरुपावा ? तत्रा न तावद्योगनिमि तकर्माद्रव्यरुपा, विकल्पद्वयानतिक्रमद्रव्यरुपा अघातिकर्म द्रव्यरुपा वा?, न तावद्घातिकर्मद्रव्यरुपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात्, नापि अघातिकमरुपा, तत्सद्भावेऽपि अयोगिकेवलिनि लेश्याया अभावात्, ततः पारिशेष्यात् योगान्तर्गतद्रव्यरुपा प्रत्येया। तानि च योगान्त र्गतानि द्रव्याणि यावत्कषायास्तावत्तेषामप्युदयोपबृहकाणि भवन्ति, दृष्टं च योगान्तरगतानां द्रव्याणां कषायोदयोपबृंहणसा मर्थ्यम्, यथा पित्तद्रव्यस्य। तथाहि-पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्धमानः कोपः अन्यच्च--बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते, यथा-ब्राह्ययोषधिार्ज्ञानावरणक्षयोपसमस्य, सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविदेक विकलतोपजायते, दधिभोजनं निद्रारुपदर्शनावरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ? तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरेस सम्यगुपपन्नः, यतः स्थिति पाको नामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्तर्गत कृष्णादिलेश्यापरिणामाः, ते च परमार्थतः कषायस्वरुपा एव, तदन्तर्गतत्वात्, केवलं योगान्तर्गतद्रव्यसहकारिकारणभेदवैचित्र्याभ्यां ते कृष्णादिभेदेर्भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद्भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकाख्ये ग्रन्थेऽभिहितम्- "ठिइ अणुभार्ग कसायओ कुणइ' इति तदपि समीचीन मेव, कृष्णादिलेश्यापरिणमानामपि कषायोदयान्तर्गतानां कषायोदयान्तर्गतानां कषायरुपत्वात् तेन यदुच्यते कैश्चिद्योगपरिणामत्वे लेश्यानाम् "जोगा पयडिपएसं ठिइअणुभार्ग कसायओ कुणइ'' इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्मस्थितिहेतुत्वमिति, तदपि न समीचीनम्, यथोत्कभावार्थापरिज्ञानात्। अपिच - न लेश्याः स्थितिहेतवः, किन्तु-कषायाः, लेश्यास्तु कषायो दयान्तर्गता अनुभाग हेतवः, अत एव च- "स्थितिपाकविशेष स्तस्य भवति लेश्याविशेषेण" इत्यत्रानुभागप्रतिपत्यर्थं पाकग्रहणम् / एतच सुनिश्चित्तं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्त परिज्ञानमपिन सम्यक् तेषामस्ति / यदप्युक्तम् - 'कर्मनिष्यन्दो लेश्या, निष्यन्दरुपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्यापि सद्भायात्, कास्थितिहेतुत्वमपि युज्यते एवेत्यादि, तदप्यश्लीलम, लेश्यानामनुभागबन्ध हेतुतया स्थितिबन्धहेतुत्वायोगात् / अन्यच्च-कर्मनिष्यन्दः किं कर्म कल्क, उत कर्मसारः ?, न तावत्कर्मकल्कः तस्यासारत योत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसङ्क्तेः, कल्को हि असारो भवति, असारश्व कथमुत्कृष्टानुभाग बन्धहेतुः?, अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तहि कस्य कर्मणः सार इति वाच्यम् ?, यथायोगमष्टानामपीति चेत् अष्टानामपि कर्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्मणो लेश्यारुपो विपाक उपदर्शितः, ततः कथं कर्मसारपक्षमङ्गीकुर्महे ?, तस्मात् पूर्वोक्त एव पक्षः श्रेयानित्यङ्गीकर्तव्यः / तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र तत्र प्रदेशे अङ्गीकृतत्वादिति। प्रज्ञा०१७ पद। (1) अथलेश्यानिक्षेपमाह- . आगम नोआगमतो, नोआगमतो य सो तिविहो। लेसाणं निक्खेवो, चउकओ दुविह होइ नायव्वो // 13 // जाणगभवियसरीरा, तय्वइरित्ताय सा पुणो दुविहा। कम्मा नोकम्मे या, नोकम्मे हुंति दुविहा उ॥५३५|| जीवाणमजीवाण य, दुविहा जीवाण होइ नायव्वा। भवमभवसिद्धिआणं, दुविहाण वि होइ सत्तविहा॥५३६।। अजीवकम्मनो दव्व लेसा सा दसविहा उनायव्वा। चंदाण य सूराण य, गहगणनक्खत्तताराणं / / 537 / / आभरणच्छायणा-दंसगाण मणिकागिणीण जा लेसा। अजीवदव्वलेसा, नायव्वा दसविहा एसा॥५३८|| जा दव्वकम्मलेसा, सा नियमा छव्विहा उनायव्वा।