________________ लेव 673 - अमिधानराजेन्द्रः - भाग 6 लेव लेपकृतं स्निग्धं वा भवेत्, अस्निग्धं वा भवेत् / यदि स्निग्धं ततो गोबरेण-गोमयेन - 'पुढे' प्रोच्छितं सुघृष्ट पात्रकं कृत्वा निरवयवीभूतं सत्प्रत्युपेक्ष्य रात्रौ स्थापयन्तिनधारयन्तीति भावः। अथास्निग्धं ततः संलेखनकल्पेन सुसंलीढं कृत्वा स्थाप्यते; न पुनः करीषेण मृष्यते, यदिवसे द्रवं ग्रहीतव्यं ततो धावित्वा त्रिः कल्पयितव्याः / अथ भक्तं ततोऽधौतेऽपि गृह्यते न कश्चिद्दोषः।। अत्र पर प्राहजइ ओदणो अधोए, धिप्पइ तो अवयवेहि निसिभत्तं / तिनि य न होति कप्पा, ता धोवसु जाव निग्गंधं ||18|| तम्हा गुय्वरपुटुं, सलीढंचे धोविउं हिंडे। इहरा भे निसिभत्तं, ओअविअंचेव गुरुमादी||cell यद्यधौते पाने द्वितीये अहनि ओदनो गृह्यते ततो नुतत्र सूक्ष्मा अवयवाः सन्ति येषां गन्धस्तृतीयेऽप्यहनि लक्ष्यते, तैश्चावयवैः तथास्थितैः सद्भिर्यदपरं भक्तं तत्र गृह्यते तद्भञ्जानानां निशिभक्तं भवति, तच युष्माभिर्लेपकृतस्य यः कल्पा:-शुद्धिकरणतया निर्दिष्टास्तदप्यस्माकं मनसि न रुचि पथमियर्ति, कल्पत्रये दत्तेऽपि तदीयगन्धस्याघ्रायमाणत्वात्, ततोऽहमित्थं प्ररुपयामीति 'धोबसु जाव निगंध' ति तावत् तत्प्रक्षालय यावन्निर्गन्धीभवति, न च बहुभिराप कल्पैनिगन्धी भवति तस्माद्यल्लेपं कृतं स्निग्धं तद् गोबरेण-छगणेन प्रोञ्छितं कृत्वा अस्निग्धं तु सुसंलीदं कृत्वा द्वितीये दिवसे धावित्वाकल्पयित्वा भिक्षां हिण्डेतइतरथा--कल्पकरणमन्तरेण (भे) भवतां निशिभक्तमापद्यते, अकृतकल्पे च भाजने गृहीतमपरमपि भक्तम्, 'उअवियं उच्छिष्टं भवति / तच गुर्वादीनामाचार्योपाध्यायप्रभृतीनां दीयमानं महतीमाशातनामु पजनयति। इत्थं परेणोक्ते सति सूरिराह - भन्नइ न अन्नगंधा, हणंति छटुंजव उग्गारा। तिनि य कप्पा नियमा, जइ विय गंधो जहा लोए / / 10 / / भण्यते अत्र प्रतिवचनम्-अमुष्य भक्तस्य गन्धाः षष्ठं-रात्रिविरमणव्रतं नम्नन्ति, यथैवोद्वारा राम्रो समागच्छन्तोऽपि नषष्ठव्रतमुपनन्तिः, तथा पात्रके यद्यपि गन्धः समागच्छन्ति तथापि नियमात् त्रय एव कल्पा दातव्या नाधिका न वा हीनाः, तथा भगवद्भिरुक्तत्वात्, यथा-लोकेऽपि प्रतिनियता भाजनशोधनाय मृत्तिकालेपाः भवन्ति। तथाहिवारिखलाणं बारस, मट्टीया छच वाणपत्थाणं। मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि||६०१।। वारिखलाः- प्रव्राजकास्तेषां द्वादश मृत्तिकालेपा भाजनशोधका भवन्ति, षट् च मृत्तिकालेपा वानप्रस्थानां तापसानां शौच साधकाः संजायन्ते, एवं लोकेऽपि स्वसमयप्रतिपादितानि प्रति नियतान्येव शौचानि दृष्टानि / अतो हे नोदक ! एतावतः कल्पान् मा भण-मा वृहि, तावद् दातव्यं यावन्निर्गन्धीभवतीत्यप्रति नियतानित्यर्थः / तथाप्रतिमेति मोकप्रतिमा साऽपि प्रवचन भणिताः, तस्यां हि मोकमपि पीत्वा शुचिरेव भवति। एतदेव भावयतिपिह सोयाइं लोए, अम्हं पि अलेवगं अगंधं च। मोरण वि आयमणं, दिह तह मोयपडिमाए।।१०।। यथा लोके पृथक्-विभिन्नानि शौचानि दृष्टानि तथाऽस्माक मपि त्रिभिः कल्पैः प्रदत्तैरलेपकम् अगन्धं च पाठाकं भवतीत्येवं शोधविधिर्भगवद्भिर्दृष्ट इति। तथा मोकेनाप्याचमनं मोक प्रतिमायां दृष्टमेव / परः प्राऽऽहजइ निल्लेवमगंध, पडिकुटुं तं कहं नु जिणकप्पे। तेसिं चेव अवयवा, रुक्खासि जिणा न कुव्वंति।।६०३|| यदि निर्लेपमगन्धं च शौचं दृष्टं ततः कथं नुरिति वितर्के, तन्निर्लेपनं जिनकल्पे प्रतिपन्ने सति प्रतिक्रुष्टम् -प्रतिषिद्धम्। 'तेसिं चेव अवयव' त्ति अनिर्लेपिते तेषां जिनकल्पिकानां सन्त्येव सूक्ष्माः पुरीषादेरवयवाः यैरमीषां शुचित्वं न भवति। सूरिराह-रुक्षाशिनो जिनाः-जिनकल्पिका भगवन्तस्ततः अभिन्नवर्चस्कतया नसन्ति सूक्ष्माश्चावयवाः अमीषाम, तदभावाच दूरापास्तप्रसरस्तेषां पुरीषगन्ध इति हेतोर्न लेपनम्। आहयद्यभिन्नवर्चस्कतया जिनकल्पिकाः शौचं न कुर्वन्ति, तर्हि ये स्थविरकल्पिका अप्यभिन्नोचारास्तेषामपि संज्ञामुत्सृज्य किं कारणमवश्यं शौचकरणमुक्तम् ?, उच्यतेथंडिल्लाण अनियेमा, अभाविए इविजुयलमुडयरे। सज्झाए पडणीए, न ते जिणे जं अणुप्पेहे ||10|| स्थविरकल्पिका प्रथमस्थण्डिला भाविद्वितीयतृतीय चतुर्थान्यपि स्थण्डिला गच्छन्ति, तत्रा च यदि न निर्लेपयन्ति तत आपाततः संलोकसमुत्था अवर्णवादादयो दोषा भवेयुः, इति स्थथिलानामनियमादवश्यतया शौचं कुर्वन्ति, अभावितो नाम-अपरिणतजिनवचनः, तस्य निर्लेपनाभावेमा भूद्विपरिणाम इति 'इड्डि' त्ति ऋद्धिमान राजादीनामन्यतमः प्रव्रजितः,स प्रायेण शौचकरणभावित इति तदर्थम, तथायुगलं बालवृद्धद्वयं तत्प्रायेण भिन्नवर्चस्कं भवति, उड्डयरो नाम-यः समुद्दिशन संज्ञां वा व्युत्सृजन् चपलत्या हस्तादीन्यपि लेपयति, 'सज्झाए' ति अनिर्लेपित स्थविरकल्पिकानां स्वाध्यायो न वर्तते वाचा कर्तुम्पडिणीए त्ति प्रथमस्थण्डिलाभावे द्वितीयस्थण्डिलगतस्य शौचकरणमदृष्टवा प्रत्यनीकः उड्डाहं कुर्यात्, 'न ते जिण' ति जिनकल्पिके नैतेषां स्थण्डिलानियमादयो दोषा भवन्ति 'जं अणुप्पेहे ति यद्यस्माचासौ स्वाध्यायं मनसैवानुप्रेक्षितेन वा परिवर्तयति ततो न निर्लेपयति, स्थविरकल्पिकानां तु मनसा स्वाध्यायकरणे प्रभूतेनापि कल्पेन न सूत्रार्थी परिजितौ भवति इति। एमेव अप्पलेवं, सामासेउं जिणा नधोवंति। जइ विन निरावयवं, अहावि ईए उसुज्झंति / / 105|| एवमेवाल्पलेपमल्पशब्दस्य नार्थवाचकत्वादलेपकृतं भाजनं यद्यपि न निरवयवं संजायते तथापि यथा स्वकल्पानु पालनादेव शुद्ध्यति, स्थितिरियं तेषां यदेवमेव शुचयो भवन्ति इति।